SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ प्राभृतं १०, प्राभृतप्राभृतं -११ १५३ ततः परं नवमं चन्द्रमण्डलं तस्माच्च नवमाञ्चन्द्रमण्डलात् परत एकविंशत्या एकषष्टिभागैरेकस्य च एकषष्टिभागस्य त्रिभिसप्तभागैः सूर्यमण्डलंतत एकोनसप्ततिसक्यैरेकषष्टिभागैरेकस्य च एकषष्टिभागस्य त्रिभि सप्तभागैः परिहीणं यथोक्तप्रमाणं चन्द्रमण्डलान्तरं, तत्र चान्ये द्वादश सूर्यमार्गा, एवंचास्मिन्नप्यन्तरेसर्वसङ्कलनया त्रयोदश सूर्यमार्गा, तस्यचत्रयोदशस्य सूर्यमार्गस्योपरिदशमाञ्चन्द्रमण्डलादर्वाक् अन्तरं षट्पञ्चाशदेकषष्टिभागा एकस्य च एकषष्टिभागस्य एकः सप्तभागः, ततो दशमंचन्द्रमण्डलं, तस्माच्च दशमाचन्द्रमण्डलात्परतो नवभिरेकषष्टिभागैरेकस् चएकषष्टिभागस्य सत्कैः षड्मि सप्तभागैः सूर्यमण्डलं ततः सप्तपञ्चाशता एकषष्टिभागैरेकस्यच एकषष्टिभागस्य सत्कैः षड्मिः सप्तभागैरूनं प्रागुक्तपरिमाणं चन्द्रमण्डलान्तरं, ततो भूयोऽपि द्वादश सूर्यमाई लभ्यन्ते इति तस्मिन्नप्यन्तरे सर्वसङ्कलनया त्रयोदश सूर्यमार्गा, ततस्त्रयोदशस्य सूर्यमार्गस्योपरि एकादशाचन्द्रमण्डलादर्वानन्तरंसप्तषष्टि एकषष्टिभागा एकस्य च एकषष्टिभागस्य सत्काः पञ्च सप्तभागाः, तदेवं पञ्च चन्द्रमण्डलानि षष्ठादीनि दशमपर्यन्तानि सूर्यासम्मिश्राणि, षट्सु च चन्द्रमण्डलान्तरेषु त्रयोदश सूर्यमार्गा इति जातं । सम्प्रत्येतदनन्तरमुच्यते-तत्र एकादशे चन्द्रमण्डले चतुष्पञ्चदशदेकषष्टिभागा एकस्य च एकषष्टिभागस्य सत्कौ द्वौ सप्तभागौ इत्येतावत् सूर्यमण्डलादभ्यन्तरं प्रविष्टं एक एकषष्टिभाग एकस्य च एकषष्टिभागस्य पञ्च सप्तभागाः इत्येतावन्मात्रं सूर्यमण्डलसम्मिश्रं एकादशाच्चन्द्रमण्डलाबहिर्विनिर्गतं सूर्यमण्डलं, षट्चत्वारिंशदेकषष्टिभागा एकस्य च एकषष्टिभागस्य सत्को द्वौ सप्तभागौ तत् एतावता हीनं परतश्चन्द्रमण्डलान्तरमस्तीति द्वादश सूर्यमार्गा लभ्यन्ते, ततः परमेकोनाशीत्या एकषष्टिभागैरेकस्य च एकषष्टिभागस्य सत्काभ्यां द्वाभ्यां सप्तभागाभ्यां द्वादशं चन्द्रमण्डलं, तच्च द्वादशं चन्द्रमण्डलं सूर्यमण्डलादभ्यन्तरं प्रविष्टं द्वाचत्वारिंशतमेकषष्टिभागान् एकस्य च एकषष्टिभागस्य सत्कान् पञ्च सप्तभागान्, शेषं च त्रयोदश एकषष्टिभागा योजनस्य एकस्य च एकषष्टिभागस्य सत्कौ द्वौ सप्तभागी इत्येतावन्मानं सूर्यमण्डलसम्मिश्रं, तस्माच्च द्वादशाच्चन्द्रमण्डलाबहिर्विनिर्गतं सूर्यमण्डलं चतुस्त्रिंशतमेकषष्टिभागान् योजनस्य एकस्य च एकषष्टिभागस्य सत्कान पश्च सप्तभागान, तत एतावन्मात्रेण हीनं परतश्चन्द्रमण्डलान्तरं, तत्र च द्वादश सूर्यमार्गा लभ्यन्ते, द्वादशाच्च सूर्यमार्गात्परतो नवतिसङ्ख्यैरेकषष्टिभागैरेकस्य च एकपष्टिभागस्य सत्कैः षड्भिः सप्तभागैस्त्रयोदशं चन्द्रमण्डलं, तच्च त्रयोदशं चन्द्रमण्डलं सूर्यमण्डलादभ्यन्तरं प्रविष्टं, एकत्रिंशतमेकषष्टिभागान् एकस्य च एकषष्टिभागस्य सत्कमेकं सप्तभागं । तत एतावता हीनं परतश्चन्द्रमण्डलान्तरं, तत्र च द्वादश सूर्यमार्गा, द्वादशाच्च सूर्यमार्गात् परत एकषष्टिभागानां द्वयुत्तरेण शतेन एकस्य च एकषष्टिभागस्य सत्कैस्त्रिभिः सप्तभागैश्चतुर्दशं चन्द्रमण्डलं, तच्च चतुर्दशं चन्द्रमण्डलं सूर्यमण्डदभ्यन्तरं प्रविष्टमेकोनविंशतिमेकषष्टिभागानेकस्य चएकषष्टिभागस्य सत्कान्चतुरः सप्तभागान्,शेषं षट्त्रिंशदेकषष्टिभागाएकस्यच एकषष्टिभागस्य सत्कास्त्रयः सप्तभागा इत्येतावत्परिमाणं सूर्यमण्डलसम्मिश्रं, तस्माचतुर्दशाचन्द्रमण्डलाद् बहिर्विनिर्गतं सूर्यमण्डलमेकादश एकषष्टिभागान् एकस्य च एकषष्टिभाग्य चतुरः सप्तभागान्, तत एतावता हीनं यथोक्तपरिमाणं चन्द्रमण्डलान्तरं, तत्रच द्वादशसूर्यमार्गा, द्वादशाच सूर्यमार्गात् परतः एकषष्टिभागानां चतुर्दशोत्तरेण शतेन पञ्चदशं चन्द्रमण्डलं, तच्च पञ्चदशं चन्द्रमण्डलं For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003350
Book TitleAgam Sutra Satik 16 Suryapragnapati UpangSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy