________________
२३८
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १२ /-/ १०४
शतानि द्वाषष्ट्यधिकानि तान्यनन्तरो दितराशे - शोध्यन्ते, स्थितं पश्चात् शून्यं, तत आगतं साकल्येनोत्तराषाढा नक्षत्रे चन्द्रेण भुक्ते सति तदनन्तरस्याभिजितो नक्षत्रस्य प्रथमसमये युगे प्रथमा आवृत्ति प्रवर्त्तते, एतदेव प्रश्ननिर्वचन - रीत्या प्रतिपादयति
'एएसि ण 'मित्यादि, एतेषां अनन्तरोदितानां चन्द्रादीनां पञ्चानां संवत्सराणां मध्ये प्रथमां वार्षिकीं- वर्षाकालसम्बन्धिनीं श्रावणमासभाविनीमित्यर्थः आवृत्तिं चन्द्रः केन नक्षत्रेण युनक्ति केन नक्षत्रेण सह योगमुपागतः सन् प्रवर्त्तयति ?, एवं गौतमेन प्रश्ने कृते भगवानाह - 'ता अभिइणा' इत्यादि, अभिजिता नक्षत्रेण युनक्ति, एतदेव विशेषतः आचष्टे - अभिजितो नक्षत्रस्य प्रथमसमये युनक्ति, तदेवं चन्द्रनक्षत्रमवबुध्य सूर्यनक्षत्रविषयं प्रश्नमाह - 'तं समयं च ण' मित्यादि, तस्मिंश्च समये णमिति वाक्यालङ्कारे सूर्य केन नक्षत्रेण युनक्ति - केन नक्षत्रेण सह योगमुपागतः सन् तां प्रथमाऽऽ वृत्तिं प्रवर्त्तयतीति ?, भगवानाह -- ता इति पूर्ववत्, पुष्येण युक्तस्तां प्रथमामावृत्तिं युनक्ति, एतदेव सविशेषमाचष्टे - तदानीं पुष्यस्य एकोनविंशतिर्मुहूर्त्तास्त्रिचत्वारिंशच्च द्वाषष्टिभागा मुहूर्त्तस्य एकं च द्वाषष्टिभागं सप्तषष्टिधा छित्वा तस्य सत्कास्त्रयस्त्रशचूर्णिका भागाः शेषाः, कथमेतदवसीयते इति चेत्, उच्यते, त्रैराशिकवलात्, तथाहि यदि दशभिरयनैः पञ्च सूर्यकृतान्त्रक्षत्रपर्यायान् लभामहे तत एकेनायनेन किं लभामहे ?, अत्रान्त्येन राशिना एककलक्षणेन मध्यस्य राशेः पञ्चकरूपस्य गुणनं जाताः पञ्चैव तेषां दशभिर्भागे हते द्व्यमर्द्ध पर्यायस्य तत्र नक्षत्र पर्यायः सप्तषष्टिभागरूपोऽष्टादश शतानि त्रिंशदधिकानि ।
"
7
,
तथाहि - षट् नक्षत्राणि शतभिषक्प्रभृतीनि अर्द्धनक्षत्राणि ततस्तेषां प्रत्येकं सार्द्धास्त्रयस्त्रिंशत्सप्तषष्टिभागाः, ते साद्धस्त्रियस्त्रिंशत् षड्भिर्गुण्यन्ते, जाते द्वे शते एकोत्तरे, षट् नक्षत्राणि उत्तरभद्रपदादीनि दुव्यर्द्धक्षेत्राणि, ततस्तेषां प्रत्येकमेकं शतं सप्तषष्टिभागानामेकस्य च सप्तषष्टिभागस्यार्द्ध, एतत् षड्भिर्गुण्यते, जातानि षट् शतानि त्र्युत्तराणि, शेषाणि पञ्चदश नक्षत्राणि समक्षेत्राणि तेषां प्रत्येकं सप्तषष्टिभागाः ततः सप्तषष्टिः पञ्चदशभिर्गुण्यते, जातं पञ्चोत्तरं सहस्रं, एकविंशतिश्चाभिजितः सप्तषष्टिभागाः, सर्वसङ्ख्यया शप्तषष्टिभागानामष्टादश शतानि त्रिंशदधिकानि एषः परिपूर्ण सप्तषष्टिभागात्मको नक्षत्रपर्यायः, एतस्यार्धे नव शतानि पञ्चदशोत्तराणि तेभ्य एकविंशतिरभिजितः सम्बन्धिनी शुद्धा शेषाणि तिष्ठन्ति अष्टौ शतानि चतुर्नवत्यधिकानि तेषां सप्तषष्ट्या भागो हियते, लब्धास्त्रयोदश, शेषास्तिष्ठन्ति त्रयोविंशति, त्रयोदशभिश्च पुनर्वस्वन्तानि नक्षत्राणि शुद्धानि, ये च शेषास्तिष्ठन्ति त्रयोविंशतिर्भागास्ते मुहूर्त्तकरणार्थं त्रिंशता गुण्यन्ते, जातानि षट् शतानि नवत्यधिकानि तेषां सप्तषष्ट्या भागो हियते लब्धा दश मुहूर्ताः, शेषास्तिष्ठन्ति विंशति, सा द्वाषष्टिभागकरणार्थं द्वाषष्ट्या गुण्यते, जातानि द्वादश शतानि चत्वारिंशदधिकानि तेषां सप्तषष्ट्या भागो ह्रियते, लब्धा अष्टादश द्वाषष्टिभागाः, शेषास्तिष्ठन्ति चतुस्त्रिंशत् द्वाषष्टिभागस्य सप्तषष्टिभागाः, तत आगतं पुष्यस्य दशसु मुहूर्तेष्वेकस्य च मुहूर्तस्याष्टादशसु द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य चतुस्त्रिंशति सप्तषष्टिभागेषु गतेषु एकोनविंशतौ च मुहूर्तेष्वेकस्य च मुहूर्तस्य त्रिचत्वारिंशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य त्रयस्त्रिंशति सप्तषष्टिभागेषु शेषेषु प्रथमा श्रावणमास भाविन्याऽऽ वृत्ति प्रवर्त्तते इति । अथ द्वितीयश्रावणमासभाव्यावृत्तिविषयं प्रश्नसूत्रमाह
1
,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org