SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ प्राभृतं २०, प्राभृतप्राभृतं अनियट्टी एगजडी य होइ बिजडी बोद्धव्यो। वृ. विवतः ७४ विवस्त्रः ७५ विशालः ७६ शालः ७७ सुव्रतः ७८ अनिवृत्तिः ७९ एकजटी ८० द्विजटी ८१। मू. (२०७) कर करिए रायऽग्गल बोद्धव्वे पुष्फ भाव केतू य। अट्ठासीति गहा खलु नेयव्वा आनुपुब्बीए । वृ. करः ८२ करिकः ८३ राजः ८४ अर्गलः ८५ पुष्पः ८६भावः ८७ केतुः ८८ । प्राभृतं-२० समाप्तम् वृ.- सम्प्रति सकलशास्त्रपसंहारमाह मू. (२०८) इति एस पाहुडत्था अभव्वजणहिययदुल्लहा इणमो। उक्कित्तिता भगवता जोतिसरायस्स पन्नत्ती ।। वृ.एवं-उक्तेन प्रकारेण अनन्तरमुद्दिष्टस्वरूपाप्रकटार्था--जिनवचनतत्ववेदिनामुत्तानार्था, इयं चेत्थं प्रकटार्थापि सती अभव्यजनानां हृदयेन-पारमार्थिकाभिप्रायेण दुर्लभा, भावार्थमधिकृत्याभब्जयनानां दुर्लभेत्यर्थः, अभव्यत्वादेव तेषां सम्यग्जिनवचनपरिणतेरभावात्, उत्कीर्तिता--कतिता भगवती-ज्ञानैश्वर्या देवता ज्योतिषराजस्य-सूर्यस्य प्रज्ञप्तिः। एषाच स्वयंगृहीता सती यस्मै न दातव्या तत्प्रतिपादनार्थमाहमू. (२०९) एस गहितावि संता थद्धे गारवियमाणिपडिणीए। अवहुस्सुए न देया तब्विवरीते भवे देया ।। वृ. 'एसा गहियावि'इत्यादि गाथाद्वयं, एषा-सूर्यप्रज्ञप्ति स्वयं सम्यककरणेन गृहीतापि सती "व्यत्ययोऽप्यासा"मिति वचनाच्चतुर्थ्यर्थसप्तमी, ततोऽयमर्थ-थद्धे इतिस्तब्धायस्वभावत एव मानप्रकृत्या विनयभ्रंशकारणे। _ 'गारविय'त्तिऋद्धयादि गौरवंसातमस्येति गौरवितस्तस्मैऋद्धिरससातानामन्यतमेन गौरवेण गुरुतरायेति भावः, ऋद्धयादिमदोपेतो ह्यचिन्त्यचिन्ता-मणिकल्पमपीदं सूर्यप्रज्ञप्तिप्रकीर्णकमाचार्यादिकं च तद्वेत्तारमवज्ञया पश्यति, साचावज्ञा दुरन्तनरकादिप्रपातहेतुरसस्तदुपकारायैव तस्मैदानप्रतिषेधः, इयंच भावना स्तब्धमान्यादिष्वपिभावनीया, तथा मानिने-जात्यादिमदोपेताय प्रत्यनीकाय-दूरभव्यतया अभव्य, तया वा सिद्धान्तवचननिकुट्टनपराय, तथा अल्पश्रुतायअवगाढस्तोकशास्त्रय,सहि जिनवचनेषु ()सम्यग्भावितत्वात् शब्दार्थपर्यालोचनायामक्षुण्णत्वाच्च यथावत्कथ्यमानमपिनसम्यगभिरोचयते इति नदेया, किन्तुतद्विपरीताय दातव्या भवेत्, भवेदिति क्रियापदस्य सामर्थ्य लब्धावप्युपादानंदातव्यत्वावधारणार्थं, तद्विपरीताय दातव्यैय नादातव्या, अदाने शास्त्रव्यवच्छेदप्रसक्त्या तीर्थव्यवच्छेदप्रसक्तेः। मू. (२१०) सद्धाधितिउट्ठाणुच्छाहकम्मबलविरियपुरिसकारेहि। जो सिक्खिओविसंतो अभायण परिकहेज्जा हि ।। वृ. एतदेव व्यक्तीकुर्वन्नाह-'सद्धे'त्यादि, श्रद्धा-श्रवणं प्रति वाञ्छा धृति-विवक्षितं जिनवचनं सत्यमेव नान्यथेति मनसोऽवष्टम्भः उत्थान-श्रवणाय गुरुंप्रत्यभिमुखगमनं उत्साहःश्रवणविषये मनसः उत्कलिकाविशेषः यद्वशादिदानीमेव यदि मे पुण्यवशात् सामग्री सम्पद्यते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003350
Book TitleAgam Sutra Satik 16 Suryapragnapati UpangSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy