________________
प्राभृतं १५, प्राभृतप्राभृतं -
२६३
भवति तदा पौरस्त्याद्भागात् प्रथमतोऽभिजिन्नक्षत्रचन्द्रमसं समासादयति एतच्च प्रागेव भावितं समासाद्य च नव मुहूर्तान् दशमस्य च मुहूर्तस्य सप्तविशति सप्तषष्टिभागान् चन्द्रेण सार्द्ध योगं युनक्ति-करोति, एतदपि प्रागेव भावितं, एवंप्रमाणं कालं योगं युक्त्वा पर्यन्तसमये योगमनुपरिवर्तयति, श्रवणनक्षत्रस्ययोगसमर्पयतीति भावः, योगंचपरावर्त्यस्वेन सहयोगविजहाति, किंबहुना ?, विगतयोगी चापि भवत।
ताजयाण'मित्यादि, ताइतिप्राग्वत्, यदाचन्द्रगतिसमापनमपेक्ष्य श्रवणनक्षत्रंगतिसमापन्नं भवति तदा तत् श्रवणनक्षत्रंप्रथमतः पौरस्त्याद्भागात्-पूर्वेण भागेनचन्द्रमसंसमासादयति, समासाद्य चन्द्रेण सार्द्ध त्रिंशतं मुहूर्तान् यावत् योगं युनक्ति, एवंप्रमाणं च कालं यावत् योगं युक्त्वापर्यन्तसमये योगमनुपरिवर्तयति, धनिष्ठानक्षत्रस्य योगं समर्पयितुमारभतेइत्यर्थः, योगमनुपरिवर्त्य च स्वेन सह योग विप्रजहाति, किंबहुना?, विगतयोगी चापि भवति ।
‘एव'मित्यादि एवमुक्तेन प्रकारेणएतेनानन्तरोपदर्शितेनाभिलापेनयानिपञ्चदशमुहूनि शतभिषगप्रभृतीनिनक्षत्राणि यानि त्रिंशन्मुहूर्त्तानि धनिष्ठाप्रभृतीनियानिचपञ्चचत्वारिंशन्मुहूर्तानि उत्तरभद्रपदादीनि तानि सर्वाण्यपि क्रमेण तावद् भणितव्यानि यावदुत्तराषाढा, तत्राभिलापः सुगमत्वात् स्वयं भावनीयो ग्रन्थगौरवभयात् नाख्यायते इति । सम्प्रति ग्रहमधिकृत्य योगचिन्तां करोति–'ताजयाण'मित्यादिताइतिपूर्ववत्यदाणमितिवाक्यालङ्क्तरेचन्द्रं गतिसमापन्नमपेक्ष्य ग्रहो गतिसमापन्नोभवति तदासग्रहः पौरस्त्याद्भागात्-पूर्वेण भागेन प्रथमतश्चन्द्रमसं समासादयति समासाद्य च यथासम्भवं योगंयुनक्ति, यथासम्भवं योगंयुक्त्वा पर्यन्तसमये यथासम्भवं योगमनुपरिवर्तयति, यथासम्भवमन्यस्य ग्रहस्य योगं समर्पयितुमारभते इति भावः, योगमनुवर्त्य च स्वेन सह योगं विप्रजहाति, किंबहुना?, विगतयोगी चापि भवति।
___ अधुना सूर्येण सह नक्षत्रस्य योगचिन्तां करोति-'ता जया णमित्यादि, ता इति प्राग्वत्, यदा सूर्य गतिसमापन्नमपेक्ष्याभिजिन्नक्षत्रं गतिसमापन्नं भवति तदा तदभिजिन्नक्षत्रं प्रथमतः पौरस्त्या भागात्सूर्यं समासादयति समासाद्यचतुरः परिपूर्णान् अहोरात्रान् पञ्चमस्यचाहोरात्रस्य षड्मुहूर्तान् यावत् सूर्येण सह योगंयुनक्ति, एवंप्रमाणंच कालं यावत् योगंयुक्त्वा पर्यन्तसमये योगमनुपरिवर्तयति, श्रवणनक्षत्रस्य योगं समर्पयितुमारभते इति भावः, अनुपरिवर्त्य च स्वेन सह योग विजहाति विप्रजहाति, किंबहुना?, विगतयोगी चापि भवति ।
“एव'मित्यादि, एवमुक्तेनप्रकारेण पञ्चदशमुहूर्तानांशतभिषकप्रभृतीनांषट् अहोरात्राः सप्तमस्य अहोरात्रस्य एकविंशतिर्मुहूर्ताः त्रिंशन्मुहूर्तानां श्रवणादीनांत्रयोदशअहोरात्राश्चतुर्दशस्य अहोरात्रस्य द्वादश मुहूर्ताः पञ्चत्वारिंशन्मुहूर्तानामुत्तरभद्रपदादीनां विंशतिरहोरात्राएकविंशतितमस्य चारोहात्रस्य त्रयो मुहूर्ताः क्रमेण सर्वेतावद् भणितव्याःयावदुत्तराषाढानक्षत्रं, तत्रोत्तराषाढानक्षत्रगतमभिलापं साक्षाद्दर्शयति-'ता जया ण'मित्यादि, सुगम, एतदनुसारेण शेषा अप्यालापाः स्वयं वक्तव्याः, सुगमत्वात्तु नोपदयन्ते ।
सम्प्रति सूर्येण सह ग्रहस्य योगचिन्तां करोति-'ता जया णमित्यादि सुगम । अधुना चन्द्रादयो नक्षत्रेण मासेन कति मण्डलानि चरन्तीत्येतन्निरूपयितुकाम आहमू.(११३) ता नक्खत्तेणं मासेणं चंदे कति मंडलाइंचरति?, ता तेरस मंडलाइंचरति,
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only