________________
३०२
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १९/-१९३ यक्षे द्वीपे यक्षभद्रयक्षमहाभद्रौ यक्षे समुद्रे यक्षवरयक्षमहावरी भूते द्वीपे भूतभद्रभूतमहाभद्रौ भूते समुद्रे भूतवरभूतमहावरौ स्वयंभूरमणे द्वीपे स्वयम्भूभद्रस्वयम्भूमहाभद्रौ स्वम्भूरमणे समुद्रे स्वम्भूवरस्वयम्भूमहावरी, इह नन्दीश्वरादयः सर्वेसमुद्राभूतसमुद्रपर्यवसाना इक्षुरसोदसमुद्रसशोदकाः प्रतिपत्तव्याः, स्वयम्भूरमणसमुद्रस्य तूदकं पुष्करोदसमुद्रोदकसशं।
तथा जम्बूद्वीप इति नाम्ना असङ्ख्येया द्वीपा लवण इति नाम्ना असङ्खयेयाः समुद्राः एवं तावत् वाच्यं यावत्सूर्यवरावभास इति नाम्ना असङ्खयेयाः समुद्राः, येतु पञ्च देवादयो द्वीपाः पञ्च देवादयः समुद्रास्ते एकैका एक प्रतिपत्तव्याः, नैतेषां नामभिरन्ये द्वीपसमुद्राः, उक्तंचजीवाभिगमे'केवइया णं भंते ! जंबुद्दीवा दीवा पन्नत्ता ?, गोयमा ! असंखेना पन्नत्ता, केवइया णं भंते ! देवदीवा पन्नत्ता?, गोयमा! एगे देवदीवे पन्नत्ते, दसवि एगागारा' इति ।।
प्राभृतं-१९ समाप्तम् मुनिदीपरत्नसागरेण संशोधिता सम्पादिता सूर्यप्राप्तिउपाङ्गसूत्रे एकोनविंशतितमप्राभृतस्य मलयगिरिआचार्येण विरचिता टीका परिसमाप्ता।
(प्रामृत-२०) वृतदेवमुक्तमेकोनविंशतितमंप्राभृतं, सम्प्रति विंशतितममारभ्यते-तस्यचायमधिकारो यथा 'कीद्दशश्चन्द्रादीनामनुभाव' इति ततस्तद्विषयं प्रश्नसूत्रमाह
मू.(१९४) ता कहं ते अनुभावे आहितेति वदेजा?, तत्थ खलु इमाओ दो पडिवत्तीओ पन्नत्ताओ, तत्थेगे एवमाहंसु ता चंदिमसूरियाणंनोजीवाअजीवा नो घणा झुसिरानो बादरबोदिंधरा कलेवरा नस्थिणं तेसिं उठाणेति वा कम्मेति वा बलेति वा विरिएति वा पुरिसकारपरक्कमेति वाते नो विज्जू लवंति नो असणि लवंति नो थणितं लवंति, अहे यणं बादरे वाउकाए संमुच्छति अहे य णं बादरे वाउकाए संमुच्छित्ता विजुपिलवंति असणिपिलवंति थणितंपि लवंति एगे एव०॥
एगे पुण एक्माहंसु, ता चंदिमसूरियाणं जीवा नो अजीवा घणा नो झुसिरा बादरबुंदिधरा नो कलेवरा अस्थि णं तेसिं उट्ठाणेति वा० ते विजुपि लवंति ३। एगे एवमाहंसु।
वयंपुण एवं वदामो-ता चंदिमसूरयाणं देवाणं महिदिया जाव महानुभागा वरवत्थधरा वरमल्लधरा वराभरणधारी अवोच्छित्तिणयकृताए अन्ने चयंति अन्ने उववति ॥
वृ.'ताकहते इत्यादि, ताइतिपूर्ववत्, कथं?-केनप्रकारेणचन्द्रादीनामनुभावः-स्वरूपविशेष आख्यात इति वदेत् ?, एवमुक्ते भगवानेतद्विषये ये द्वे प्रतिपत्ती ये उपदर्शयति-'तत्य खलु'इत्यादि, तत्र-चन्द्रादीनामनुभावविषयेखल्विमे द्वेप्रतिपत्ती-परतीर्थिकाभ्युपगमरूपे प्रज्ञप्ते, तद्यथा-'तत्थेगे' इत्यादि, तत्र-तेषां द्वयानां परतीथिकानां मध्ये एके परतीर्थिका एवमाहुः, 'ता'इति तेषां परतीर्थिकानांप्रथमं स्वशिष्यं प्रत्यनेकवक्तव्यतोपक्रमे क्रमोपदर्शनार्थ, चन्द्रसूर्या णमिति वाक्यालङ्क्तरे नो जीवा-जीवरूपाः किन्त्वजीवाः, तथानोधना-निबिडप्रदेशोपचयाः किन्तु शुषिराः, तथा न वरबोन्दिधराः-प्रधानसजीवसुव्यक्तावयवशरीरोपेताः किन्तु कलेवराःकलेवरमात्राःतता नास्तिणमितिवाक्यालक्तरेतेषां चन्द्रादीनामुत्थान-ऊर्वीभवनमितिरुपदर्शने वाशब्दोविकल्पे समुच्चयेवा कर्म-उत्क्षेपणावक्षेपणादि बलं-शारीरःप्राणो वीर्य-आन्तरोत्साहः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org