SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ १७८ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/२०/७७ रोहिणी ४६ सप्तचत्वारिंशत्तमस्य सोमः- सोमदेवोपलक्षितं मृगशिरः ४७ अदितिद्विकमिति अष्टचत्वारिंशत्तमस्यादिति- अदितिदेवोपलक्षितं पुनर्वसुनक्षत्रं ४८ एकोनपञ्चाशत्तमस्यापि पुनर्वसुनक्षत्रं ४९ पञ्चाशत्तमस्य पुष्यः ५०। __एकपञ्चाशत्तमस्य पिता-पितृदेवा मघाः ५१ द्वापञ्चाशत्तमस्य भगो-भगदेवतोपलक्षिताः पूर्वफाल्गन्यः ५२ त्रिपञ्चाशत्तमस्यार्यमा-अर्यमदेवतोपलक्षिता उत्तरफाल्गन्यः५३ चतुःपञ्चाशतमस्य हस्त ५४ अत ऊरय चित्रादीनि अभिजित्पर्यन्तानि ज्येष्ठावर्जान्यष्टौ नक्षत्राणि क्रमेण वक्तव्यानि,तद्यथा-पञ्चपञ्चाशत्तमस्य चित्रा५५ षट्पञ्चाशत्तमस्य स्वाति ५६ सप्तपञ्चाशत्तमस्य विशाखा ५७ अष्टपञ्चाशत्तमस्यअनुराधा ५८ एकोनषष्टितमस्य मूलः ५९,षष्टितमस्यपूर्वाषाढाः ६० एक,षष्टितमस्योत्तराषाढाः ६१ द्वाषष्टितमस्याभिजिदिति ६२, एतानि नक्षत्राणि युगस्य पूर्वार्द्ध द्वाषष्टिसङ्खयेषु पर्वसु यथाक्रमं युक्तानि। एवं करणवशेनयुगस्योत्तरार्द्धऽपि द्वाषष्टिसङ्ख्येषुपर्वसुज्ञातव्यानि । किं पर्व चरमदिवसे कियत्सु मुहूर्तेषु गतेष समाप्तिमियर्तीत्येतद्विषयं यत्करणमभिहितं पूर्वाचार्यैस्तदभिधीयते-- 'चउहिं हियम्मि पव्वे एक्क सेसंमि होइ कलिओगो । बेसु य दावरजुम्मोतिसुतेया चउसु कडजुम्मो । ॥२॥ कलिओगे तेनउई पक्खेवो दावरम्मि बावट्ठी । तेऊए एकतीसा कडजुम्मे नस्थि पक्खेवो॥ ॥३॥ सेसद्धे तीसगुणे दावट्ठी भाइयंमिजं लद्धं. जाणे तइसु मुत्तेसु अहोरत्तस्स तं पव्वं ॥ एतासां क्रमेण व्याख्या-पर्वणि-पर्वराशौ चतुभिर्भक्ते सति यद्येकः शेषो भवति तदास राशि कल्योजो भण्यते द्वयोः शेषयोद्वापरयुग्मस्त्रषु शेषेषु त्रेतौजश्चतुएशेषेषु कृतयुग्मः, 'कलि. ओये त्यादि, तत्र कल्योजोरूपराशौत्रिनवति प्रक्षेपः-प्रक्षेपणीयो राशि, द्वापरयुग्येद्वाषष्टित्रेतौजसि एकत्रिंशत् कृतयुग्मेनास्ति प्रक्षेपः, एवं क्षिप्तप्रक्षेपाण पर्वराशीनांसतांचतुर्विंशत्यधिकेन पर्वशतेन भागो ह्रियते, हृतेच भागेयच्छेषमवतिष्ठते तस्यायं विधि-'सेसद्धे' इत्यादि, शेषश्चतुर्विंशत्यधिकेन शतेन भागे हृते अवशिष्टस्यार्द्ध क्रियते, कृत्वा च त्रिंशता गुण्यते, गुणयित्वा च द्वाषष्ट्या भज्यते, भक्ते सति यल्लब्धं तान् मुहूर्तान् जानीहि, लब्धशेष मुहूर्तभागान्, तत एवं स्वशिष्येभ्यःप्ररूपय, तद्विवक्षितं पर्व चरमे अहोरात्रे सूर्योदयात्तावत्सु मुहूर्तेषु तावत्सु च मुहूर्तभागेषु अतिक्रान्तेषु परिसमाप्तमिति, एष करणगाथाक्षरार्थः। भावना त्वियम्-प्रथमपर्वचरमेऽहोरात्रे कति मुहूर्तानतिक्रम्य समाप्तमिति जिज्ञासायामेको ध्रियते, अयंकिल कल्योजो राशिरित्यत्र त्रिनवति प्रक्षिप्यते, जाताचतुर्नवति, अस्य चतुर्विंशत्यधिकेनशतेन भागोहर्तव्यः, सच भागोन लभ्यते राशेः स्तोकत्वात्, ततो यथासम्भवं करणलक्षणं कर्त्तव्यं, तत्र चतुर्नवतेरर्द्ध क्रियते, जाता सप्तचत्वारिंशत्, सा त्रिंशता गुण्यते, जातानि चतुर्दश शतानि दशोत्तराणि , तेषां द्वाषष्ट्या भागो ह्रियते, लब्धा द्वाविंशतिर्मुहूर्ता, शेषा तिष्ठति षटचत्वारिंशत्, ततश्छेद्यच्छेदकराश्योरर्द्धनापवर्तना, लब्धास्त्रयोविंश-तिरेकत्रिंशद्भागाः, आगतं प्रथमंपर्वचरमेअहोरात्रे द्वाविंशतिंमुहूर्त्तान् एकस्य चमुहूर्तस्य त्रयोविंशतिमेकत्रिंशद्भागानतिक्रम्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003350
Book TitleAgam Sutra Satik 16 Suryapragnapati UpangSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy