SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ प्रामृतं १०, प्राभृतप्राभृतं -२२ १९५ पाश्चात्ययुगचरमद्वाषष्टितमपौर्णमासीपरिसमाप्तिनिवन्धनात् स्थानात् परतो मण्डलस्य चतुर्विंशत्यधिकशतप्रविभक्तस्य सत्कानां चतुर्नवतिचतुर्नवतिभागानामतिक्रमे तस्याः तस्याः पौर्णमास्याः परिसमाप्ति, ततश्चतुर्नवतियषष्ट्या गुण्यते, जातान्यष्टापञ्चाशच्छतानि अष्टाविंशत्यधिकानि , तेषां चतुर्विंशत्यधिकेन शतेन भागो हियते, लब्धाः सप्तचतवारिंशत्सकलमण्डलपरावर्ताः, नचतैः प्रयोजनं, केवलं राशेर्निर्लेपीभवनादागतंयस्मिनदेशे स्थितः सन् पाश्चात्ययुगसम्बन्धिचरमद्वाषष्टितमपौर्णमासीपरिसमापकस्तस्मिन्नेव देशे विवक्षितस्यापि युगस्य चरमां द्वापरितमां पौर्णमासी परिसमापयतीति, सम्प्रति चरमद्वाषष्टितमपौर्णमासीपरिसमाप्तिनिबन्धनं देशं पृच्छति-‘ता एएसि ण मित्यादि, सुगमं, भगवानाह–'ता जंबुद्दीवस्सण मित्यादि, ता इति पूर्ववत्, जम्बूद्वीपस्य द्वीपस्य प्राचीनापाचीनायतया अत्रापि प्राचीनग्रहणेनोत्तरपूर्वा दिक् गृह्यते अपाची- नग्रहणेन दक्षिणापरा, ततोऽयमर्थ-उत्तरपूर्वदक्षिणापरायतया एवमुदीच्यदक्षिणायतया उत्तरा-परदक्षिणपूर्वायतयाजीवया-दवरिकयामण्डलं चतुर्विंशत्यधिकेन शतेन छित्वाविभज्य भूयश्चतुभिर्भक्त्वा । _ 'पुरथिमिलंसित्ति पूर्वदिग्वर्तिनि चतुर्भागमण्डले एकत्रिंशद्भागप्रमाणे सप्तविंशतिभागानुपादायाष्टाविंशतितमंच भागविंशतिधा छित्वा तद्गतानष्टादशभागानुपादाय शेषैस्त्रिभि गश्चतुर्थस्य च भागस्य द्वाभ्यां कलाभ्यां विंशतितमाभ्यामित्यर्थः दाक्षिणात्यं च चतुर्भागमण्डलमसंप्राप्तः सन् तत्र प्रदेशे स सूर्यश्चरमां द्वाषष्टिं-द्वाषष्टितमां पौर्णमासी परिसमापयति। मू. (९२) ता एएसिणं पंचण्हं संवच्छराणं पढमं अमावासं चंदे कंसि देसंसिजोएति?, ताजंसिणंदेसंसिचंदे चरिमबावडिंअमावासंजोएति ताते अमावासट्टाणाते मंडलं चउव्वीसेणं सतेणं छेत्ता दुबत्तीसं भागे उवादिणावेत्ता एत्थ णं से चंदे पढमं अमावासं जोएति, एवं जेणेव अभिलावेणं चंदस्स पुण्णिमासिणिओ तेणेव अभिलावेणं अमावासाओ भणितव्वाओ बीइया ततिया दुवालसमी । एवं खलु एतेणुवाएणं ताते २ अमावासाठाणाते मंडलं चउब्बीसेणं सतेणं छेत्ता दुवीसं २ भागे उवादिणावेत्ता तंसि २ देसंसितं तं अमावासं चंदेण जोएति। ता एतेसिणं पंचण्हं संवच्छराणं चरमंअमावासं चंदे कसि देसंसि जोएति? ता जंसिणं देसंसि चंदे चरिमं बावडिं पुण्णिमासिणि जोएति, ताते पुणिमासिणिद्वाणाए मंडलं चउव्वीसेणं सतेणं छत्तीसोलसभागे उक्कोवइत्ता एत्थणं से चंदे चरिमं बावडिं अमावासंजोएति। वृ. तदेवं सूर्याचन्द्रमसोः पौर्णमासीपरिसमाप्तिदेश उक्तः, सम्प्रति तयोरेवामावास्यापरिसमाप्तिदेशं प्रतिपिपादयिषुः प्रथमतः चन्द्रविषयं प्रश्नसूत्रमाह-'ता एएसि ण'मित्यादि, तत्र युगे एतेषमामनन्तरोदितानां पञ्चानां संवत्सराणां मध्ये प्रथमाममावास्यां चन्द्रः कस्मिन् देशे स्थितः परिसमापयति ?, भगवानाह- 'ता जंसि णमित्यादि, तत्र यस्मिन् देशे स्थितः सन् चन्द्रश्चरमांद्वाषष्टिं-द्वाषष्टितमामवास्यांपरिसमापयति, ततोऽमावास्यास्थानाद्-अमावास्यापरिसमाप्तिस्थानात्परतो मण्डलं चतुर्विंशत्यधिकेनशतेन छित्वा तद्गतान् द्वात्रिंशतं भागान् उपादायात्र प्रदेशे स चन्द्रः प्रथमा- ममावास्यां परिसमापयति ‘एव'मित्यादि, एवमुक्तेन प्रकारेण येनैवाभिलापेन चन्द्रस्य पौर्णमास्यो भणितास्तेनैवाभिलापेनामावास्याअपि भणितव्याः, तद्यथा-द्वितीया तृतीया द्वादशीच, ताश्चैवम्-'ता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003350
Book TitleAgam Sutra Satik 16 Suryapragnapati UpangSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy