SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ प्राभृतं १, प्राभृतप्राभृतं -६ तया णं पंच जोयणाई पणतीसंघ एगद्विभागे जोयणस्स दोहिं राइंदेइहं विकंपइत्ता चारं चरति, राइदिए तहेव, एवं खलु एतेणुवाएणं पविसमाणे सूरिए ततोऽनंतरातो तयानंतरं च णं मंडलं संकममाणे २ दो जोयणाई अडयालीसं च एगट्ठिभागे जोयणस्स एगमेगेणं राइदिएणं विकंपमाणे २ सव्यमंतरं मंडलं उवसंकमित्ता चारं घरति, ता जया णं सूरिए सव्वबाहिरातो मंडलातो सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरति, तताणंसव्वबाहिरं मंडलं पणिधायएगेणं तेसीएणं राइंदियसतेणं पंचदसुत्तरे जोयणसते विकंपइत्ता चारं चरति । तताणं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति, जहन्निया दुवालसमुहुत्ता राई भवइ, एसणंदोच्चे छम्मासे एस णं दोच्चस्स छम्मासस्स पज्जवसाणे, एस णं आदिच्चे संवच्छरे एस णं आदिच्चस्स संवच्छरस्स पजवसाणे। वृ.'ता केवइयं ते एगमेगेणं राइदिएणं विकंपइत्ता' इत्यादि, ता इति पूर्ववत्, कियप्रमाणं क्षेत्रमिति गम्यते, ‘एगमेगेणंति अत्रप्रथमादेकशब्दान्मकारोऽलाक्षणिकस्ततोऽमयर्थः-एकैकेन रात्रिन्दिवेन-अहोरात्रेण विकम्प्य विकम्प्य विकम्पनं नाम स्वस्वमण्डलाद्वहिरवष्वष्कणमभ्यन्तरप्रवेशनं वा सूर्य-आदित्यश्चारं चरति, चारं चरन् आख्यात इति वदेत् ?, एवं भगवता गौतमेन प्रश्ने कृते सति एताद्विषयपरतीर्थिकप्रतिपत्तिमिथ्याभावोपदर्शनाय प्रथमतस्ता एव प्ररूपयति-'तत्थे' त्यादि, 'तत्र' सूर्यविकम्पविषयेस्वल्विमाः सप्त प्रतिपत्तयः-परमतरूपाःप्रज्ञप्ताः, तद्यथा-'तत्थेगे'त्यादि, 'तत्र तेषां सप्तानां प्रवादिनांमध्ये एकेएवमाहुः, द्वेयोजने अर्होद्वाचत्वरिंशत्-द्वाचत्वारिंशत्तमो येषां ते अर्द्धद्वाचत्वारिंशतस्तान् साकचत्वारिंशत्सङ्घयानित्यर्थः, त्र्यशीत्यधिकशतभागात् योजनस्य, किमुक्तं भवति?-त्र्यशीत्यधिकशतसङ्खयैगिः प्रविभक्तस्य योजनस्य सम्बन्धिनोऽर्द्धाधिकैकचत्वारिंशत्सङ्ख्यान्भागान्एकैकेन रात्रिन्दिवेन विकम्प्यविकम्प्य सूर्यश्चारं चरति, अत्रैवोपसंहारमाह-एगे एवमाहंसु। एके पुनर्द्वितीया एवमाहुः, अर्द्धतृतीयानि योजनानि एकैकेन रात्रिन्दिवेन विकम्प्य २ सूर्यश्चारंचरति, अत्राप्युपसंहारः “एगेएवमाहसु'२ । एके पुनस्तृतीयानि एवमाहुः-त्रिभागोनानि त्रीणि योजनानि एकैकेन रात्रिन्दिवेन विकम्प्यर सूर्यचारंचरति, अत्रोपसंहारः ‘एगे एवमाहंसु' ३, एके पुनश्चतुर्थास्तीर्थान्तरीया एवमाहुः-त्रीणि योजनानि अर्द्धसप्तचत्वारिंशतश्च, सार्द्धषटचत्वारिंशतश्चेत्यर्थः,त्र्यशीत्यधिकशतभागान्योजनस्य एकैकेन रात्रिन्दिवेन विकम्प्य २ सूर्यश्चारं चरति, अत्रैवोपसंहारमाह-'एगेएवमाहंसु'४।एकेपुनः पञ्चमाएवमाहुः-अर्द्धचतुर्थानि योजनानि एकैकेन रात्रिन्दिवेन विकम्प्य २ सूर्यश्चारं चरति, अत्रोपसंहारवाक्यं ‘एगे एवमाहंसु' ५, एके पुन: पधास्तीर्थान्तरीया एवमाहुः-चतुर्भागोनानि चत्वारियोजनानिएकैकेन रात्रिन्दिवेन विकम्प्य २ सूर्यश्चारं चरति, अत्रोपसंहारवाक्यं ‘एगे एक्माहंसु' ६, एके पुनः सप्तमा एवमाहुः-चत्वारि योजनानि अर्द्धपञ्चाशतश्च-सार्द्वकपञ्चाशत्समयांश्च त्र्यशीत्यधिकशतभागान् योजनस्यएकैकेन रात्रिन्दिवेन सूर्यो विकम्प्य २ चारं चरति अत्रोपसंहारवाक्यं 'एगे एवमाहंसु। तदेवं मिथ्यारूपाः परप्रतिपत्तीरुपदर्य सम्प्रति स्वमतं भगवानुपदर्शयति- 'वयं पुण'इत्यादि, वयं पुनरेवं-वक्ष्यमाणप्रकारेण केवलज्ञानोपलम्भपुरस्सर वदामः, यदुत द्वे द्वे योजने अष्टाचत्वारिंशचैकषष्टिभागान् योजनस्य एकैकेन रात्रिन्दिवेन सूर्यो विकम्प्य २ चारं चरति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003350
Book TitleAgam Sutra Satik 16 Suryapragnapati UpangSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy