________________
४०
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १/६/२८ चारंचरन् आख्यात इति वदेत्, साम्प्रतमस्यैव वाक्यस्य स्पष्टावगमनिमित्तंप्रश्नसूत्रमुपन्यस्यति
'तत्थको०' तत्र-एवंविधवस्तुतत्वावगतौ को हेतुः?-का उपपत्तिरिति वदेत् भगवान्, एवमुक्ते –'ता अयण्ण'मित्यादि, इदं जम्बूद्वीपवाक्यं पूर्ववत् परिपूर्ण पठनीयं व्याख्यानीयं च, 'ता जया ण'मि० तत्र यदा सूर्य सर्वाभ्यन्तरं मण्डलमुपससंक म्य चारं चरति तदा उत्तमकाष्ठाप्राप्तः-परमप्रकर्षप्राप्त उत्कर्षकः-उत्कृष्टोऽष्टादशमुहूर्तो दिवसो भवति, जघन्याच द्वादशमुहूर्ता रात्रिः । सेनिक्खममाणे' ततः सर्वाभ्यन्तरान्मण्डलानिष्क्रमन्सः सूर्योनवंसंवत्सरमाददानो नवस्य संवत्सरस्य प्रथमेऽहोरात्रे अभिंतति सर्वाभ्यन्तरस्यमण्डलस्यानन्तरं-बहिर्भूतं द्वितीयं मण्डलमुपसंक्रम्य चारं चरति, 'ता जया णं'मि० तत्र यदा तस्मिन्नवसंवत्सरसत्के प्रथमेऽहोरात्रे सर्वाभ्यन्तरानन्तरं द्वितीयं मण्डलमुपसंक्रम्य सूर्यश्चारं चरति, चारं चरितुमारभते
'तदा ण मिति प्राग्वत्, द्वे योजने अष्टाचत्वारिंशतं च एकषष्टिभागान् योजनस्य एकैकेन रात्रिन्दिवेन पाश्चात्येनाहोरात्रेण विकम्प्य चारंचरति, इयमत्र भावना-सर्वाभ्यन्तरे मण्डले प्रविष्टः सन्प्रथमक्षणादूर्ध्वं शनै-शनैस्तदनन्तरं द्वितीयमण्डलाभिमुखंतथा कथंचनमण्डलगत्या परिभ्रमति यथा तस्याहोरात्रस्यपर्यन्ते सर्वाभ्यन्तरमण्डलगतान्अष्टाचत्वारिंशतमेकषष्टिभागान्योजनस्यापरे च द्वे योजने अतिक्रान्तो भवति, ततो द्वितीयेऽहोरात्रे प्रथमक्षणे एव द्वितीयमण्डलमुपसम्पन्नो भवति, तत उक्तम्- 'तयाणं दो जोयणाईअडयालीसंचएगट्ठिभागेजोयणस्स एगेणं राइदिएण विकंपइत्ता सूरिए चारंचरति', 'तया ण मि० तदासर्वाभ्यन्तरानन्तरद्वितीयमण्डलचारचरणकाले णमिति पूर्ववत् अष्टाशमुहूर्तो दिवसो भवतो द्वाभ्यां मुहूर्तेकषष्टिभागाभ्यासूनः द्वादशमुहूर्ता रात्रि द्वाभ्यांमुहूर्तेकषष्टिभागाभ्यामधिका, तस्मिन्नि द्वितीयेमण्डले प्रथमक्षणादूर्ध्वंतथा कथञ्चनापि तृतीयमण्डलाभिमुकंमण्डलपरिभ्रमणगत्या चाचरतियथा तस्याहोरात्रस्य पर्यन्ते द्वितीयमण्डलगतानष्टाचत्वारिंशतमेकषष्टिभागान् योजनस्यापरे च तद्बहिर्भूते द्वे योजने अतिक्रान्तो भवति, ततो नवसंवत्सरस्य द्वितीयेऽहोरात्रे प्रथमक्षण एव तृतीयं मण्डलमुपसंक्रमति, तथा चाह_ 'सेनिक्खममाणे' इत्यादि, ससूर्यो द्वितीयान्मण्डलाप्रथमक्षणादूर्ध्वं शनैः शनैर्निष्क्रमन्बहिर्मुखं परिभ्रमन् नवसंवत्सरसत्के द्वितीयेऽहोरात्रे ‘अभितरतचं ति सर्वाभ्यन्तरान्मण्डलात्त - तीयमण्डलमुपसंक्रम्य चारं चरति, तदा द्वाभ्यां रात्रिन्दिवाभ्यां यावत्रमाणं क्षेत्रं विकम्प्य चारं चरति तावनिरूपयितुमाह
___ 'ताजयाण मित्यादि, तत्र यदा सूर्य सर्वाभ्यन्तरान्मण्डलातृतीयं मण्डलमुपसंक्रम्य चारं चरति तदा द्वाभ्यां रात्रिन्दिवाभ्यां सर्वाभ्यन्तरमण्डलगततदनन्तरद्वितीयमण्डलगताभ्यां पञ्च योजनानि पञ्चत्रिंशतंच एकषप्टिभागान् योजनस्य विकम्प्य, तथाहि-एकेनाप्यहोरात्रेण द्वे योजने अष्टाचत्वारिंशच्च योजनस्यैकषष्टिभागा विकम्पिता द्वितीयेनाप्यहोरात्रेण,तत उभयमीलने यथोक्तं विकम्पपरिमाणं भवति, एतावन्मात्रं विकम्प्य चारंचरति, 'तया ण'मित्यादि, रात्रिन्दिवपरिमाणं सुगम, सम्प्रति शेषमण्डलेषु गमनमाह
‘एवंखलु इत्यादि, एवं-उक्तेन प्रकारेणखत्तु-निश्चितमेतेनोपायेमतत्तन्मण्डलप्रवेशप्रथमक्षणादूर्ध्व शनैः शनैस्तत्तदबहिर्भूतमण्डलाभिमुखगमनरूपेण तस्मात्तनमण्डलान्निष्क्रमन् तदनन्तरान्मडलात्तदनन्तरंमण्डलं संक्र मन् २ एकैकेन रात्रिन्दिवेन द्वे द्वेयोजने अटाचत्वारिंशतं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org