SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ प्राभृतं १२, प्राभृतप्राभृतं - २२१ चतुष्पञ्चाशदधिकानिपञ्चचमुहूर्ताएकस्य चमुहूर्तस्य पञ्चाशद्वाषष्टिभागा इत्येवंप्रमाणआख्यात इति वदेत्, तबाहोरात्रपरिमाणमुभयनापितावदेकरूपं, येतूपरितना द्वादश द्वाषष्टिभागा रात्रिन्दिवस्व ते मुहूर्त्तकरणार्थं त्रिंशता गुण्यन्ते, जातानि त्रीणि शतानि षट्यधिकानि , तेषां द्वाषष्ट्या भागो हियते, लब्धाः पञ्च मुहूर्ताः, शेषास्तिष्ठन्ति पञ्चाशन्मुहूर्तस्य द्वापष्टिभागा इति । तदेवं संवत्सरवक्तव्यता सप्रपञ्चमुक्ता, साम्प्रतं ऋतुवक्तव्यतामाह मू. (१०२) तत्थ खलुइमे छ उडू पं० तं०-पाउसे वरिसारत्ते सरते हेमंते वसंतेगिम्हे, ता सब्वेविणं एते चंदउडू दुवे २ मासाति उप्पन्नेणं २ आदानेणं गणिजमाणा सातिरेगाइं एगूणसहि २ राइंदियाइं राइंदियग्गेणं आहितेति वदेजा। तत्थ खलु इमे छ ओमरत्ता पं० तं०-ततिए पव्वे सत्तमे पव्वे एक्कारसमे पव्वे पन्नरसमे पब्बे एगूणवीसतिमे पच्चे तेवीसतिमे पव्वे । तत्थ खलु इमे छ अतिरत्ता पं० तं०-चउत्थे पव्वे अट्ठमे पव्वे बारसमे पव्वे सोलसमे पब्बे वीसतिमे पव्वे चउवीसतिमे पव्वे । वृ. 'तत्थ खलु'इत्यादि, तत्रास्मिन् मनुष्यलोके प्रतिसूर्यायनं प्रतिचन्द्रायनं च खल्विमे षट् ऋतवः प्रज्ञप्ताः, तद्यथा-प्रावृट्वर्षारात्रः शरत् हेमन्तो वसन्तो ग्रीष्म, इह लोकेऽन्यथाभिधाना ऋतवः प्रसिद्धास्तद्यथा-प्रावृट् शरद् हेमन्तः शिशिरो वसन्तो ग्रीष्मश्चेति, जिनमते तु यथोक्ताभिधाना एव ऋतवः, तथा चोक्तम्॥१॥ “पाउस वासारत्तो सरओ हेमंत वसंत गिम्हो य । एए खलु छप्पि उऊ जिनवरदिट्ठा मए सिठ्ठा ॥" इह ऋतवो द्विधा तद्यथा-सूर्यर्तवश्चन्द्रर्तवश्च, तत्र प्रथमतः सूर्यर्तुवक्तव्यता प्रस्तूयते, तत्रैकैकस्य सूर्यतॊः परिमाणं द्वौ सूर्यमासावेकषष्टिरहोरात्रा इत्यर्थः, एकैकस्य सूर्यमासस्य सार्द्धत्रिंशदहोरात्रप्रमाणत्वात्, उक्तं चैतदन्यत्रापि-- ॥१॥ “वे आइच्चा मासा एगट्ठी ते भवंतहोरत्ता। एयं उउपरिमाणं अवगयमाणा जिना बिति ।।" इह पूर्वाचार्यैरीप्सितसूर्यनियने करणमुक्तं तद्विनेयजनानुग्रहायोपदर्श्यते॥१॥ सूरउउस्साणयणे पव्वं पन्नरससंगुणं नियमा। तहिं संखित्तं संतं वावट्ठीभागपरिहीणं ।। ॥२॥ दुगुणेकट्टीइ जुयं बावीससएण भाइए नियमा। जं लद्धं तस्स पुणो छहिं हियसेसं उऊ होइ ।। ॥१॥ सेसाणं अंसाणं वेहि उ भागेहि तेसिं जंलद्धं । ते दिवसा नायव्वा होति पवत्तस्स अयनस्स ।। आसां व्याख्या-सूर्यस्य-सूर्यसम्वन्धिन ऋतोरानयने पर्व-पर्वसङ्ख्यानं नियमात् पञ्चदशसंगुणंकर्तव्यं, पर्वणां पञ्चदशतिथ्यात्मकत्वात्, इयमत्र भावना-यद्यपि ऋतवः आषाढादिनभवास्तथापियुगप्रवर्तते श्रावणवहुलपक्षप्रतिपद आरभ्य, ततो युगादितः प्रवृत्तानि यानि पर्वाणि तत्सङ्ख्या पञ्चदशगुणा क्रियते, कृत्वाच पर्वणामुपरि या विवक्षितं दिनमभिव्याप्य तिथयस्तास्तत्र सङ्क्षिप्यन्ते इत्यर्थः, ततो वावट्ठीभागपरिहीणंतिप्रत्यहोरात्रमेकैकेन द्वाषष्टिभागेन परिहीयमाणेन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003350
Book TitleAgam Sutra Satik 16 Suryapragnapati UpangSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy