SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ प्राभृतं १९, प्राभृतप्राभृतं जाताः पञ्चविंशतिर्दश च शून्यानि दशभिर्गुणने जातान्येकादश शून्यानि एतस्य राशेर्वर्गमूलानयने लब्धानि पञ्चदश लक्षाणि एकाशीति सहस्राणि शतमेकमष्टात्रिंशदधिकं, शेषमुद्धरति षड्विंशतिर्लक्षाश्चतुर्विंशति सहस्राणि नव शतानि षट्पञ्चाशदधिकानि छेदराशिरेकत्रिंशल्लक्षा द्वाषष्टि सहस्रणि द्वे शते षट्सप्तत्यधिके एतदपेक्षया योजनमेकं किञ्चिदूनं लभ्यते, तत उक्तं - "सयं च ऊयालं किंचविसेसूण'मिति । 'ता लवणे णं समुद्दे' इत्यादि सुगमं, लवणसमुद्रे चत्वारः शशिन इत्यष्टाविंशतिर्नक्षत्राणि तुर्भिर्गुण्यन्ते, ततो द्वादशोत्तरं नक्षत्राणां शतं तत्र भवति, अष्टाशीतिश्च ग्रहाश्चतुर्भिर्गुण्यन्ते ततस्त्रिणि शतानि द्विपञ्चाशदधिकानि तेषां भवन्ति, ताराकोटीकोटीनां षट्षष्टि सहस्राणि नव शतानि पञ्चसप्तत्यधिकानि चतुर्भिर्गुण्यन्ते ततो यथोक्तं ताराप्रमाणं भवति, 'ता लवणं णं समुद्द' मित्यादि सकलमपि सुगमं, नवरं परिधिगणितपरिभावना एवं कर्त्तव्या - जम्बूद्वीपस्य विष्कम्भे योजनलक्षं लवणस्योभयतो द्वे द्वे योजनलक्षे मिलिते इति ताश्चतस्रो लक्षाः धातकीखण्डस्योभयतश्चतस्रो २ लक्षा मिलिता अष्टौ सर्वसङ्ख्यया जातास्त्रयोदश लक्षाणि ततोऽस्य राशेर्वर्गो जात एककः षट्को नवकः शून्यानि च दश भूयो दशभिर्गुणने जातान्येकादश शून्यानि एतेषां वर्गमूलानयने लब्धानि एकचत्वारिंशच्छतसहस्राणि दश सहस्राणि नव शतानि एकषष्ट्यधिकानि ४११०९६१ नक्षत्रादिपरिमाणमप्यष्टाविंशत्यादि सङ्ख्यानि नक्षत्रादीनि द्वादशभिर्गुणयित्वा स्वयमानेतव्यं । मू. (१३६) ता लवणसमुद्दे धातईसंडे नामं दीवे वट्टे वलयाकारसंठिते तहेव जाव नो विसमचउक्कवालसंठिते, धातईसंडे णं दीवे केवतियं चक्कवालविक्खंभेणं केवतियं परिक्खेवेणं आहितेति वदेज्जा ?, ता चत्तारि जोयणसतसहस्साइं चक्कवालविक्खंभेणं ईतालीसंजोयणसतसहस्साइं दस य सहस्साइं नव य एकट्ठे जोयणसते किंचिविसेसूणे परिक्खेवेणं आहितेति वदेज्जा । धातईसंडे दीवे केवतिया चंदा पभासेंसु वा ३ पुच्छा तहेव धातईसंडे णं दीवे बारस चंदा पभासेंसु वा ३ बारस सूरिया तवेंसु वा ३ तिन्नि छत्तीसा नक्खत्तसताजोअं जोएंसु वा ३ एगं छप्पन्नं महग्गहसहस्सं चारं चरिंसु वा ३पू. (१३७) - 'अट्टेव सतसहस्सा तिन्नि सहस्साइं सत्त य सयाइं । (एगससीपरिवारो) तारागणकोडिकोडीओ ॥ -सोभं सोभेंसु वा ३ धातईसंडपरिरओ ईताल दसुत्तरा सतसहस्सा । नव य सता एगट्टा किंचिविसेसेण परिहीणा || चउवीसं ससिरविणो नक्खत्तसता य तिन्नि छत्तीसा । एगं च गहसहस्सं छप्पन्नं धातईसंडे ॥ अदेव सतसहस्सा तिन्नि सहस्साइं सत्त य सताइं । धायइसंडे दीवे तारागणकोडिकोडीणं ॥ २८५ पू. (१३८) पू. (१३९) पू. (१४०) वृ. 'ता धायइखंडणं', एतदपि सकलं सुगमं, 'ता कालोए णं समुद्दे' इत्यादि, एतदपि सुगमं, नवरं परिक्षेपगणितभावना इयं - कालोदसमुद्रस्य एकतोऽपि चक्रवालतया विष्कम्भोऽष्टौ योजनलक्षा अपरतोऽपीति षोडश धातकीखण्डस्य एकतोऽपि चतनो लक्षा अपरतोऽपीत्यष्टौ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003350
Book TitleAgam Sutra Satik 16 Suryapragnapati UpangSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy