SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १९४ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/२२ / ९१ चउवीसेणं सतेण छेत्ता चउणउतिं २ भागे उवातिणावेत्ता तंसि णं २ देसंसि तं तं पुण्णिमासिणि सूरे जोएति । ता एतेसि णं पंचण्हं संवच्छराणं चरिमं बावट्ठि पुण्णिमासिणि सूरे कंसि देसंसि जोएति ता जंबुद्दीवस्स णं पाईणपडिणीयताए उदीणदाहिणायताए जीवाए मंडलं चउव्वीसेणं सएणं छेत्ता पुरच्छिमिल्लेसि चउभागमंडलंसि सत्तावीसं भागे उवातिणावेत्ता अट्ठावीसतिभागं वीसधा छेत्ता अट्टारसभागे उवादिणावेत्ता तिहिं भागेहिं दोहि य कलाहिं दाहिणिल्लं चउभागमंडलं असंपत्ते एत्थ णं सूरे चरिमं बावट्ठि पुण्णिमं जोएति । वृ. 'ता एएसि ण' मित्यादि, ता इति तत्र युगे एतेषामन्तरोदितानां संवत्सराणां मध्ये प्रथमां पौर्णमासी सूर्य कस्मिन् देशे स्थितः सन् युनक्ति-परिसमापयति ?, भगवानाह - 'ता जंसि णमित्यादि, तत्र यस्मिन् देशे स्थितः सन् सूर्यश्चरमां-पाश्चात्ययुगवर्त्तिनीं द्वाषष्टितमां पौर्णमासीं युनक्ति-परिसमापयति तस्मात् पौर्णमासीस्थानात् चरमद्वाषष्टितमपौर्णमासीपरिसमाप्तिनिबन्धनात् स्थानात् परतो मण्डलं चतुर्विंशत्यधिकेन शतेन छित्वा - विभज्य तद्गतान् चतुर्नवतिं भागान् उपादाय सूर्य प्रथमां पौर्णमासीं परिसमापयति, किमत्र कारणमिति चेत्, उच्यते, इह परिपूर्णेषु त्रिंशदहोरात्रेषु परिसमाप्तेषु सत्सु स एव सूर्यस्तस्मिन्नेव देशे वर्तमानः प्राप्यते, कतिपयभागन्यूनेषु, पौर्णमासी च चन्द्रमासपर्यन्ते परिसमाप्तिमुपैति, चन्द्रमासस्य च परिमाणेकोनत्रिंशदहोरात्रा एकस्य चाहोरात्रस्य द्वात्रिंशद् द्वाषष्टिभागास्ततस्त्रशत्तमेऽहोरात्रे द्वात्रिंशति द्वाषष्टिभागेषु गतेषु सूर्यश्चरमद्वाषष्टितमात् पौर्णमासीपरिसमाप्तिनिबन्धनात् स्थानात् चतुर्नवतौ चतुर्विंशत्यधिकशतभागेष्वतिक्रान्तेषु प्रथमां पौर्णमासीं परिसमापयन्नवाप्यते, किमुक्तं भवति त्रिंशता भागैस्तमेव देशमप्राप्तः सन्नवाप्यते इति, त्रिंशतो द्वाषष्टिभागानामहोरात्रसत्कानामद्यापि स्थितत्वात्, भूयः प्रश्नयति न 'ता एएसिणमित्यादि, ता इति तत्र युगे एतेषां पञ्चानां संवत्सराणां मध्ये द्वितीयां पौर्णमासी सूर्य कस्मिन् देशे स्थितः सन् युनक्ति - परिसमापयति ?, भगवानाह - 'ता जंसि ण' मित्यादि, ता इति तत्र यस्मिन् देशे स्थितः सन् सूर्य प्रथमां पौर्णमासीं परिसमापयति तस्मात् पौर्णमासीस्थानात्प्रथमात् पौर्णमासीपरिसमाप्तिनिबन्धनात् स्थानात् परतो मण्डलं चतुर्विंशत्यधिकेन शतेन छित्वा तद्गतान् चतुर्नवतिभागान् उपादाय अत्र देशे स्थितः सन् सूर्यो द्वितीयां पौर्णमासीं परिसमापयति एवं तृतीयपौर्णमासीविषयमपि सूत्रं कर्तव्यं, एवं दवादशपौर्णमासीविषयमपि, नवरं 'अट्ठछत्ताले भागसए' त्ति तृतीयस्याः पौर्णमास्याः परतो द्वादशी किल पौर्णमासी नवमी, ततश्रुर्नवतिर्नचभिर्गुण्यते, जातान्यष्टौ शतानि षट्चत्वारिंशदधिकानि, सम्प्रति शेषपौर्णमासीविषयमति देशमाह'एवं खलु' इत्यादि, एवमुक्तेन प्रकारेण खलुनिश्चितमेतेनानन्तरोदितेनोपायेन यां यां पौर्णमासीं यत्र यत्र देशे परिसमापयति तस्यास्तस्याः पौर्णमास्यास्तां तामनन्तरामनन्तरां पौर्णमासीं तस्मात् तस्मात् पाश्चात्यपाश्चात्यपौर्णमासीपरिसमाप्तिनिबन्धनात् स्थानात् मण्डलं चतुर्विंशत्यधिकेन शतेन छित्वा परतस्तद्गतान् चतुर्नवतिभागानुपादाय तस्मिन् तस्मिन् देशे स्थितः सन् सूर्य परिसमापयति, स चैवं परिसमापयन् तावद् वेदितव्यो यावत् भूयोऽपि चरमां द्वाषष्टिं - द्वाषष्टितां पौर्णमासीं तस्मिन् देशे परिसमापयति यस्मिन् देशे पाश्चात्ययुगसम्बन्धिनीं चरमां द्वाषष्टितमां पौर्णमासी परिसमापितवान् एतच्चावसीयते गणितक्रमवशात्, तथाहि For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003350
Book TitleAgam Sutra Satik 16 Suryapragnapati UpangSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy