________________
२९८
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १९/-/१९२ देवास्ते किं ऊोपिपन्नाः-सौधर्मादिभ्योद्वादशेभ्यः कल्पेभ्यऊर्ध्वमुपपन्नाऊोपपन्नाः कल्पेषुसौधर्मादिषु उपपन्नाः कल्पोपपन्नाः विमानेषु-सामान्येषूपपत्रा विमानोपपन्नाः चारोमण्डलगत्या परिभ्रमणं तमपपन्ना-आश्रिताधारोपपन्नाः चारस्य-यथोक्तरूपस्य स्थिति अभावो येषां ते चारस्थितिका अपगतचारा इत्यर्थः, गतौ रति-आसक्तिप्रीतिर्येषां ते गतिरतिकाः, एतेन गती रतिमात्रमुक्तं, सम्प्रति साक्षाद्गतिप्रश्नयति-गतिसमापना गतियुक्ताः एवंप्रश्ने कृते भगवानाह
'तातेणंदेवा' इत्यादि, ता इति पूर्ववत्तेचन्द्रादयो देवानोोपपन्नाः नापिकल्पोपपत्राः किन्तुविमानोपपन्नाः चारोपपन्नाः-चारसहितानोचारस्थितिकाः, तथा स्वभावतोऽपिगतिरितिकाः साक्षाद्गतियुक्ताश्च, ऊर्ध्वमुखीकृतकलम्बुकापुष्पसंस्थानसंस्थितैोजनसाहम्रिकैः-अनेकयोजनसहसप्रमाणैस्तापक्षेत्रैः साहनिकाभिः अनेकसहस्रसङ्घयाभिर्बाह्याभि पर्षद्भिः, अत्र बहुवचनं व्यक्त्यपेक्षया, वैकुर्विकाभिः-विकुर्वितनानारूपधारिणीभि, महता रवेणेति योगः अहतानिअक्षतानि अनघानीत्यर्थः यानि नाट्यानि गीतानि वादित्राणि च याश्च तन्त्रयो-वीणा ये च तलताला- हस्तताला यानि त्रुटितानि-शेषाणि तूर्याणि ये च घना-घनाकारा ध्वनिसाधात् पटुप्रवादिता- निपुणपुरुषप्रवादिता मृदङ्गास्तेषां रवेण तथा स्वभावतो गतिरतकैर्वाह्यपर्षदन्तर्गतैर्देवैर्वेगेन गच्छत्सु विमानेषु उत्कृष्टितः-उत्कर्षवशेन ये मुच्यन् सिंहनादा यश्च क्रयते बोलो, बोलो नाम मुखे हस्तं दत्वा महता शब्देन पूत्करणं, यश्च कलकलो-व्याकुलः शब्दसमूहस्तद्रवेण, मेरुमिति योगः, किंविशिष्टमित्याह-अच्छं-अतीव स्वच्छमितनिर्मलजाम्बूनदरलबहुलत्वात् पर्वतराज-पर्वतेन्द्र प्रदक्षिणावर्त्तमण्डलचारं यथा भवति तथा मेरुमनुलक्षीकृत्य परियटृति-पर्यटन्ति ।
पुनः प्रश्नयति-ता तेसिण'मित्यादि, ताइति पूर्ववत्, तेषां-ज्योतिष्काणां देवानां यदा इन्द्रश्च्यवते तदा ते देवा इदानीं-इन्द्रविरहकाले कथं प्रकुर्वन्ति?, भगवानाह-'ता'इत्यादि, ता इति पूर्ववत्, चत्वारः पञ्च वा सामानिका देवाः समुदितीभूय तत् शून्यमिन्द्रस्थानमुपसम्पद्य विहरन्ति-तदिन्द्रस्थानं परिपालयन्ति, सातौ शुक्लस्थानादिकं पञ्चकुलवत्, कियन्तं कालं यावत्तदिन्द्रस्थानं परिपालयन्तीति चेदत आह-यावदन्यस्तकेन्द्रउपपन्नो भवति, 'ता इंदठाणे पमित्यादि, ता इति पूरववत् इन्द्रस्थानं कियत्कालमुपपातेन विरहितं प्रज्ञप्तं ?, भगवानाह'ता' इत्यादि, जधन्येन एकं समयं यावत् उत्कर्षेण षण्मासान् ।
____ ताबहियाण मित्यादि प्रश्नसूत्रमिदंप्राग्वत् व्याख्येयं, भगवानाह-'तातेण मित्यादि, ता इति पूर्ववत् ते मनुष्यक्षेत्राद्वहिवर्त्तिनश्चन्द्रादयो देवा नोर्वोपपन्ना नापि कल्पोपन्नाः किन्तु विमानोपपन्नास्तथा नो चारोपपन्नाः-चारयुक्ताः किन्तु चारस्थितिकाः, अत एव नो गतिरतयो नापि गतिसमापन्नकाः, पक्वेष्टकासंस्थानसंस्थितैर्योजनशतसाहनिकैरात्तपक्षेत्रैः, यथा पक्वा इष्टका आयामतो दीर्घा भवति विस्तरतस्तु स्तोका चतुरना च तथा तेषामपि मनुष्यक्षेत्रावहिर्व्यवस्थितानांचन्द्रसूर्याणामातपक्षेत्राण्यायामतोअनेकयोजनशतसहस्रप्रमाणानि विस्तरत एकयोजनशत- सहस्राणि चतुरस्राणि चेति, तैरित्थंभूतैरातपक्षेत्रैः साहनिकाभिःअनेकसहस्रसङ्घयाभिर्बाह्याभि पर्षद्भिः , अत्रापि बहुवचनं व्यक्त्यपेक्षया, 'महयेत्यादिपूर्ववत्, दिवि भवान् दिव्यान् भोगभोगान्- भोगार्हान् शब्दादीन् भोगान् भुजाना विहरन्ति, कथंभूता
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only