________________
प्राभृतं १०, प्राभृतप्राभृतं - २२
१९१
युङ्क्तः - परिसमापयतः, नो चैव पौर्णमासी, अथ कथमेतदवसीयते, यथा युगे युग चतुश्चत्वारिंशत्तमा २ ममावास्यां सदैव प्रातः समये अभिजिन्नक्षत्रं चन्द्रेण सार्द्धं योगमुपागम्य परिसमापयतीति ?, उच्यते, पूर्वाचार्योपदर्शितकरणवशात्, तथाहि - तिथ्यानयनार्थं तावत्करणमिदं
119 11
'तिहिरासिमेव बावट्टिभाइया सेसमेगसट्ठिगुणणं च । बावीए विभत्तं सेसा अंसा तिहिसमत्ती ।।'
अस्या अक्षरगमनिका -ये युगमध्ये चन्द्रमासा अतिक्रान्तास्ते तिथि राश्यानयनार्थं त्रिंशता गुण्यन्ते, गुणयित्वा च तस्य राशेर्भागो द्वाषष्ट्या हियते, हृते च भागे यदवतिष्ठते तस्मिन्नेकषष्ट्या गुणत्वाद्वायाविभक्ते ये अंशा उद्धरन्ति सा विवक्षिते दिने विवक्षिततिथिपरिसमाप्ति, ततश्चतुश्चत्वारिंशत्तमायाममावास्यायां चिन्त्यमानायां त्रिचत्वारिंशचन्द्रमासा एकं च चन्द्रमासस्य पर्वावाप्यते, ततस्त्रचत्वारिंशत्रिशता गुण्यन्ते, जातानि द्वादश शतानि नवत्यधिकानि तत उपरितनाः पर्वगताः पञ्चदश प्रक्षिप्यन्ते, जातानि त्रयोदश शतानि पञ्चोत्तराणि तेषां द्वाषष्ट्या भागो हियते लब्धा एकविंशति, सा त्यज्यते, शेषास्तिष्ठन्ति त्रयः, ते एकषष्ट्या गुण्यन्ते, जातं त्र्यशीत्यधिकं शतं, तस्य द्वाषष्ट्या भागे ह्वते लब्धौ द्वौ तौ त्यक्तौ, शेषा तिष्ठत्येकोनषष्टि, आगतमेकोनषष्टिद्वषष्टिभागास्तस्मिन् दिनेऽमावास्या ।
J
,
अमावास्यासु पौर्णमासीषु च नक्षत्रानयनार्थं प्रागुक्तमेव करणं, तत्र ध्रुवराशि, षट्षष्टिर्मुहूर्ता एकस्य च मुहूर्त्तस्य पञ्च द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य एकः सप्तषष्टिभागः तत्र चतुश्चत्वारिंशत्तमा अमावास्या चिन्तयितुमारब्धा, ततश्चतुश्चत्वारिंशता स गुण्यते, जातानि मुहूर्तानामेकोनत्रिंशच्छतानि चतुरुत्तराणि एकस्यच मुहूर्त्तस्य द्वाषष्टिभागानां द्वे शते विंशत्यधिके एकस्य च द्वाषष्टिभागस्य चतुश्चत्वारिंशत्सप्तषष्टिभागाः, तत्र पुनर्वसुप्रभृतिकमुत्तराषाढापर्यन्तं चत्वारि शतानि द्विचत्वारिंशदधिकानि मुहर्त्तानामेकस्य च मुहूर्त्तस्य षट्चत्वारिंशद् द्वाषष्टिभागाः इत्येवंप्रमाणं शोध्यते । जातानि मुहूर्त्तानां चतुर्विंशति शतानि द्वाषष्ट्यधिकानि एकस्य च मुहूर्तस्य चतुःसप्तत्यधिकं शतं द्वाषष्टिभागानां, ततोऽभिजिदादिसकलनक्षत्रमण्डलशोधनकमष्टौ शतानि एकोनविंशत्यधिकानि एकस्य च मुहूर्त्तस्य चतुर्विंशतिद्वषष्टिभागा एकस्य च द्वाषष्टिभागस्य षट्षष्टि सप्तषष्टिभागाः इत्येवंप्रमाणं यावत्सम्भवं शोधनीयं तत्र त्रिगुणमपि शुद्धिमासादयतीति त्रिगुणं कृत्वा शोध्यते, स्थिताः पश्चात् षण्मुहूर्त्ता एकस्य च मुहूर्त्तस्य सप्तत्रिंशत् द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य सप्तचत्वारिंशत्सप्तषष्टिभागाः आगतं चतुश्चत्वारिंशत्तमाममा वास्यायामभिजिन्नक्षत्रं षट्सु मुहूर्तेषु सप्तमस्य च मुहूर्त्तस्य सप्तत्रिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य सप्तचत्वारिंशति सप्तषष्टिभागेषु गतेषु परिसमापयति ।
,
सम्प्रत्यमावास्यापौर्णमासीप्रक्रमादेव तत्प्ररूपणां चिकीर्षुरिदमाह
मू. (९०) तत्थ खलु इमाओ बावट्ठि पुण्णिमासिणीओ बावट्ठि अमावासाओ पन्नत्ताओ, ता एएसि णं पंचण्हं संबच्छराणं पढमं पुण्णिमासिणिं चंदं किंसि देसंसि जोएइ ?
ताजंसि णं देसंसि चंदे चरिमं बावट्ठि पुण्णिमासिणि जोएति ताए तेणं पुण्णिमासिणिठ्ठाणातो मंडलं चउव्वीसेणं सतेणं छेत्ता दुबत्तीसं भागे उवातिणावित्ता एत्थ णं से चंदे पढमं पुण्णिमासिणि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org