SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ ३६ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १/५/२६ स्वरूपाः पञ्च प्रतिपत्तयः - परमतरूपाः प्रज्ञप्ताः, तद्यथा - एके तीर्थान्तरीया एवमाहुः -ता इति तावच्छब्दस्तेषां तीर्थान्तरीयानां प्रभूतवक्तव्यतोपक्रमे क्रमोपदर्शनार्थ एकं योजनसहस्रमेकं च त्रयस्त्रिंशदधिकं योजनशतं द्वीपं समुद्रं वा अवगाह्य सूर्यश्चारं चरति, किमुक्तं भवति ? - यदा सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति तदा एकं योजनसहस्रमेकंच त्रयस्त्रिंशदधिकं योजनशतं जम्बूद्वीपमवगाह्य चारं चरति, तदा च परमप्रकर्षप्राप्तोऽष्टादशमुहूर्ती दिवसो भवति, सर्वजघन्या चद्वादशमुहूर्त्ता रात्रि, यदा तु सर्वबाह्यं मण्डलमुपसंक्रम्य चारं चरितुमारभते तदा लवणसमुद्रमेकं योजनसहस्रमेकं च त्र्यस्त्रिंशदधिकं योजनशतमवगाह्य सूर्यश्चारं चरति, तदा चोत्तमकाष्ठाप्राप्ता अष्टादशमुहूर्त्तप्रमाणा रात्रिर्भवति, सर्वजघन्यो द्वादसमुहूर्त्तप्रमाणो दिवसः, अत्रैवोपसंहारमाह 'एगे एवमाहंसु' १, एके पुनर्द्वितीया एवमाहुः, 'ता' इति पूर्ववत्, एकं योजनसहस्रमेकं च चतुस्त्रिंशदधिकं योजनशतं द्वीपं समुद्रं वा अवगाह्य सूर्यश्चारं चरति, भावना प्राग्वत्, अत्रैवोपसं०- 'एगे ए०', एके पुनस्तृतीया एवमाहुः - एकं योजनसहनमेकं च पंचत्रिंशदधिकं योजनशतमवगाह्य सूर्यश्चारं चरति अत्रापि भावना प्रागिव, अत्रैवोप० 'एगे एव०' एके पुनश्चतुर्थास्तीर्थान्तरीयाएवमाहुः, 'अव ति अपगतं सदप्यवगा- हाभावतो न विवक्षितमर्द्ध यस्य तमपार्द्धमर्द्धहीनमर्द्धमात्रमित्यर्थ, द्वीपं समुद्रं वा अवगाह्य सूर्यश्चारं चरति, इयमत्र भावना - यदा सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य सूर्यश्चारं चरति तदा अर्द्ध जम्बूद्वीपमवगाहते, तदा च दिवसः परमप्रकर्षप्राप्तोऽष्टादशमुहूर्तप्रमाणो भवति, सर्वजघन्या च द्वादशमुहूर्त्त प्रमाणा रात्रि, यदा पुनः सर्वबाधं मण्डलमुपसंक्रम्य सूर्यश्चारं चरति तदा अर्द्ध अपरिपूर्णं लवणसमुद्रमवगाहते, तदा च सर्वोत्कर्षकाष्ठाप्राप्ता अष्टादशमुहूर्तप्रमाणा रात्रि सर्व जघन्यो द्वादशमुहूर्ती दिवसः, अत्रैवोप० 'एगे एवमाहंसु' ४, एके पुनः पञ्चमास्तीर्थान्तरीया एवमाहुः न किञ्चिद् द्वीपं समुद्रं वा अवगाह्य सूर्यश्चारं चरति अत्रायं भावार्थ - यदापि सर्वाभ्यन्तरं मण्डलमुपसंक ग्य सूर्यश्चारं चरति तदापि न किमपि जम्बूद्वीपमवगाहते, दिपुनः शेषमण्डलपरिभ्रमणकाले, यदापि सर्वबाह्यं मण्डलमुपसंक्रम्य सूर्यश्चारं चरति तदापि न लवणसमुद्रं किमप्यवगाहते, किं पुनः शेषमण्डलपरिभ्रमणकाले, किन्तुद्वीपसमुद्रयोपान्तराल एव सकलेष्वपि मण्डलेषु चारं चरति, अत्रीसंहारमाह- 'एव० ५ । तदेवमुक्ता उद्देशतः पञ्चापिप्रतिपत्तयः सम्प्रत्येता एव स्पष्टं भावयति 'तत्थ जे ते एवमाहंसु' इत्यादि प्राय समस्तमपीदं व्याख्यातार्थं सुगमंच, नवरं 'चोत्तीसेवि ' त्ति एवं त्रयत्रिंशदधिकयोजनशतविषयप्रतिपत्तिवत् चतुस्त्रिंशे सा या प्रतिपत्तिस्तस्यामालापको वक्तव्यः, स चैवम्- 'तत्थजे ते एवमाहंसु एवं जोयणसहस्सं एगं च चउतीसं जोयणसय दीवं समुद्दे वा ओगाहित्ता चारं चरइ, ते एवमाहंसु जया णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरति तया णं जंबुद्दीवे एगं जोयणसहस्समेगं च चोत्तीसं जोयणसयं ओगाहित्ता चारं चरइ, तया णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहन्निया दुवालसमुहुत्ता राई भवइ, ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ, तया णं लवणसमुद्दं एगं जोयणसहस्सं एवं चोत्तीसंजोयणसयं ओगाहित्ताचारं चरति, तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवति जहन्नए दुवालसमुहुत्ते दिवसे भवइ' 'पणतीसे वि एवं चेव भाणियव्वं' एवमुक्तेन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003350
Book TitleAgam Sutra Satik 16 Suryapragnapati UpangSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy