SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १/२/२२ 'तरसाइपएरसाए०' इति तस्य - दक्षिणदिग्भाविनस्तृतीयस्यार्द्धमण्डलस्यादिप्रदेशमाश्रित्य 'अब्भितरं तच्चं 'ति सर्वाभ्यन्तरमण्डलमपेक्ष्य तृतीयां दक्षिणामर्द्धमण्डलसंस्थितिमुपसङ्क्रम्य चारं चरति, अत्रापि तथा चारं चरति आदिप्रदेशादूर्ध्वशनैः शनैरपरमण्डलाभिमुखं येन तस्याहोरात्रस्य पर्यन्ते तन्मण्डलगतानष्टाचत्वारिंशद्योजनैकषष्टिभागानपरे च द्वे योजने अपहाय चतुर्थस्योत्तरार्द्धमण्डलस्य सीमायामवतिष्ठते, 'ता जया ण' मित्यादि, ततो यदा णमिति पूर्ववत् सर्वाभ्यन्तरान्मण्डलात्तृतीयां दक्षिणामर्द्धमण्डलसंस्थितिमुपसंकङ्क्रम्य चारं चरति तदा अष्टादशमुहूर्त्तो दिवसो भवति चतुर्भिर्मुहूर्ते कषष्टिभागैरूनो द्वादशमुहूर्त्ता रात्रि चतुर्भिर्मुहूर्तेकषष्टिभागैरभ्यधिका, 'एवं खलु' इत्यादि एवं उक्तनीत्या खलु निश्चितमेतेनोपायेन प्रत्यहोरात्रमष्टाचत्वारिंशद्योजनैकषष्टि भागाभ्यधिकयोजनद्वयविकम्पनरूपेण निष्क्रमन् सूर्यस्तदनन्तरादर्द्धमण्डलात्तदनन्तरं तस्मिन् २ देशे - दक्षिणपूर्वभागे उत्तरपश्चिमभागे वा तांतां- अर्द्धमण्डलसंस्थितिं सङ्क्रमन् २ द्वयशीत्यधिकशततमाहोरात्रपर्यन्ते गते दक्षिणस्मात् - दक्षिणदिग्भाविनोऽन्तरात् द्व्यशीत्यधिकशततममण्डलगताटाचत्वारिंशद्यो जनै कषष्टिभागाभ्यधिकतदनन्तरयोजनद्वयप्रमाणादपान्तरालरूपाद्भागात । २४ 'तस्साइपएसाए' इति तस्य - सर्वबाह्यमण्डलगतस्योत्तरस्यार्द्धमण्डलादिप्रदेशमाश्रित्य सर्वबाह्यामुत्तरार्द्धमण्डलसंस्थितिमुपसंकङ्कम्य चारं चरति, स चादिप्रदेशादूर्ध्वं शनैः २ सर्वबाह्यानन्तराभ्यन्तरदक्षिणार्द्ध मण्डलाभिमुखं तथा कथंचनापि चरति येन तस्याहोरात्रस्य पर्यन्ते सर्व बाह्यानन्तराभ्यन्तरदक्षिणार्द्धमण्डलसीमायां भवति, ततो यदा णमिति पूर्ववत् सूर्य सर्वबाह्यामुत्तरामर्द्धमण्डलसंस्थितिमुपसङ्क्रम्य चारं चरति, तत्र उत्तमकाष्ठा प्राप्ता उत्कर्षिका उत्कृष्टा अष्टादशमुहूर्त्ता रात्रिर्भवति, जघन्यश्च द्वादशमुहूर्ती दिवसः, 'एस ण'मित्यादि, निगमनवाक्यं प्राग्वत् । 'स पविसमाणे ' इत्यादि, सूर्य सर्वबाह्योरार्द्धमण्डलादिप्रदेशादूर्ध्व शनैः शनैः सर्वबाह्यानन्तरद्वितीयदक्षिणार्द्धमण्डलाभिमुक सङ्क्रमन् तस्मिन्नेवाहोरात्रेऽतिक्रन्ते सति अभ्यन्तरं प्रविशन् द्वितीयं षण्मासमाददानो द्वितीयस्य षण्मासस्य प्रथमेऽहोरात्रे उत्तरस्मादुत्तरदिग्भाविसवाह्य-मण्डलगतादन्तरात् सर्ववाह्यान्तरार्द्धमण्डलगताष्टाचत्वारिंशद्योजनैकषष्टिभागाभ्यधिकतदनन्तरार्वाग्भावियोजनद्वयप्रमाणादपान्तरालरूपाद्भागात् 'तस्साइपएसाए' इति तस्य - दक्षिणदिग्भाविनः सर्वबाह्यानन्तरस्य दक्षिणस्यार्द्धमण्डलस्यादिप्रदेशमाश्रित्य । 'बाहिरानंतर 'ति सर्ववाह्यस्य मण्डलस्यानन्तरामभ्यन्तरां दक्षिणामर्द्धमण्डलसंस्थितिमुपसङ्क्रम्य चारं चरति, अत्रापि चार आदिप्रदेशादूर्ध्वं तथा कथंचनाप्यभ्यन्तराभिमुखं वर्तते येनाहोरात्रपर्यन्ते सर्वबाह्यान्मण्डलादभ्यन्तरस्य तृतीयार्द्धमण्डलस्य सीमायां भवति, 'ता जया णमित्यादि, ततो यदा सूर्यो बाह्यानन्तरां सर्वबाह्यान्ण्डलादभ्यन्तरस्य तृतीयार्द्धमण्डलस्य सीमायां भवति, 'ताजयान' मित्यादि, ततो यदा सूर्यो वाह्यानन्तरां सर्वबाह्यादनन्तरां दक्षिणामर्द्धमण्डलसंस्थितिमुपसङ्क्रम्य चारं चरति तदा अष्टादशमुहूर्ता रात्रिर्द्धाभ्यां मुहूर्तकषष्टिभागाभ्यामूना भवति, द्वादशमुहूर्त्तप्रमाणो दिवसो द्वाभ्यां मुहूर्तैकषष्टिभागाभ्यामधिकः । 'से पविसमाणे' इत्यादि, ततस्तस्मिन्नहोरात्रेऽतिक्रान्ते सति सूर्योऽभ्यन्तरं प्रविशन् द्वितीयस्य षण्मासस्य द्वितीयेऽहोरात्रे दक्षिणस्माद्भागाद्दक्षिणदिग्भाविनोऽन्तराद्दक्षिणदिग्भाविसर्व Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003350
Book TitleAgam Sutra Satik 16 Suryapragnapati UpangSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy