________________
प्राभृतं १, प्राभृतप्राभृतं ८
-
४५
प्राकृतत्वात्, प्राकृते हि लिङ्ग व्यभिचारि, एवं भगवता गौतमेन प्रश्ने कृते सति भगवानेतद्विषयपर तीर्थिकप्रतित्तीनां मिथ्याभावोपदर्शनाय प्रथमतस्ताएवोपन्यस्यति
'तत्थ खलु' इत्यादि, तत्र मण्डलबाहल्यादिविचारविषये खल्विमास्तिन प्रतिपत्तयः प्रज्ञप्ताः, तद्यथा - तत्र तेषां त्रयाणां परतीर्थिकानां मध्ये एके तीर्थान्तरीया एवमाहुः - 'ता' इति प्राग्वत्, सर्वाण्यपि मण्डलपदानि - सूर्यमण्डलानि 'जोयणं बाहल्लेणं' ति प्रत्येकं योजनमेकं 'बाहल्येन' पिण्डेन एकं योजनसहस्रमेकं च त्रयस्त्रिंश-त्रयस्त्रिंशदधिकं योजनशतं, आयामविक्खंभेणं' ति आयामश्च विष्कम्भश्च आयामविष्कम्भं समाहारो द्वन्द्वस्तेन प्रत्येकमायामेन विष्कम्भेन चेत्यर्थः, त्रीणि योजनसहस्राणि त्रीणि च नवनवतानि योजनशतानि परिक्षेपतः प्रज्ञप्तानि, इह च येषां तीर्थान्तरीयाणां मतेन मण्डलस्यायामविष्कम्भमेवयोजनसहस्रमेकं योजनशतं च त्रयस्त्रिंशदधिकमायामविष्कम्भाभ्यां ते परिरयपरिमाणं वृत्तपरिमाणात् त्रिगुणमेव परिपूर्णमिच्छन्ति, न विशेषाधिकमतस्त्रिणि योजनसहस्राणि त्रीणि शतानि नवनवतानीत्युक्तं तथाहि - सहस्रस्य त्रीणि सहस्राणि शतस्य त्रीणि शतानि त्रयस्त्रिंशतश्च नवनवतिरिति इदं परिरयपरिमाणं 'विक्खंभवगदहगुणकरणी वट्टस्स परिरओ होइ' इति परिरयगणितेन व्यभिचारि, तेन हि परिरयपरिमाणानवने त्रीणि योजनसहस्राणिपञ्च शतानि द्व्यशीत्यधिकानिकिञ्चित्समधिकान्यागच्छन्ति ।
तथाहि - एकंयोजनसहस्रमेकं च योजनशतंत्रयस्त्रिंशदधिकमित्येकादश योजनशतानि त्रयस्त्रिंशदधिकानि एतेषांवर्गो विधीयते, जात एकको द्विकोऽष्टकस्त्रकः षट्कोऽष्टकोनवकः ततोदशभ्रिगुणितेन जातमेकमधिकंशून्यं एतेषांवर्गमूलान-यने आगच्छतियथोक्तं परिरयपरिमाणमतस्तन्मतेन परिरयपरिमाणंव्यभिचारि, एवमुत्तरमपि मतद्वयं परिभावनीयं, अत्रैव प्रथममते उपसंहार ‘एगे एवमाहंसु' १, एकेपनरेवमाहुः - सर्वाण्यपि सूर्यमण्डलपदानि प्रत्येकमेकं योजनं वाहल्येन एकं योजनसहस्रमेकं च योजनशतं चतुस्त्रिंश- चतुस्त्रशदधिकमाथामविष्कम्भाभ्यां त्रीणि योजनसहस्राणि चत्वारि योजनशतानि द्व्युत्तराणि परिक्षेपतः ।
तथाहि - एतेषामपि मतेन विष्कम्भपरिमाणात् परिरयपरिमाणं परिपूर्णत्रिगुणरूपं, ततः सहस्रस्य त्रीणि सहस्राणिशतस्य त्रीणि शतानि चतुस्त्रिंशतो द्वयुत्तरं शतमिति, अत्रैवोपसंहारमाह'एगे एवमाहंसु' एके पुनरेवमाहुः - सर्वाण्यपि मण्डलपदानि - सूर्यमण्डलानि प्रत्येकमेकं योजनं चाहल्येन एकं योजनसहस्रमेकं च योजनशतं पञ्चत्रिंशं पञ्चात्रिंशदधिकमायामविष्कम्भाभ्यां त्रीणि योजनसहस्राणि चत्वारि योजनशतानि पञ्चोत्तराणि परिक्षिपेतः, तथाहि - एकस्य योजन सहस्रस्य त्रीणि योजनसहस्राणि शतस्य त्रीणि शतानि पञ्चत्रिंशतः पञ्चोत्तरं शतमिति, एतानि त्रीण्यपि मतानि मिथ्यारूपाणि परिरयपरिमाणमात्रेऽपि व्यभिचारात्, अतो भगवान् तेभ्यः पृथक्स्वमतमुपदर्शयति- 'वयं पुण' इत्यादि, वयं पुनरेवं वक्ष्यमाणप्रकारेण वदामः, तमेव प्रकारमाह- 'तासव्वा वी 'त्यादि 'ता' इति पूर्ववत् सर्वाण्यपि मण्डलपदानि - सूर्यमण्डलानि प्रत्येकं वाहल्येनाष्टाचत्वारिंश देकषष्टिभागा योजनस्य आयामविष्कम्भपरिक्षेपेणआयामविष्कम्भ - परिक्षेपैः पुनरनियतानि आख्यातानि कस्यापि मण्डलस्य कियानू आयामो विष्कम्भः परिक्षेपश्चेति भावइति स्वशिष्येभ्योव- देत्, एवमुक्ते भगवान् गौतमः पृच्छति'तत्थ णं को हेऊ इति वइज्जा' तत्र - मण्डलपदानामायाविष्कम्भपरिक्षेपानियतत्वे को
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org