________________
प्रमृतं १२, प्राभृतप्राभृतं
२४३
सप्तषष्टिभागाः पाश्चात्ये अयने पुष्यस्य गताः शेषाञ्चतुश्चत्वारिंश- त्सप्तषष्टिभागाः स्थिताः ते साम्प्रतमितो राशेः शोध्यन्ते स्थितानि शेषाण्यष्टौ शतान्येकसप्तत्यधिकानि तेषां सप्तषष्ट्या भागे हृते लब्धास्त्रयोदश पश्चात्र किमपि तिष्ठति, त्रयोदशभिश्चाश्लेषा - दीन्युत्तराषाढापर्यन्तानि नक्षत्राणि शुद्धानि, तत आगतं - अभिजितो नक्षत्रस्य प्रथमसमये माघमास भाविनी प्रथमा आवृत्ति प्रवर्तते, एवं सर्वा अपि माघमासभाविन्य आवृत्तयः सूर्यनक्षत्रयोगमधिकृत्य वेदितव्याः, उक्तं च119 11 "बाहिरओ पविसंतो आइचो अभिइजोगमुवगम्म । सव्वा आउट्टीओ करेइ सो माघमासंमि ॥"
द्वितीय हेमन्तावृत्तिविषयं प्रश्नसूत्रमाह- 'ता एएसि ण' मित्यादि, सुगमं, भगवानाह - 'ता सयभिसयाहिं' इत्यादि, ता इति पूर्ववत्, शतभिषजा युक्तश्चन्द्रो द्वितीयां हैमन्तीमावृत्तिं प्रवर्तयति, तदानीं च शतभिषजो नक्षत्रस्य द्वौ मुहूर्तावेकस्य च मुहूर्त्तस्याष्टाविंशतिर्द्वाषष्टिभागा एकं च द्वाषष्टिभागं सप्तषष्टिधा छित्वा तस्य सत्काः षट्चत्वारिंशच्चूर्णिका भागाः शेषाः, तथाहि
प्रागुपदर्शितक्रमापेक्षया द्वितीया मायमास भाविन्यावृत्तिश्चतुर्थी ततस्तस्याः स्थाने चतुष्को ध्रियते स रूपोनः कार्य इति जातस्त्रकः तेन प्राक्तनो ध्रुवराशि गुण्यते जातानि सप्तदश शतान्येकोनविंशत्यधिकानि मुहूर्त्तानां मुहूर्तगतानां च द्वाषष्टिभागानमष्टोत्तरं शतं एकस्य च द्वाषष्टिभागस्याष्टादश सप्तषष्टिभागाः तत एतेभ्यः षोडशभिः शतैरष्टात्रिंशदधिकैर्मुहूर्त्तानामेकस्व च मुहूर्त्तस्याष्टाचत्वारिंशता द्वाषष्टिभागैरेकद्वाषष्टिभागसत्कानां च सप्षष्टिभागानां द्वात्रिंशदधिकेन शतेन द्वौ नक्षत्रपर्याची शुद्धी, स्थिताः पञ्चादेका- शीतिर्मुहूर्त्तानामेकस्य च मुहूर्त्तस्याष्टापञ्चाशत् षष्टिभागा एकस्य च द्वाषष्टिभागस्य विंशति सप्तषष्टिभागाः ततो भूयो नवभिर्मुहूर्तेरेकस्य च मुहूर्त्तस्य चतुर्विंशत्या द्वाषष्टिभागैरे कस्य च द्वाषष्टिभागस्य षट्षष्ट्या सप्तषष्टिभागैरभिजिन्नक्षत्रं शुद्धं स्थिताः पश्चाद् द्वासप्ततिर्मुहूर्त्ता एकस्य च मुहूर्त्तस्य त्रयस्त्रिंशत् द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्यैकविंशति सप्तषष्टिभागाः ततस्त्रिंशता मुहूतैः श्रवणः शुद्धस्त्रशता धनिष्ठा पश्चादवतिष्ठन्ते द्वादश मुहूर्त्ताः, शतभिषकनक्षत्रं चार्द्धनक्षत्रं, तत आगतं शतभिषजो नक्षत्रस्य द्वयोर्मुहूर्त्तयोरेकस्य च मुहूर्त्तस्याष्टाविंशती द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य षट्चत्वारिंशति सप्तषष्टिभागेषु शेषेषु द्वितीया हैमन्ती आवृत्ति प्रवर्त्तते । सूर्यनक्षत्रयोगविषयं प्रश्नसूत्रं निर्वचनसूत्रं च सुगमं प्रागेव भावितत्वात्
अधुना तृतीयमाघमासभाव्यावृत्तिविषयं प्रश्नसूत्रमाह- 'ता एएसि ण' मित्यादि, सुगमं, भगवानाह - 'तापूसेण’मित्यादि, ता इति प्राग्वत् पुष्येण युक्तश्चन्द्रस्तृतीयां माघमासभाविनीमावृत्तिं प्रवर्त्तयति, तदानीं च पुष्यस्य एकोनविंशतिर्मुहूर्त्ता एकस्य च मुहूर्त्तस्य त्रिचत्वारिंशद् द्वाषष्टिभागा एकं च द्वाषष्टिभागं सप्तषष्टिधा छित्वा तस्य सत्कास्त्रयस्त्रिंशच्चूर्णिका भागाः शेषाः, तथाहिप्रागुपदर्शितक्रमापेक्षया तृतीया माघमास भाविन्यावृत्ति षष्ठी तस्तस्याः स्थाने षट्को ध्रियते स रूपोनः कार्य इति जातः पञ्चकस्तेन स प्राक्तनो ध्रुवराशि गुण्यते जातान्यष्टाविंशति शतानि पञ्चषष्ट्यधिकानि मुहूर्तानां मुहूर्तगतानां च द्वाषष्टिभागानामशीत्यधिकं शतं एकस्यच द्वाषष्टिभागस्य त्रिंशत् सप्तषष्टिभागाः तत एतेभ्यः सप्तपञ्चाशदधिकैः चतुर्विंशतितैर्मुहूर्त्तानामेकमुहूर्त्तगतानां चट्ट। ''भागानां द्विसप्तत्या एकस्य च द्वाषषष्टिभागस्य सत्कानां सप्तषष्टिभागानामष्टानवत्यधिकेन
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org