________________
२२२
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १२/- १०२ येनिष्पन्नाअवमरानास्तेऽथुपचारातद्वाषष्टिभागास्तैः परिहीनं पर्वसङ्ख्यानं कर्त्तव्यं, ततो 'दुगुणे'ति द्वाभ्यां गुण्यते, गुणयित्वा च एकषष्ट्या युतं क्रियते, ततो द्वाविंशेन शतेन भाजिते सति यल्लब्धं तस्य षड्भिागे हृते यच्छेषं स ऋतुरनन्तरातीतो भवति, येऽपि चांशाः शेषा उद्धरितास्तेषां द्वाभ्यां भागेहते यल्लब्धं ते दिवसाः प्रवर्त्तमानस्य ऋतोतिव्याः, एष करणगाथाक्षरार्थः ।
सम्प्रतिकरणभावना क्रियते,तत्रयुगेप्रथमेदीपोत्सवे केनापिपृष्टं-कःसूर्यर्तुरनन्तरमतीतः को वा सम्प्रति वर्तते ?, तत्र युगादितः सप्त पर्वाण्यभिक्रान्तानीति सप्त ध्रियंते, तानि पञ्चदश भिर्गुण्यन्ते, जातं पञ्चोत्तरं शतं, एतावति च काले द्वाववमरात्रावभूतामिति द्वौ ततः पात्येते, स्थितं पश्चाव्युत्तरंशतं, तत्द्वाभ्यां गुण्यते, जाते द्वे शतेषडुत्तरे, तत्रैकषष्टिः प्रक्षिप्यते, जाते द्वे सते सप्तषष्ट्यधिके , तयोविंशेन शतेन भागो हियते, लब्धौ द्वौ, तौ षड्भिर्भागं न सहेते इति न तयोः षड्भिर्भागहारः, शेषास्त्वंशा उद्धरन्ति त्रयोविंशतिः, तेषामढे जाता एकादश अर्द्धच, सूर्यश्चिाषाढादिकस्ततः आगतं- द्वावृतू अतिक्रान्तौ तृत्तीयश्च ऋतुः सम्प्रति वर्तते, तस्य च प्रवर्त्तमानस्य एकादश दिवसा अतिक्रान्ता द्वादशो वर्तते इति।
तथा युगे प्रथमायामक्षयतृतीयायां केनापि पृष्टं-के ऋतवः पूर्वमतिक्रान्ताः ? को वा सम्प्रति वर्तते?, तत्र प्रथमाया अक्षयतृतीयायाःप्राक युगस्यादित आरभ्य पण्यितिक्रान्तानि एकोनविंशति, ततः एकोनविंशतिधृत्वा पञ्चदशभिर्गुण्यते, जाते द्वे शते पञ्चाशीत्यधिके. अक्षयतृतीयायांकिल पृष्ठमिति पर्वणामुपरितिमस्तिथयः प्रक्षिप्यन्ते, जातेद्वेशते अष्टाशीत्यधिके, तावति च काले अवमरात्राः पञ्च भवन्ति, ततः पञ्च पात्यन्ते, जाते द्वे शते त्र्यशीत्यधिके, ते द्वाभ्यांगुण्येते, जातानि पञ्चशतानिषषष्ट्यधिकानि, तान्येकषष्टिसहितानि क्रियन्ते, जातानि षट्शतानि सप्तविंशत्यधिकानि, तेषां द्वाविंशेन शतेन भागहरणं, लब्धाः पञ्च, तेच षड्भिर्भागं न सहन्ते इति न तेषां षड्भिर्भागहारः, शेषास्त्वंशा उद्धरन्ति सप्तदश, तेषामढे जाताः सार्धा अष्टौ, आगतं-पञ्च ऋतवोऽतिक्रान्ताः षष्ठस्य च ऋतोः प्रवर्त्तमानस्याष्टौ दिवसा गता नवमो वर्तते, तथा युगे द्वितीये दीपोत्सवे केनापि पृष्टं
कियन्त ऋतवोऽतिक्रान्ताः, को वा सम्प्रति वर्त्तते ?, तत्रैतावति काले पर्वाण्यतिक्रान्तान्येकत्रिंशत्, तानि पञ्चदशभिर्गुण्यन्ते, जातानि चत्वारि शतानि पञ्चषष्ट्यधिकानि, अक्मरावाश्चैतावति काले व्यत्यक्रामन्नष्टी, ततोऽटौ पात्यन्ते, स्थितानि शेषाणि चत्वारिशतानि सप्तपञ्चाशदधिकानि , तानि द्विगुणीक्रियन्ते, जातानि नव शतानि चतुर्दशोत्तराणि, तेवक पष्टिापे जातानि पञ्चसप्तत्यधिकानि नव शतानि , तेषां द्वाविंशेन शतेन भागो ह्रियते, लब्धाः सप्त, उपरिष्टादंशा उद्धरन्ति एकविंशं शतं, तस्य द्वाभ्यां भागे हृते लब्धाः षष्टि सार्द्धाः, सप्तानां च ऋतूनां षड्भिर्भागे हृते लब्ध एक एकः उपरियत्तिष्ठति, आगतं-एकः संवत्सरोऽतिकान्त एकस्य च संवत्सरस्योपरि प्रथम ऋतुः प्रावृड्नामाऽतिगतो, द्वितीयस्य च षष्टिर्दिनान्यतिक्रान्तानि,एकषष्टितमं वर्तते इति, एवमन्यत्रापि भावना कार्या।
अर्थतेषां ऋतूनांमध्येक ऋतुः कस्यांतिथौ समाप्तिमुपयातीति परस्य प्रश्नावकाशमाशङ्कय तत्परिज्ञानाय पूर्वाचार्यैरिदं करणमभाणि॥१॥ “इच्छाउऊ विगुणिओ रूवूणो विगुणिओ उपव्वाणि ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org