________________
प्राभृतं १२, प्राभृतप्राभृतं -
२२७
विवक्षितात् दिनात् प्रागतिक्रन्तास्तास्तत्र सङिप्क्षयन्ते, ततो द्वाषष्टिभागैः- द्वाषष्टिभाग- निष्पन्नरवमरात्रैः परिहीनं विधेयम्, तत एवंभूतं सच्चतुस्त्रिंशेन शतेनाभिहतं-गुणितं कर्त्तव्यम्, तदनन्तरं च पञ्चोत्तरैस्त्रिभि शतैः संयुक्तं सत् षड्मिर्द्रशोत्तरैः शतैर्विभजेत्, विभक्ते सति ये लब्धा अङ्कास्तेऋतवो विज्ञातव्याः । एष करणगाषाद्वयाक्षरार्थ, सम्प्रति करणभावना क्रियते, कोऽपि पृच्छतियुगादितः प्रथमे पर्वणि पञ्चम्यां कश्चन्द्रतुर्वर्त्तते इति, तत्रैकमपि पर्व परिपूर्णमत्र नाद्याप्यभूदिति युगादितो दिवसा रूपोना ध्रियन्ते, ते च चत्वारस्ततस्ते चतुस्त्रिंशदधिकेन शतेन गुण्यन्ते जातानि पञ्च शतानि षट्त्रिंशदधिकानि ततः भूयस्त्रिणि शतानि पञ्चोत्तराणि प्रक्षिप्यन्ते जातान्यष्टौ शतान्येकचत्वारिंशदधिकानि तेषां षड्भिः शतैर्दशोत्तरैर्भागो हियते लब्धः प्रथम ऋतुः अंशा उद्धरन्ति द्वे शते एकत्रिंशदधिके तेषां चतुस्त्रिंशेन शतेन भागहरणं लब्ध एकः, अंशानां चतुस्त्रिंशेन शतेन भागो हियते यल्लभ्यते ते दिवसा ज्ञातव्याः, शेषास्त्वंशा उद्धरन्ति सप्तनवति तेषां द्विकेनापवर्त्तनायां लब्धाः सार्द्धा अष्टाचत्वारिंशत्सप्तषष्टिभागाः आगतं युगादितः पञ्चम्यां प्रथमः प्रावृटलक्षणः ऋतुरतिक्रन्तो द्वितीयस्य ऋतोः एको दिवसो गतो द्वितीयस्य च दिवसस्य सार्द्धा अष्टाचत्वारिंशत् सप्तषष्टिभागाः ।
,
तथा कोऽपि पृच्छति युगादितो द्वितीये पर्वणि एकादश्यां कश्चन्द्रतुरिति, तत्रैकं पर्व अतिक्रन्तमित्येको ध्रियते, स पञ्चदशभिर्गुण्यते जाताः पञ्चदश एकादश्यां किल पृष्टमिति तस्याः पाश्चात्या दश ये दिवसास्ते प्रक्षिप्यन्ते जाताः पञ्चविंशति सा चतुस्त्रिंशेन शतेन गुण्यते जातानि त्रयस्त्रिंशच्छतानि पञ्चाशदधिकानि तेषु त्रीणि शतानि पञ्चोत्तराणि प्रक्षिप्यन्ते जातानि षट्त्रिंशच्छतानि पञ्चपञ्चाशदधिकानि तेषां षड्भिः शतैर्दशोत्तरैर्भागो ह्रियते लब्धाः पञ्च अंशा अवतिष्ठन्ते षट् शतानि पञ्चोत्तराणि तेषां चतुस्त्रिशेन शतेन भागे हृते लब्धाश्चत्वारो दिवसाः शेषास्त्वंशा उद्धरन्ति एकोनसप्तति तस्या द्विकेनापवर्त्तनायां लब्धाः सार्द्धाश्चितुस्त्रिंशत्सप्तषष्टिभागाः, एतमन्यस्मिन्नपि दिवसे चन्द्रतुरवगन्तव्यः ।
सम्प्रति चन्द्रर्त्तुपरिसमाप्तिदिवसानयनाय यत्पूर्वाचार्यै करणमुक्तं तदभिधीयते"पुव्वंपिव धुवरासी गुणिए भइए सगेण छेएणं ।
119 11
जं लद्धं सो दिवसो सोमस्स उऊ समत्तीए ॥"
अस्या व्याख्या - इह यः पूर्वं सूर्यर्त्तुप्रतिपादने ध्रुवराशिरभिहितः पञ्चोत्तराणि त्रीणि शतानि चतुस्त्रिंशदधिकशतभागानां तस्मिन् पूर्वमिव गुणिते, किमुक्तं भवति ? - ईप्सितेन एकादिना द्वयुत्तरचतुःशततमपर्यन्तेन द्व्युत्तरवृद्धेन एकस्मादारभ्य तत ऊर्ध्वं द्वयुत्तरवृद्धया प्रवर्द्धमानेन गुणिते स्वकेन - आत्मीयेन छेदेन चतुस्त्रिंशदधिकशतरूपेण भक्ते सति यल्लब्धं स सोमस्य - चन्द्रस्य ऋतोः समाप्तौ वेदितव्यः, यथा केनापि पृष्टं चन्द्रस्य ऋतुः प्रथमः कस्यां तिथौ परिसमाप्तिं गत इति, तत्र ध्रुवराशि पञ्चोत्तरशतत्रयप्रमाणो ध्रियते स एकेन गुण्यते जातस्तावानेव ध्रुवराशि तस्य स्वकीयेन चतुस्त्रिंशदधिकशतप्रमाणेन छेदेन भागो हियते, लब्धौ द्वौ शेषास्तिष्ठति सप्तत्रिंशत् तस्याद्विकेनापवर्त्तनाजाताः सार्द्धाष्टादश सप्तषष्टिभागाः आगतं युगादितो द्वौ दिवसौ तृतीयस्य च दिवसस्य सार्द्धान् अष्टादश सप्तषष्टिभागानतिक्रम्य प्रथमश्चन्द्रतुं परिसमाप्तिमुपयाति, द्वितीयश्चन्द्रतुजिज्ञासायां स ध्रुवराशि पश्चोत्तरशतत्रयप्रमाणस्त्रिभिर्गुण्यते, जातानि नव शतानि
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International