SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ प्राभृतं १९, प्राभृतप्राभृतं २८३ चन्द्रसूर्या सर्वलोकेऽवभासन्ते अवभासमाना उद्योतयन्तः तापयन्तः-प्रकाशयन्तः प्रभासयन्तः आख्याता इति वदेत् ? एवमुक्ते भगवानेतद्विषये यावत्यः प्रतिपत्तयः तावतीरुपदर्शयति-'तत्थै' त्यादि, तत्र-सर्वलोकविषयचन्द्रसूर्यास्तित्वविषये खल्विमाः-वक्ष्यमाणस्वरूपा द्वादश प्रतिपत्तयः-परतीर्थिकाभ्युपगमरूपा प्रज्ञप्ताः ।। तत्र-तेषां द्वादशानां परतीर्घिकानांमध्येएके परतीर्थिका एवमाहुः, ताइति तेषां परतीर्थिकानांप्रथमं स्वशिष्यं प्रत्यनेकवक्तव्यतोपक्रमेक्रमोपदर्शनार्थः, एकश्चन्द्रः एकः सूर्यसर्वलोकमवभासयति, अवभासयन् उद्योतयन् तापयन् प्रभासयन् आख्यात इति वदेत्, अत्रैवोपसंहारमाह-एगे एवमाहंसु', एके पुनरेवमाहुः-त्रयश्चन्द्राः त्रयः सूर्या सर्वलोकमवभासयन्तः आख्याता इति वदेत्, उपसंहारवाक्यां ‘एगे एवमाहंसु' २, एके पुनरेवमाहुरर्द्धचातुर्थाश्चन्द्रा अर्द्धचतुर्था सूर्या सर्वलोकमवभासयन्ति आख्याता इति वदेत्, अत्राप्युपसंहारः। ___'एगे एवमाहंसु' ३, ‘एव'मित्यादि एवं-उक्तेन प्रकारेण एतेनानन्तरोदितेनाभिलापेन तृतीयाप्राभृतप्राभृतोक्तप्रकारेण द्वादशप्रतिपत्तिषयंसकलमपि सूत्र नेतव्यं, तच्चैवम्-‘सत्तचंदा सत्त सूरा' इति, एगे पुण एवमाहंसु ता सत्त चंदा सत्त सूरा सव्वलोयं सोभासंति ४ आहियत्ति वएज्जा, एगे एवमाहंसु ५, एगे पुण एवमाहंसु-ता दस चंदा दस सूरा सव्वलोयं ओभासंति ४ आहियत्ति वएजा, एगे एवमाहंसु ६। ___ एगेपुण एवमाहंसु ता बायालीसं चंदा बायालीसंसूरा सव्वलोयंओभासंति ४ आहियत्ति वएजाएगे एवमाहंसु ७, एगेपुण एवमाहंसु-बावत्तरिचंदा बावत्तरिंसूरा स्वलोयं ओभासंति४ आहियत्ति वएज्जा एगे एवमाहंसु ८, एगे पुण एवमाहंसु-बायालीसं चंदसयं बायालीसं सूरसयं सव्वलोयं ओभासेंति ४ आहियत्ति वएज्जा, एगे एवमाहंसु ९, एगे पुण एवमाहंसु ता बावत्तरं चंदसयं बावत्तरं सूरसयं सव्वलोयंओभासेंति ४ आहियत्ति वएज्जा, एगे एवमाहंसु १०, एगे पुण एवमाहंसु ता बायालीसं चंदसहस्सं बायालीसं सूरसहस्सं सब्बलोयं ओभासेन्ति ४ आहियत्ति वएज्जा एगे एवमाहंसु ११, एगे पुण एवमाहंसु ता बावत्तरं चंदसहस्संबावत्तरं सूरसहस्सं सब्बलोयं ओभासेति ४ आहियत्ति वएज्जा, एगेएवमाहंसु १२।। एताश्च सर्वाअपि प्रतिपत्तयो मिथ्यारूपाः तथाच भगवान् स्वमतमताभ्यः पृथग्भूतमाह'वयंपुण'इत्यादि, वयं पुनरुत्पन्नकेवलज्ञानाएवं वक्ष्यमाणप्रकारेणवदामः, तमेव प्रकारमाह-'ता अयण्ण'मित्यादि, इदं जम्बूद्वीपवाक्यं पूर्ववत् परिपूर्ण पठनीयं व्याख्यानीयं च, ता जंबुद्दीवेणं दीवे दो चंदा इत्यादि, जम्बूद्वीपे द्वौ चन्द्रौ प्रभासितवन्तौ प्रभासेतेप्रभासिष्येते द्रव्यास्तिकनयमतेन सकलकालमेवंविधाया एव जगस्थितेः सद्भावात्, तथा द्वौ सूर्यौ तापितवन्तौ तापयतस्तापयिष्यतः, तथा एकैकस्य शशिनोऽष्टाविंशतिनक्षत्राणि परिवारो जम्बूद्वीपे च द्वौ राशिनौ ततः षट्पञ्चाशन्नक्षत्राणि जम्बूद्वीपे चन्द्रसूर्याभ्यां सह योग युक्तवन्ति युञ्जन्ति योक्ष्यन्ति वा, तथा एकैकस्य राशिनोऽष्टाशीतिर्ग्रहाः परिवारःततःशशिद्वयसत्कग्रहमीलने सर्वसङ्ख्यया षट्सप्तत्यधिक ग्रहशतंभवति, तत् जम्बूद्वीपेचारंचरितवत् चरति चरिष्यतिच, तथा एकैकस्य राशिनस्तारापरिवारः कोटीकोटीनां षट्षष्टि सहनाणि नव शतानि पञ्चसप्तत्यधिकानि जम्बूद्वीपे च द्वौ राशिनौ तत एतत्ताराप्रमाणं द्वाभ्यां गुण्यते, तत एकंशतसहस्रं त्रयस्त्रिंशत्सहस्राणि नव शतानिपञ्चाशदधिकानि Jain Education Internationa For Private & Personal Use Only www.jainelibrary.org
SR No.003350
Book TitleAgam Sutra Satik 16 Suryapragnapati UpangSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size8 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy