________________
सूर्यप्रज्ञप्तिउपासूत्रम् २०/-२१० श्रृणोमिचततःशोभनं भवतीति परिणाम उपजायते कर्म-वन्दनादिलक्षणं बलं-शारीरोवाचनादिविषयः प्राणः वीर्य-अनुप्रेक्षायां सूक्ष्मसूक्ष्मार्थोहनशक्ति पुरषकारः-तदेव वीर्य साधिताभिमतप्रयोजनं, एतैः कारणैः यः स्वयं शिक्षितोऽपि- गृहीतसूर्यप्रज्ञप्तिसूत्रार्थोभयोऽपि सन् यो दाक्षिण्यादिना अन्तेवासिनि अभाजने-अयोग्ये प्रतिक्षिपेत्-सूत्रतोऽर्थत उभयतो वा न्यसेत् । भू. (२११) सोपवयणकुलगणसंघबाहिरो नाणविनयपरिहीणो।
अरहंतथेरगणहरमेरं किर होति चोलीणो।।। वृ. 'सोपयवणे त्यादिसप्रवचनकुलगणसङ्घबाह्यो ज्ञानविनयपरिहीणो-ज्ञानाचारपरिहीणो भगवदर्हत्स्थविरगणधरमर्यादां-भगवदर्हदादिकृतां व्यवस्थां भवति किल व्यतिक्रान्तः, किलेत्याप्तवादसूचकं, इत्थमाप्तवचनं व्यवस्थितं यथा स नूनं भगवदर्हदादिव्यवस्थामतिक्रन्त इति, तदतिक्रमे च दीर्घसंसारिता । मू. (२१२) तम्हाधितिउट्ठाणुच्छाहकम्मबलविरियसिखिअंनाणं।
धारेयव्वं नियमा न य अविनएसु दायव्वं ।। वृ. 'तम्हे'त्यादि, तस्माद् धृत्युत्थानोत्साहकर्मबलवीर्येर्यत् ज्ञान-सूर्यप्रज्ञप्तयादि स्वयं मुमुक्षुणा सताशिक्षितं तनियमादात्मन्येवधर्तव्यं, नतुजातुचिदप्यविनीतेषु दातव्यं, उक्तप्रकारेण तद्दानेआत्मपरदीर्घसंसारित्वप्रसक्तेः, तदेवमुक्तःप्रदानविधि। इयंचसूर्यप्रज्ञप्तिरर्थतोमिथिलायां नगर्यां भगवता वीरवर्द्धमानस्वामिनासाक्षादुक्ता, भगवांश्चास्य वर्तमानस्य तीर्थस्याधिपतिस्ततोऽर्थप्रनेतृत्वाद् वर्तमानतीर्थाधिपतित्वाच मङ्गलार्थं शास्त्रपर्यन्ते तन्नमस्कारमाहमू. (२१३) वीरवरस्स भगवतो जरमरणकिलेसदोसरहियस्स।
वंदामि विनयपणतो सोक्खुप्पाए सया पाए। वृ. 'चीरवरस्से'त्यादि, 'सूरवीर विक्रान्तौ वीरयति स्म वीरः, सच नामादिभेदाचतुर्धा भिद्यमानो-नामवीरः स्थापनावीरोद्रव्यवीरोभाववीरश्च, तत्रयस्यजीवस्य अजीवस्य वा अन्वधरहितं वीर इति नाम क्रियते स नाम्ना वीरो नामनामवतोरभेदात् नाम चासौ वीरश्च नामवीरः, स्थापनावीरो वीरस्य-सुभटस्य स्थापना वीरवर्द्धमानस्वामिस्थापनात्, द्रव्यवीरो द्विधा
आगमतो नोआगमतश्च, तत्र आगमतो ज्ञाता तत्र चानुपयुक्तः, अनुपयोगो द्रव्य'मिति वचनात्, नोआगमतस्विधा- तद्यथा-ज्ञशरीरद्रव्यवीरो भव्यशरीरद्रव्यवीरस्तदव्यतिरिक्तश्च, तत्र वीर इति पदार्थज्ञस्य यत् शरीरं जीवविप्रयुक्तं सिद्धशिलातलादिस्थितं तत् भूते द्रव्यवीरः, यत्पुनर्बालकस्य शरीरं वीर इति पदार्थमद्यापि नावबुध्यते अथ चावश्यमायत्यां भोत्स्यते स तथाविधभाविभावत्वात् भव्यशरीरद्रव्यवीरः, तद्वव्यतिरिक्तः स्वशत्रुविदारणसमर्थोऽनेकशः सङ्गामशिरसि लब्धजयपताकश्चक्रवत्यादिः ।
भाववीरोद्विधा, तद्यथा-आगमतोनो आगमतश्च, तत्रागमतो ज्ञातोपयुक्तश्च वीरपदार्थे, नो आगमतो दुर्जयसमस्तान्तररिपुविदारणसमर्थः, तस्यैकान्तिकवीरत्वसद्भावात्, अनेनैव च नोआगमतो भाववीरेणाधिकारः तस्यैव वर्तमानतीर्थाधिपतित्वात् अतस्तत्प्रतित्यर्थं वरग्रहणं, वीरेषुवरः-प्रधानो वीरवरो-वर्द्धमानस्वाभी तस्य भगवतः-अनुपमैश्वर्यादियुक्तस्य,वरग्रहणलब्धमेव भाववीरत्वं स्पष्टयति-'जरे' त्यादि, जरा-वयोहानिलक्षणा मरणं-प्राणत्यागरूपंक्लेशाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org