________________
२५६
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १३/-/१०९ 'ता दोचायणगए' इत्यादि, तस्मिन्नेव चन्द्रमसि द्वितीयायनगते पश्चिमभागानिष्क्रमति-पश्चिमभागे चारंचरति, षट् चतुःपञ्चाशत्कानि भवन्ति यानि चन्द्रः 'परस्से'तिपरेण सूर्यादिनाचीर्णानि प्रतिचरति, षट्त्रयोदशकानि यानि चन्द्रः स्वयंचीर्णानि प्रतिचरति, अत्रापीयं भावना–पश्चिमे भागेषट्स्वपितृतीयादिष्वेकान्तरितेषुत्रयोदशपर्यन्तेषु अर्द्धमण्डलेषु सप्तषष्टिभागप्रविभक्तेषु प्रत्येकंचतुःपञ्चाशतं चतुःपञ्चाशतं सप्तषष्टिभागान् परचीर्णान् चरति, त्रयोदश सप्तपष्टिभागान् स्वयंचीर्णनिति, अवराइंखलु दुवे इत्यादि, अपरे खलु उत्रयोदशके तस्मिन्नयने स्तो ये चन्द्रः केनाप्यसान्ये-केनाप्यनाचीर्णपूर्वे स्वयमेव प्रविश्य चारं चरति ।
'कयराईखलु'इत्यादि, प्रश्नसूत्रंसुगम, ‘इमाइंखलु इत्यादि निर्वचनवाक्यमेतद्, एतच्च प्रायोनिदसिद्धम्, नवरमेकंयन्त्रयोदशकंसर्वाभ्यन्तरेमण्डलेतत्पाश्चात्यायनगतत्रयोदशकादूर्ध्वं वेदितव्यं, तस्यैव सम्भवास्पदत्वात्, द्वितीयंसर्वबाह्ये मण्डले तच्चपर्यन्तवर्तिप्रतिपत्तव्यं, एयाई खलु ताणि'इत्यादि निगमनवाक्यं सुगम, तदेवमेकं चन्द्रमसमधिकृत्यद्वितीयायन वक्तव्यतोक्ता, एतदनुसारेण च द्वितीयमपि चन्द्रमसमधिकृत्य द्वितीयायनवनव्यता भावनीया, पूर्वभागे षट् चतुःपञ्चाशत्कानि परचीचरणीयानि षट् त्रयोदशकानि स्वयंचीर्णप्रतिचरणीयानि।
__'एतावता'इत्यादि, एतावता कालेन द्वितीयं चन्द्रायणं समाप्तंभवति, 'ता नक्खत्ते'त्यादि, यद्येवं द्वितीयमप्ययनमेतावत्प्रमाणं ता इति-ततो नाक्षत्रो मासो न चान्द्रो मासो भवति नापि चान्द्रो मासो नाक्षत्रो मासः, सम्प्रति नक्षत्रमासात् कियता चन्द्रमासोऽधिक इति जिज्ञासुः प्रश्न करोति-'ता नक्खत्ताओमासाओ' इत्यादि, ता इति-तत्रनाक्षात्रात्मासात् चन्द्रः चन्द्रेण मासेन किमधिकं चरति ?, एवं प्रश्ने कृते भगवानाह– 'ता दो अद्धमंडलाइं'इत्यादि, द्वे अर्द्धमण्डले तृतीयस्वार्द्धमण्डलस्याटौसप्तषष्टिभागान् एकंच सप्तषष्टिभागमेकत्रिंशद्दा छित्वातस्यसत्कानष्टादश भागान्अधिकंचरति, एतच्च प्रागुक्तमेकायनेऽधिकमेकमण्डलमित्यादि द्विगुणं कृत्वा परिभावनीयं, सम्प्रति यावता चन्द्रमासः परिपूर्णो भवति तावन्मात्रतृतीयायनवक्तव्यतामाह
‘ता तच्चायणगए चंदे' इत्यादि, इह द्वितीयायनपर्यन्ते चतुर्दशेऽर्द्धमण्डले षडविंशतिसङ्ख्यसप्तषष्टिभागमात्रमाक्रान्तं, तच्च परमार्थतः पञ्चदशमर्द्धमण्डलं वेदितव्यं, बहु तदभिमुखं गतत्वात, तदनन्तरंनीलवत्पर्वतप्रदेशेसाक्षात् पञ्चदशमर्द्धमण्डलंप्रविष्टस्ताविष्टश्चप्रथमक्षणादूर्ध्व सर्वबाह्यानन्तराक्तिनद्वितीयमण्डलाभिमुखं चरति, रनस्मिन्नेव सर्वबाह्यानन्तरेऽक्तिने द्वितीयमण्डले चारं चरन् विवक्षितः, ततोऽधिकृतसूत्रोपनिपातः, तृतीयायनगते चन्द्रे पश्चिमे भागेप्रविशति बाह्यानन्तरस्याग्भिागवर्तिनः पाश्चात्यस्यार्द्धमण्डलस्य एकच नारिंशत् सप्तषष्टिभागास्ते वर्तन्ते यान् चन्द्रः आत्मना परेण च चीर्णान् प्रतिचरति त्रयोदश च सप्तषष्टिभागास्ते यान् चन्द्रः परेणैव चीर्णान् प्रतिचरति अन्ये च त्रयोदश सप्तषष्टिभागा. यान् चन्द्रः स्वयं परेण चचीर्णान् प्रतिचरति, एतावता परिभ्रमणेन बाह्यानन्तरमक्तिनं पाश्चात्यमर्द्धमण्डलं परिसमाप्तं भवति, तदनन्तरं च तस्मिन्नेव तृतीयायनगते चन्द्रे पौरस्त्यमा प्रविशति सर्वबाह्यादस्तिनस्य तृतीयस्यपौरस्त्यार्द्धमण्डलस्यएकचत्वारिंशत् सप्तषष्टिभागा यान्चन्द्र आत्मनापरेण च चीर्णान् प्रतिचरति, ततः परमन्ये ते त्रयोदश भागा थान् चन्द्रः परेणैव चीर्णान् प्रतिचरति, अन्ये च ते त्रयोदश भागा यान्चन्द्रआत्मनापरेणचचीर्णान्प्रतिचरति, एतावता सर्वबाह्यान्मण्डलादक्तिन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org