________________
प्राभृतं १०, प्राभृतप्राभृत - २०
,
स्थिताः पश्चात् चत्वारो मुहूर्त्ताः आगतं तृतीयं पर्व भाद्रपदामावास्यारूपमुत्तरफाल्गुनीनक्षत्रस्य चतुरो मुहूर्तानिकस्य च मुहूर्त्तस्य षड्विंशति द्वाषष्टिभागान् एकस्य च द्वाषष्टिभागस्य द्वौ सप्तषष्टिभागी भुक्त्वा सूर्य परिसमापयति, एवं शेषपर्वस्वपि सूर्यनक्षत्राणि वेदितव्यानि ।
119 11
तत्र युगपूर्वार्द्धभाविद्वाषष्टिपर्वगतसूर्यनक्षत्रसूचिका इमाः पूर्वाचार्योपदर्शिता गाथाः"सप्पभग अजमदुगं हत्थो चित्ता विसाह मित्तो य । जेट्टाइगं च छक्क अजाभिवुढीदु पूसासा ॥ छक्कं च कत्तियाई पिइभग अजमदुगं च चित्ताय । वाउ विसाहा अणुराह जेङ आउं च वीसदुगं ।। सवण धनिट्टा अजदेव अभिवुड्डी दु अस्स जमबहुला । रोहिणि सोमदिइदुगं पुरसो पिइ भगजमा हत्थो । चित्ता य जिट्टवज्जा अभिई अंताणि अड्ड रिक्खाणि । एए जुगपुव्वद्धे विसट्ठिपव्वेसु रिक्खाणि ॥
॥२॥
॥३॥
॥ ४ ॥
12 12
Jain Education International
१७७
एतासां व्याख्या - प्रथमस्य पर्वणः समाप्तौ सूर्यनक्षत्रं सप्पः सपदेवतोपलक्षिता अश्लेषा १, द्वितीयस्य भगो-भमदेवतोपलक्षिताः पूर्वफाल्गुन्यः २ ततोऽर्यमद्विकमिति तृतीयस्य पर्वणोऽयमदेवतोपलक्षिता उत्तरफाल्गुन्यः ३ चतुर्थस्याप्युत्तरफाल्गुन्यः ४ पञ्चमस्य हस्तः ५ षष्ठस्य चित्रा ६ सप्तमस्य विशाखा ७ अष्टमस्य मित्रो - मित्रदेवतोपलक्षिता अनुराधा ८ ततो ज्येष्ठादिकं षट्कं क्रमेण वक्तव्यम्, तद्यथा - नवमस्य ज्येष्ठा ९ दशमस्य मूलं १० एकादशस्य पूर्वाषाढा ११ द्वादशस्योत्तराषाढा १२ त्रयोदशस्य श्रवणः १३ चतुर्दशस्य धनिष्ठा १४ पञ्चदस्य अज:अजदेवतोपलक्षिताः पूर्वाभद्रपदाः १५ षोडशस्याभिवृद्धिः - अभिवृद्धिदेवतोपलक्षिता उत्तरभद्रपदा १६ सप्तदशस्योत्तरभद्रपदा १७ अष्टादशस्य पुष्यः - पुष्यदेवतोपलक्षिता रेवती १८ एकानविंशतितमस्याश्वः - अश्वदेवतोपलक्षिता अश्विनी १९ षट्कं च कृत्तिकादिकमिति, विंशतितमस्य कृत्तिकाः २० एकविंशतितमस्य रोहिणी २१ द्वाविंशतितमस्य मृगशिरः २२ त्रयोविंशतितमस्यार्द्रा २३ चतुर्विंशतितमस्य पुनर्वसुः २४ पञ्चविंशतितमस्य पुष्यः २५ षड्विंशतितमस्य पितरः- पितृदेवतोपलक्षिता मघाः २६ सप्तविंशतितमस्य भगो-भगदेवतो - पलक्षिताः पूर्वफाल्गुन्यः २७ अष्टाविंशतितमस्यार्यया- अर्यमदेवा उत्तरफाल्गुन्यः २८ एकोनत्रिंशत्त मस्वाप्यत्तरफाल्गुन्यः २९ त्रिंशत्तमस्य चित्रा ३० एकत्रिंशत्तमस्य वायुः - वायुदेवतोपलक्षिता स्वाति ३१ द्वात्रिंशत्तमस्य विशाखा ३२ त्रयस्त्रशत्तमस्यानुराधा ३३ चतुस्त्रिंशत्तमस्य ज्येष्ठा ३४ |
पञ्चत्रिंशत्तमस्य पुनरायुः- आयुर्देवतोपलक्षिताः पूर्वाषाढाः ३५ षट्त्रिंशत्तमस्य विष्वगू देवा उत्तराषाढा ३६ सप्तत्रिंशतमस्याप्युत्तराषाढा ३७ अष्टात्रिंशत्तमस्य श्रवणः ३८ एकोनचत्वारिंशत्तमस्य धनिष्ठा ३९ चत्वारिंशत्तमस्याजः - अजदेवतोपलक्षिता पूर्वभद्रपदा ४० एकचत्वारिंशत्तम - स्याभिवृद्धिः - अभिवृद्धिदेवा उत्तरभाद्रपदाः ४१ द्वाचत्वारिंशत्तमस्याप्युत्तरभाद्रपदा ४२ त्रिचत्वारिंश- त्तमस्याश्वः - अश्वदेवा अश्विनी ४३ चतुश्चत्वारिंशत्तमस्य यमो यमदेवा भरणी ४४ पञ्चचत्वारिंशत्तमस्य बहुलाः - कृत्तिकाः ४५ षट्चत्वारिंशत्तमस्य
For Private & Personal Use Only
—
www.jainelibrary.org