________________
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १२/- /१०२
पञ्चदशोत्तराणि तेषां चतुस्त्रिंशदधिकेन शतेन भागो हियते लब्धाः षट् शेषमुद्धरति एकादशोत्तरक शतं तस्य द्विकेनापवर्त्तनायां लब्धाः साद्धाः पञ्चपञ्चशत् सप्तषष्टिभागाः आगतं युगादितः षट्सु दिवसेष्यतिक्रान्तेषु सप्तमस्य च दिवसस्य सार्द्धेषु पञ्चपञ्चाशत्सङ्घयेषु सप्तषष्टिभागेषु गतेषु द्वितीयश्चन्द्रतुं परिसमाप्तिं गच्छति, द्वयुत्तरचतुः शततमर्त्तुजिज्ञासायां स एव ध्रुवराशि पञ्चोत्तरशतन्त्रयप्रमाणोऽष्टभि शतैस्त्रयुत्तरैर्गुण्यते-द्वयुत्तरवृद्धया द्वयुत्तरवृद्धया हि द्वयुत्तरचतुःशततमस्य त्रयुत्तराष्टशतप्रमाण एव राशिर्भवति, तथाहि
२२८
यस्य एकस्मादूर्ध द्वयुत्तरवृद्धया राशिश्चिन्त्यते तस्य द्विगुणो रूपोनो भवति यथा द्विकस्य त्रीणि त्रिकस्य पञ्च चतुष्कस्य सप्त, अत्रापि द्वयुत्तरचतुः शतप्रमाणस्य राशेद्वर्युत्तरवृद्धया राशिश्चिन्त्यते ततोऽष्टौ शतानि त्र्युत्तराणि भवन्ति, एवंभूतेन च राशिना गुणने जाते द्वे लक्षे चतुश्चत्वारिंशत्सहस्राणि नव शतानि पञ्चदशोत्तराणि तेषां चतुस्त्रिंशेन शतेन भागो हियते लब्धान्यष्टा- दश शतानि सप्तविंशत्यधिकानि अंशाश्चोद्धरन्ति सप्तनवति तस्या द्विकेनापवर्त्तना लब्धाः सार्द्धा अष्टाचत्वारिंशत्सप्तषष्टिभागाः । आगतं युगादितोऽष्टादशसु दिवसशतेषु सप्तविंशत्यधिकेष्यतिक्रान्तेषु ततः परस्य च दिवसस्य सार्द्धेष्वाचत्वारिंशत्सयेषु सप्तषष्टिभागेषु गतेषु द्वयुत्तरचतुः शततमस्य चन्द्रतः परिसमाप्तिरिति ।
एतेषु च चन्द्रर्तुथु चन्द्रनक्षत्रयोगपरिज्ञानार्थं एष पूर्वाचार्योपदेशः । 119 11 “सो चेव धुवो रासी गुणरासीवि अ हवंति ते चेव ! नक्खत्तसोहणाणि अ परिजाणसु पुव्वभणियाणि ।।”
7
अस्या गाथाया व्याख्या - चन्द्रर्त्तीनां चन्द्रनक्षत्रयोगार्थं स एव पञ्चोत्तरशतत्रयप्रमाणी ध्रुवराशिर्वेदितव्यः, गुणराशयोऽपि गुणकारराशयोऽपि एकादिका द्वयुत्तरवृद्धास्तएव भवन्ति ज्ञातव्या ये पूर्वमुपदिष्टा नक्षत्रशोधनान्यपि च परिजानीहि तान्येव यानि पूर्वभणितानि द्वाचत्वारिंशप्रभृतीनि ततः पूर्वप्रकारेण विवक्षिते चन्द्रर्ती नियतो नक्षत्रयोग आगच्छति, तत्र प्रथमे चन्द्रर्ती कश्चन्द्रनक्षत्रयोग इति जिज्ञासायां स एव पञ्चोत्तरशतत्रयप्रमाणो ध्रुवराशिर्धियते स एकेन गुण्यते एकेन च गुणितः सन् तावानेव भवति ततोऽभिजितो द्वाचत्वारिंशत् शुद्धा शेषे तिष्ठते द्वे शते त्रिषष्ट्यधिके तञ्चतुस्त्रशेन शतेन श्रवणः शुद्धः स्थितं पश्चादेकोनत्रिंशतं शतं तस्य द्विकेनापवर्त्तना जाता सार्द्धाश्चिटुःषष्टि सप्तषष्टिभागाः आगतं धनिष्ठायाः सार्द्धाः चतुःषष्टिं सप्तषष्टिभागानवगाह्य चन्द्रः प्रथमं स्वमृतुं परिसमापयति ।
द्वितीयचन्द्रर्तुजिज्ञासायां स एव ध्रुवराशि पञ्चोत्तरशतत्रयप्रमाणस्त्रिभिर्गुण्यते जातानि नव शतानि पञ्चदशोत्तराणि तत्राभिजितो द्वाचत्वारिंशत् शुद्धा स्थितानि शेषाणि अष्टौ शतानि त्रिसप्तत्यधिकानि ततश्चतुस्त्रशदधिकेन शतेन श्रवणः शुद्धिमुपगतः स्थितानि शेषाणि सप्त शतान्येकोनचत्वारिंशदधिकानि ततोऽपि चतुस्त्रिंशेन शतेन धनिष्ठा शुद्धा जातानि षट् शतानि पञ्चोत्तराणि ततोऽपि सप्तषष्ट्या शतभिषक् शुद्धा स्थितानि पश्चात्पश्च शतान्यष्टात्रिंशदधिकानि एतेभ्योऽपि चतुस्त्रिंशेन शतेन पूर्व भद्रपदा शुद्धा स्थितानि चतुरधिकनि चत्वारि शतानि तेभ्योऽपि द्वाभ्यां शताभ्यामेकोत्तराभ्यामुत्तरभद्रपदा शुद्धा स्थिते शेषे द्वे शते त्र्युत्तरे ताभ्यामपि चतुस्त्रिंशेन शतेन रेवती शुद्धा स्थिता पश्चादेकोनसप्तति आगतमश्विनीनक्षत्रस्यैकोनसप्ततिं चतुस्त्रिंशदधिक
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International
,