________________
प्राभृतं १८, प्राभृतप्राभृतं -
२७५
' तेवीसं सूरे अद्धचउवीसमाई चंदे' इति एगे पुण एवमाहंसु ता तेवीसं जोयणसहस्साई सूरे उहुं उच्चत्तेणं अद्धचउवीसमाई चंदे एगे एव२३ 'चउवीसं सूरे अद्धपंचवीसमाई चंदे' इति एगे पुन एवमाहंसु चउवीसं जोयणसहस्साई सूरे उहुं उच्चत्तेणं अद्धपंचवीसमाई चंदे एगे एव० २४ ।
पञ्चविंशतितमप्रतिपत्तिसूत्रं तु साक्षाद्दर्शयति- 'एगे पुण एवमाहंसु-ता पणवीस 'मित्यादि, एतानि च सूत्राणि सुगमत्वात् स्वयं भावनीयानि, तदेवमुक्ताः परप्रतिपत्तयः सम्प्रति स्वमतं भगवानुपदर्शयति- 'वयं पुण एवं वदामो' इत्यादि, वयं पुनरुत्पन्नकेवलवेदसः एवं वक्ष्यमाणेन प्रकारेण वदामस्तमेव प्रकारमाह- 'ता इमीसे' इत्यादि, ता इति पूर्ववत्, अस्या रत्नप्रभायाः पृथिव्या बहुसमरमणीयात् भूमिभागादूर्ध्वं सप्त योजनशतानि नवतानि - नवत्यधिकानि उत्प्लुत्यगत्वा अत्रान्तरे अधस्तनं ताराविमानं चारं चरति - मण्डलगत्या परिभ्रमणं प्रतिपद्यते, तथा अस्या एव रत्नप्रभायाः पृथिव्या बहुसमरमणीयात् भूमिभागादूर्ध्वमष्टी योजनशतान्युत्लुत्यात्रान्तरे सूर्यविमानं चारं चरति, तथा अस्या एव रत्नप्रभायाः पृथिव्या बहुसमरमणीयात् भूमिभागादूर्ध्वं परिपूर्णानि नव योजनशतान्युत्लुत्यात्रान्तरे सर्वोपरितनं ताराविमानं चारं चरति ।
अधस्तनात्ताराविमानादूर्ध्वं दश योजनान्युस्लुत्यात्रान्तरे सूर्यविमानं चारं चरति, तत एवाधस्तनात् ताराविमानान्नवतिं योजनान्यूर्ध्वमुत्प्लुत्यान्नान्तरे चन्द्रविमानं चारं चरति, तत एव सर्वाधस्तनात्ताराविमानाद्दशोत्तरं योजनशतमुर्ध्वमुत्तुत्यात्रान्तरे सर्वोपरितनं ताराविमानं चारं चरति, 'तासुरविमाणाओ' इत्यादि, ता इति पूर्ववत् सूर्यविमानादूर्ध्वमशीतिं योजनान्युत्तुत्यात्रान्तरे चन्द्रविमानं चारं चरति, तस्मादेव सूर्यविमानादूर्ध्वं योजनशतमुत्तुत्यात्रान्तरे सर्वोपरितनं तारारूपं ज्योतिश्चक्रं चारं चरति ।
'ता चंदविमाणाओ' इत्यादि ता इति पूर्ववत् चन्द्रविमानादूर्ध्वं विंशतिं योजनानि उत्तुत्यात्रान्तरे सर्वोपरितनं तारारूपं ज्योतिश्चक्रं चारं चरति, 'एवमेवे' त्यादि एवमेव-उक्तेनैव प्रकारेण 'सपुव्वावरेणं' ति सह पूर्वेण वर्त्तन्ते इति सपूर्वं सपूर्वं च तत् अपरं च सपूर्वापरं तेन पूर्वापरमीलनेनेत्यर्थः, दसोत्तरयोजनशतबाहल्येन, तथाहि - सर्वाधस्तनात्तारारूपात् ज्योतिश्चक्रदूर्ध्वं दशभिर्योजनैः सूर्यविमानं ततोऽप्यशीत्या योजनैश्चन्द्रविमानं ततो विंशत्या सर्वोपरितनं तारारूपं ज्योतिश्चक्रमिति भवति ज्योतिश्चक्रचारविषयस्य दशोत्तरं योजनशतं बाहल्यं, तस्मिन् दशोत्तरयोजनशतबाहल्ये, पुनः कथंभूते इत्याह- तिर्यगसङ्घयेये - असङ्खये ययोजनकोटीकोटीप्रमाणे ज्योतिर्विषये मनुष्यक्षेत्रविषयं ज्योतिश्चक्रं चारं चरति चारं चरत् मनुष्यक्षेत्राद्वहि पुनरवस्थि- तमाख्यातं इति वदेत् ।
'ता अत्थि ण 'मित्यादि, ता इति पूर्ववत्, अस्त्येतत् भगवन् ! यदुत चन्द्रसूर्याणां देवानां 'हिडिंपि’त्ति क्षेत्रापेक्षया अधस्तना अपि तारारूपविमानाधिष्ठातारो देवा द्युतिविभवलेश्यादिकमपेक्ष्य केचिदणवोऽपि - लघवोऽपि भवन्ति, हीना अपि भवन्तीत्यर्थः केचित्तुल्या अपि भवन्ति, तथा सममपि - चन्द्रविमानैः सूर्यविमानैश्च क्षेत्रापेक्षया समश्रेण्यापि व्यवस्थितास्तारारूपाःताराविमानाधिष्ठातारो देवास्तेऽपि चन्द्रसूर्याणां देवानां द्युतिविभवादिकमपेक्ष्य केचिदणवोऽपि भवन्ति केचित्तुल्या चन्द्रसूर्याणां देवानां द्युतिविभवादिकमपेक्ष्य केचिदणवोऽपि भवन्ति केचित्तुल्या अपि ? एवं गौतमेन प्रश्ने कृते भगवानाह - 'ता अस्थि'त्ति यदेतत्वया पृष्टं तत्सर्वं तथैवास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
"