SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ प्राभृतं १३, प्राभृतप्राभृतं २५५ ताभ्यां भागो हियते लब्धाश्चत्वारः सप्तषष्टिभागाः शेषाणि तिष्ठन्ति षट् शतानि त्र्युत्तराणि ततश्छेद्यच्छेदकराश्योः सप्तषष्ट्याऽपवर्त्तना जाता उपरि नव अधस्तादेकत्रिंशत् लब्धा एकस्य च सप्तषष्टिभागस्य नव एकत्रिंशच्छेदकृता भागाः, उक्तं च 119 11 "एगं च मंडलं मंडलस्स सत्तठ्ठिभागा चत्तारि । नव चेव चुण्णियातो इगतीसकएण छेएण ॥" इह भावनां कुर्वता मण्डलं मण्डलमिति यदुक्तं तत्सामान्यतो ग्रन्थान्तरे या प्रसिद्धा भावना तदुपरोधादवसेयं, परमार्थतः पुनरर्द्धमण्डलमवसातव्यं, ततो न कश्चित् सूत्रभावनिकयोर्विरोधः, तदेवमेकचन्द्राय अणवक्तव्यतोक्ता, सम्प्रति द्वितीयचन्द्रायणवक्तव्यताभिधीयते, तत्रयः प्रथमे चन्द्रायणे दक्षिणभागादभ्यन्तरंप्रविशन् सप्तार्द्धमण्डलानि उत्तरभागादभ्यन्तरं प्रविशन् षट् अर्द्धमण्डलानि सप्तमस्य चार्द्धमण्डलस्य त्रयोदश सप्तषष्टिभागान् चरितवान् तमधिकृत्य द्वितीयायनभावना क्रियते, तत्रायनस्य मण्डल क्षेत्रपरिमाणं त्रयोदश अर्द्धमण्डलानि चतुर्द्दशस्य चार्द्धमण्डलस्य त्रयोदश सप्तषष्टिभागाः, तत्र प्राक्तनमयनमुत्तरस्यां दिशि सर्वाभ्यन्तरे मण्डले त्रयोदश सप्तषष्टिभागपर्यन्ते परिसमाप्तं, तदनन्तरं द्वितीयायनप्रवेशेचतुःपञ्चाशता सप्तषष्टिभागैः सर्वाभ्यन्तरं मण्डलं परिसमाप्य ततो द्वितीये मण्डले चारं चरति, तत्र त्रयोदशभागपर्यन्ते एकमर्द्धमण्डलं द्वितीयस्यायनस्य परिसमाप्तं, द्वितीयमर्द्धमण्डलमुत्तरस्यां सर्वाभ्यन्तरात्तृतीये अर्द्धमण्डले त्रयोदशभागपर्यन्ते तृतीयमर्द्धमण्डलं दक्षिणस्यां दिशि चतुर्थेऽर्द्धमण्डले चतुर्थमर्द्धमण्डलमुत्तरस्यां दिशि पञ्चमेऽर्द्धमण्डले पञ्चममर्द्धमण्डलं दक्षिणस्यां दिशि षष्ठे अर्द्धमण्डले षष्ठमर्द्धमण्डलं उत्तरस्यां दिशि सप्तमेऽर्द्धमण्डले सप्तममर्द्धमण्डलं दक्षिणस्यां दिशि अष्टमेऽर्द्धमण्डलेऽष्टममर्द्धमण्डलं उत्तरस्यां दिशि नवमे अर्द्धमण्डले नवममर्द्धमण्डलं दक्षिणस्यां दिशि द्वादशे अर्द्धमण्डले द्वादशमर्द्धमण्डलं उत्तरस्यां दिशि त्रयोदशे अर्द्धमण्डले त्रयोदशमर्द्धमण्डलं दक्षिणस्यां दिशि चतुर्द्दशेऽर्द्धमण्डले चतुर्द्दशमर्द्धमण्डलं तच्च त्रयोदशभागपर्यन्ते परिसमाप्तं, तदनन्तरं त्रयोदश सप्तषष्टिभागान् अन्यान् चरति, एतावता द्वितीयमयनं परिसमाप्तं, चतुर्द्दशे च मण्डले सङक्रान्तः सन् प्रथमक्षणादूर्ध्वं सर्वबाह्यमण्डलाभिमुखं चारं चरति । ततः परमार्थतः कतिपयभागातिक्रमे पञ्चदश एव सर्वबाह्यमण्डले वेदितकव्यः, तदेवमस्मिन्नयने पूर्वभागेन द्वितीयादीन्येकान्तरितानि चतुर्द्दशपर्यन्तानि सप्तार्द्धमण्डलानि चीर्णानि, पश्चिमभागे च तृतीयादीन्येकान्तरितानि त्रयोदशपर्यन्तानि षडर्द्धमण्डलानि, तत्र पूर्वभागे पश्चिमभागे वा यत् प्रतिमण्डं स्वयं चीर्णमन्यचीर्णं वा चरति तन्निरूपयति 'ता दोच्चायणगए' इत्यादि, ता इति पूर्ववत् द्वितीयानगते चन्द्रे पौरस्त्यात् भागान्निष्क्रमति, किमुक्तं भवति ? - पौरस्त्ये भागे चारं चरति, सप्त चतुःपञ्चाशत्कानि भवन्ति यानि चन्द्रः परस्येति तृतीयार्थे षष्ठी परेण सूर्यादिना चीर्णानि प्रतिचरति, सप्त च त्रयोदशकानि भवन्ति यानि चन्द्र आत्मनैव चीर्णानि प्रतिचरति, इयमत्र भावना - मेरोः पूर्वस्यां दिशि यो भागः स पूर्वभागो यश्चापरस्यां दिशि स पश्चिमभागः, तत्र पूर्वभागे सप्तस्वपि द्वितीयादिष्वेकान्तरितेषु चतुर्द्दशपर्यन्तेषु सप्तषष्टिभागप्रविभक्तेषु प्रत्येकं चतुःपञ्चाशतं सप्तषष्टिभागान् चन्द्रः परेण सूर्यादिना चीर्णान् प्रतिचरति, त्रयोदश त्रयोदश सप्तषष्टिभागान् स्वयंचीर्णानिति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003350
Book TitleAgam Sutra Satik 16 Suryapragnapati UpangSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size8 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy