SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ प्राभृतं १९, प्राभृतप्राभृतं ३०१ समुद्रः तदनन्तरं रुचकवरावभासो द्वीपो रुचकवरावभासः समुद्रः, तत्र रुचके द्वीपे सर्वार्थमनोरमौ देव रुचकसमुद्रे सुमनःसौमनसौ रुचकवरे द्वीपे रुचकवरभद्ररुचकवरमहाभद्रौ रुचकवरे समुद्रे रुचकवररुचकमहावरौ रुचकवरावभासे द्वीपे रुचकवरावभासभद्ररुचकवरावभासमहाभद्री रुचकवरावभासे समुद्रे रुचकवरावभासवररुचकवरावभासमहावरौ । कियन्तो नाम नामग्रहं द्वीपसमुद्रा वक्तुं शक्यन्ते ? ततो यानि कानिचिदाभरणनामानि - हारार्द्धहारकनकावलिरत्नावलिप्रभृतीनि यानि च वस्त्रनामानि यानि च गन्धनामानि कोष्ठपुटादीनि यानि चोत्पलनामानि-जलरुहचन्द्रोद्योतप्रमुखाणि यानि च तिलकप्रभृतीनि वृक्षनामानि यानि च पद्मनामानि शतपत्रसहस्रपत्रप्रभृतीनि यानि च पृथिवीनामानि - पृथिवीशर्करवालुकेत्यादीनि यानि च नवानां निधीनां चतुर्द्दशानां चक्रवर्त्तिरत्नानां क्षुल्लहिमवदादीनां वर्षधरपर्वतानां पद्मादीनां हदानां गङ्गासिन्धुप्रभृतीनां नदीनां कच्छादीनां विजयानां माल्यवदादीनां वक्षस्कारपर्वतानां सौधर्मादीनां कल्पानां शक्रदीनामिन्द्राणां देवकुरूत्तरमन्दराणामावासानां शक्रादिसम्बन्धिनां मेरुप्रत्यासन्नानां गजदन्तानां कूढादीनां क्षुल्लहिमवदादिसम्बन्धिनां नक्षत्राणां - कृत्तिकादीनां चन्द्राणां सूर्याणां च नामानि तानि सर्वाण्यपि द्वीपसमुद्राणां त्रिप्रत्यवताराणि वक्तव्यानि तद्यथा - हारो द्वीपो हारः समुद्रो हारवरो द्वीपो हारवरः समुद्रो हार वरावभासो द्वीपो हारवरावभासः समुद्र इत्यादि एतेऽ समस्तद्वीपसमुद्रेषु सङ्घयेययोजनशतसहस्रप्रमाणो विष्कम्भः सङ्घयेययोजनशतसहस्रप्रमाणः परिक्षेपः सङ्घयेयाश्च चन्द्रादयस्तावद् वक्तव्याः यावदन्यः कुण्डलवरावभासः समुद्रः, तथा चाह–‘सव्वेसि’मित्यादि, सर्वेषामुक्तस्वरूपाणां द्वीपसमुद्राणामन्यकुण्डलवरावभासमुद्रपर्यन्तानां विष्कम्भपरिक्षेपज्योतिषाणि पुष्करोदसागरसदृशानि वक्तव्यानि - सङ्घयेययोजनप्रमाणो विष्कम्भः सङ्घयेययोजनप्रमाणः परिक्षेपः समयेयाश्चन्द्रादय वक्तव्या इत्यर्थः । - ततस्तदनन्तरं योऽन्यो रुचकनामा द्वीपस्तप्रभृतिषु रुचकसमुद्ररुचकवरद्वीपरुचकवरसमुद्ररुचकवरावभासद्वीपरुचकवरावभाससमुद्रादिष्वपि सङ्घयेययोजनाप्रमाणो विष्कम्भोऽसङ्घयेययोजनप्रमाणः परिक्षेपोऽसङ्घयेयाश्चन्द्रादयो वक्तव्याः, तथा चाह - 'ता कुंडलवरावभासण्णं' इत्यादि, एवं रुयगे समुद्दे' इत्यादि, 'एवं तिपडोयारा' इत्यादि, एवमुक्तेन प्रकारेण रुचकवरावभासात्समुद्रात्परतो द्वीपसमुद्राश्च त्रिप्रत्यवतारास्तावत् ज्ञातव्या यावत् सूर्यो द्वीपः सूर्य समुद्रः सूर्यवरो द्वीपः सूर्यवरः समुद्रः सूर्यवरावभासो द्वीपः सूर्यवरावभासः समुद्रः, उक्तं च जीवाभिगमचूर्णी - " अरुणाई दीवसमुद्दा तिपडोयारा यावत्सूर्यवरावभासः समुद्रः' इति, 'सव्वेसि' मित्यादि, सर्वेषां रुचकसमुद्रादीनां सूर्यवरावभाससमुद्रपर्यन्तानां विकम्भपरिक्षेपज्योतिषाणि रुचकद्वीपसध्शानि वक्तव्यानि असङ्घयेययोजनप्रमाणो विष्कम्भोऽसङ्घयेययोजनप्रमाणः परिक्षेपोऽसङ्ख्येयाः प्रत्येकं चन्द्रसूर्यग्रहनक्षत्रतारका वक्तव्या इति भावः, 'सूरवरावभासोदण्णं समुद्दे' इत्यादि सुगमं, नवरमेते पञ्च देवादयो द्वीपाः पञ्च देवादयः समुद्राः प्रत्येकमेकरूपा न पुनरेषां त्रिप्रत्यवतारः, उक्तं च जीवाभिगमचूर्णी- “अंतो पंच द्वीपा पंच समुद्दा एकप्रकारा' इति, जीवाभिगमसूत्रेऽप्युक्तम् - "देवे नागे जक्खे भूयेय सयंभुरमणेय । एक्कक्के चैव भाणियव्वे, तिपडोयारं नत्थि 'त्ति, तत्र देवे द्वीपे द्वौ देवौ देवभद्रदेवमहाभद्रौ देवे समुद्रे देववरदेवमहावरौ नागे द्वीपे नागभद्रनागमहाभद्रौ नागे समुद्रे नागवरनागमहावरौ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003350
Book TitleAgam Sutra Satik 16 Suryapragnapati UpangSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy