________________
२७८
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १८/-/१२४ तत्रवातोद्भुता-वायुकम्पिता विजयः-अभ्युदयस्तत्संसूचिका वैजयन्त्यभिधाना यापताका अथवा विजया इति वैजयन्तीनां पावकर्णिका उच्यन्ते तत्प्रधाना वैजयन्त्यो विजयवैजयन्त्यः पताकाः-ता एव विजयवर्जिता वैजयन्त्यः छत्रातिच्छत्राणि च-उपर्युपरिस्थितातपत्राणि तैः कलितं वातोद्भुतविजयवैजयन्तीपताकाछत्रातिच्छत्रकलितं तुझं-उच्चमत एव ।
_ 'गगनतलमणुलिहंतसिहरे'त्तिगगनतलं-अम्बरतलमॅनुलिखत्-अभिलङ्घयशिखरंयस्य तत्गगनतलानुलिखतशिखरं, तथा जालानि-जालकानि तानिच भवनभित्तिषु लोकेप्रतीतानि तदन्तरेषु विशिष्टशोभानिमित्तं रलानि यत्र तत् जालान्तररलं, सूत्रे चात्र प्रथमैकवचनलोपो द्रष्टव्यः, तथा पञ्चरात् उन्मीलितमिव-बहिष्कृतमिव पञ्जरोन्मीलितं, यथा हि किल किमपि वस्तुपञ्जरात्-वंशादिमयप्रच्छादनविशेषा बहिष्कृतमत्यन्मविनष्टच्छायत्वात् शोभते एवं तदपि विमानमितिभावः, तथामणिकनकानांसम्बन्धिनी स्तूपिकाशिखरंयस्यतत्मणिकनकस्तूपिकाकं, तथा विकसितानि यानि शतपत्राणि पुण्डरीकाणि च द्वारादौ प्रतिकृतित्वेन स्थितानि तिलकाश्च मित्यादिषु पुण्डाणि रलमयाश्चार्द्धचन्द्रा द्वारग्रादिषु तैश्चित्रं विकसितशतपत्रपुण्डरीकतिलकार्द्धचन्द्रचित्रं, तथा अन्तर्बहिश्च श्लक्ष्णं मसृणमित्यर्थः, तथा तपनीयं-सुवर्णविशेषस्तन्मय्याः वालुकायाः-सिकतायाःप्रस्तटः-प्रतरोयत्रतत्तथा,तथा सुखस्पर्शशुभस्पर्शवा तथा सश्रीकाणिसशोभानि रूपाणि-नरयुग्मादीनि यत्रतत् सश्रीकरूपं तथा प्रसादीयं-मनःप्रसादहेतुः अत एव दर्शनीयं-द्रष्टुं योग्यं, तद्दर्शनेन तृप्तेरसम्भवात, तथा प्रतिविशिष्टं असाधारणं रूपं यस्य तत्तथा
___ “एवं सूरविमाणेवी'त्यादि, यथा चन्द्रविमानस्वरूपमुक्तमेवं सूर्यविमानं ताराविमानं च वक्तव्यं, प्रायः सर्वेषामपि ज्योतिर्विमानानामेकरूपत्वात्, तथा चोक्तं समवायाङ्गे-"केवइया णं भंते! जोइसियावासा पन्नत्ता?, गोयमा ! इमीसे रयण्णप्पभाए पुढवीए बहुसमरमणिजाओ भूमिभागाओ सत्तनउयाइं जोयणसयाइं उष्टुं उप्पइत्ता दसुत्तरजोयणसयबाहल्ले तिरियमसंखेज्जे जोइसविसए जोइसियाणं देवाणं असंखेज्जा जोइसियविमाणावासा पनत्ता, ते णं जोइसियविमाणावासा अब्झुग्गयसमूसियपहसिया विविहमणिरयणभित्तिचित्ता तं चेव जाव पासाईया दरिसणिज्जा अभिरुवापडिरूवा' इति । 'ताचंदविमाणेणमित्यादीनिआयामविष्कम्भादिविषयाणि सर्वाण्यपि प्रश्ननर्वचनसूत्राणि सुगमानि, नवरं सर्वत्रापि परिधिपरिमाणं "विक्खंभवग्गदहगुणकरणी वट्टस्स परिरओ होइ” इति करणवशात् स्वयमेव नेतव्यं, तथा यत्ता- राविमानस्यायामविष्कम्भपरिमाणमुक्तमर्द्धगव्यूतमुच्चत्वपरिमाणं क्रोशचतुर्भागः तदुत्कृष्ट-स्थितिकस्य तारादेवस्य सम्बन्धिनो विमानस्यावसेयं, यत्पुनर्जघन्यस्थितिकस्य तारादेवस्य क्रोशचतुर्भागः तदुत्कृष्टस्थितिकस्यतारादेवस्य सम्बन्धिनो विमानस्यावसेयं, यत्पुनर्जघन्यस्थितिकस्य तारादेवस्य सम्बन्धि विमानं तस्याऽऽयामविष्कम्भपरिमाणं पञ्चधनुःशतानि उच्चत्वपरिमाण-मर्द्धतृतीयानि धनुःशतानि, तथा चोक्तं तत्वार्थभाष्ये
_ 'अष्टाचत्वारिंशद्योजनकषष्टिभागाः सूर्यमण्डलविष्कम्भः चन्द्रमसः षट्पञ्चाशद् ग्रहाणामर्द्धयोजनं गव्यतं नक्षत्राणां सर्वोत्कृष्टायास्तारयाअर्द्धक्रोशोजघन्यायाः पञ्चधनुःशतानि, विष्कम्भार्द्धबाहल्याश्च भवन्ति सर्वे सूर्यादयोऽत्र लोक"इति, 'ताचंदविमाणं कइ देवसाहस्सीओ परिवहंति' इत्यादीन्यपिवाहनविषयाणिप्रश्ननिर्वचनसूत्राणिसुगमानि, नवरमियमत्र भावना-इह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org