________________
प्राभृतं १२, प्राभृतप्राभृतं -
२३९
'ता एएसि ण' मित्यादि, ता इति पूर्ववत्, एतेषां - अनन्तरोदितानां चन्द्रादीनां पञ्चानां संवत्सराणां मध्ये द्वितीयां वार्षिकीं श्रावणमासभाविनीमावृत्ति चन्द्रः केन नक्षत्रेण युनक्ति केन नक्षत्रेण युक्तः सन् चन्द्रो द्वितीया- मावृत्ति प्रारम्भयति ?, एवं प्रश्ने कृते सति भगवानाह - 'ता संठाणाहिं' इत्यादि, ता इति पूर्ववत्, संस्थानाभि-संस्थानाशब्देन मृगशिरोनक्षत्रमभिधीयते, तथा प्रवचने प्रसिद्धेः, ततो मृगशिरोनक्षत्रेण युक्तश्चन्द्रमा द्वितीयां श्रावणमासभाविनीमावृत्तिं प्रवर्त्तयति, तदानीं च मृगशिरोनक्षत्रस्य एकादश मुहूर्त्ता एकस्य च मुहूर्त्तस्य एकोनचत्वारिंशत् द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य त्रिपञ्चाशत् सप्तषष्टिभागाः शेषाः, तथाहि
इह या द्वितीया श्रावणमासभाविन्यावृत्ति सा प्राक्प्रदर्शितक्रमापेक्षया तृतीया ततस्तत्स्थाने रिको ध्रियते, सरूपोनः कार्य इति जातो द्विकस्तेन प्राक्तनो ध्रुवराशि पञ्च शनानि त्रिसप्तत्यधिकानि मुहूर्तानामेकस्य च मुहूर्त्तस्य षट्त्रिंशत् द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य षट् सप्तषष्टिभागाः इत्येवंप्रमाणो गुण्यते, जातान्येकादश शतानि षट्चत्वारिंशदधिकानि मुहूर्त्तानां द्वासप्ततिरेकस्य मुहूर्तस्य सत्का द्वाषष्टिभागाः एकस्य च द्वाषष्टिभागस्य द्वादश सप्तषष्टिभागाः तत एतेभ्यो मुहूर्तानामष्टभिः शतैरेकोनविंशत्यधिकैरेकस्य च मुहूर्त्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्य च द्वाषष्टिभागस्य षट्षष्ट्या सप्तषष्टिभागैरेकः परिपूर्णो नक्षत्रपर्यायः शुद्धः स्थितनि पश्चान्मुहूर्तानां शतानि त्रीणि सप्तविंशत्यधिकानि एकस्य च मुहूर्त्तस्य सप्तचत्वारिंशत् द्वाषष्टिभागा एकस्यच द्वाषष्टिभागस्य त्रयोदश सप्तषष्टिभागाः । तत एतेभ्यस्त्रीभिर्मुहूर्त्तशतै- नवोत्तरैरेकस्य च मुहूर्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेस्य च द्वाषष्टिभागस्य षट्षष्ट्या सप्तषष्टिभागैर- भिजिदादीनि रोहिणिकापर्यन्तानि नक्षत्राणि शुद्धानि, 'तेसु चेव नवोत्तरेसु रोहिणिया' इत्यादिप्रागुक्तवचनात्, ततः स्थिताः पश्चादष्टादश मुहूर्ता एकस्य च मुहूर्त्तस्य द्वाविंसतिर्द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य चतुर्दश सप्तषष्टिभागाः । एतावता मृगशिरो न शुद्धयति, तत आगतं मृगशिरो नक्षत्रं एकादशसु मुहूर्तेषु एकस्य च मुहूर्तस्य एकोनचत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य त्रिपञ्चाशति सप्तषष्टिभागेषु शेषेषु द्वितीयां श्रावणमासभाविनीमावृत्तिं प्रवर्तयति
(संप्रति सूर्यनक्षत्रविषयं प्रश्नसूत्रं निर्वचनसूत्रं चाह) 'तं समयं च ण'मित्यादि, तस्मिंश्च समये सूर्य केन नक्षत्रेण सह योगमुपागतः तां द्वितीयां वार्षिकीमावृत्तिं युनक्ति ?, भगवानाह - 'ता पूसेण' मित्यादि, ता इति पूर्ववत्, पुष्येण युक्तः, 'तं चेव' त्ति वचनसामध्यादिदं द्रष्टव्यं - 'पुस्सस्स गूणवीसंमुहुत्ता यालीसंच बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिहा छेत्ता तेत्तीसं चुण्णिया भागासेसा' इति, इह सूर्यस्य दशभिरयनैः पञ्च सूर्यनक्षत्रपर्याया लभ्यन्ते, द्वाभ्यां चायनाभ्यामेकः, तत्रोत्तरायणं कुर्वन् सर्वदैवाभिजिता नक्षत्रेण सह योगमुपागच्छति, दक्षिणायनं कुर्वन् पुष्येण, तस्य च पुष्यस्य एकोनविंशती मुहूर्तेषु एकस्य च मुहूर्त्तस्य त्रिचत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य त्रयस्त्रिंशति सप्तषष्टिभागेषु शेषेषु, तथा चोक्तम्-
119 11
“अमितराहिं निंतो आइचो पुस्सजोगमुवगयस्स ।
सव्वा आउट्टीओ करेइ से सावणे मासे ॥"
इत्यादि, ततः ‘पुस्सेणं मि. यादि उक्तं, सम्प्रति तृतीयश्रावणमासभाव्यावृत्तिविषयं प्रश्नसूत्रमाह- 'ता एएसि ण' मित्यादि, सुगमं, भगवानाह - 'ता विसाहाहिं' इत्यादि, ता इति पूर्ववत्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org