SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १४२ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/१०/५३ ॥१॥ “पव्वे पन्नरसगुणे तिहि सहिए पोरिसीए आणयणे। छलसीयसयविभत्ते जं लद्धं तं वियाणाहि ।। ॥२॥ जइ होइ विसमलद्धं दक्खिणमयणं ठविज नायव्वं । अह हवइ समं लद्धं नायव्वं उत्तरं अयणं॥ अयणगए तिहिरासी चतुगुणे पव्वपाय भइयव्वं । जंलद्धमंगुलाणिखयवुड्डी पोरुसीए उ॥ ॥४॥ दक्खिणबुड्डी दुपया अंगुलयाणं तु होइ नायव्वा । उत्तर अयणे हामी कायव्वा चउहि पाएहि ।। सावणबहुलपडिवया दुपया पुण पोरिसी धुवा होइ । __ चत्तारि अंगुलाई मासेणं वड्वए तत्तो।। इक्कत्तीसइ भागा तिहिए पुण अंगुलस्स चत्तारि। दक्खिणअयने वुड्डी जाव उचत्तारि उपयाई। ॥७॥ उत्तर अपने हाणी चउहिं पायाहि जाव दो पाया। एवं तु पोरिसीए बुडिखया हुंति नायव्वा ।। ॥८॥ वुड्डी वा हाणी वा जावइया पोरिसीए दिट्ठा उ। तत्तो दिवसगएणं जंलद्धं तं खु अयनगयं ।। एतासांक्रमेण व्याख्या-युगमध्ये यस्मिन् पर्वणि यस्यां तिथौपौरुषीपरिमाणं ज्ञातुमिष्यते ततः पूर्वं युगादित आरभ्य यानि पण्यितिक्रान्तानि तानि ध्रियन्ते, धृत्वा च पञ्चदशभिर्गुण्यन्ते, गुणयित्वा च विवक्षितायास्तिथैर्या प्रागतिक्रन्तास्तिथयस्ताभि सहितानि क्रियन्ते, कृत्वा च षडशीत्यधिकेन शतेन तेषां भागो ह्रियते, इह एकस्मिन्नयने त्र्यशीत्यधिकमण्डलशतपरिमाणे चन्द्रनिष्पादितानां तिथीनां षडशीत्यधिकं शतं भवति, ततस्तेन भागहरणं भागे च हृते यल्लब्ध तद्विजानीहि सम्यगवधारयेत्यर्थः । तत्र यदि लब्धं विषमं भवति यथा एकस्त्रिकः पञ्चकः सप्तको नवको वा तदा तत्पर्यन्तवर्तिं दक्षिणमयनं ज्ञातव्यं, अथ भवति लब्धं समं तद्यथा-द्विकश्चतुष्कः षट्कोऽटको दशको वा तदा तत्पर्यन्तवतिउत्तरयणमवसेयं, तदेवमुक्तो दक्षिणायनोत्तरायणपरिज्ञानोपायः । सम्प्रति षड़- शीत्यधिकेन शतेन भागे हते यच्छेषमवतिष्ठते यदिवा भागासम्भवेन पच्छेषं तिष्ठति तद्गतविधिमाह ___ 'अयनगए' इत्यादि, वः पूर्वंभागे हतेभागासम्भवे वा शेषीभूतोऽयनगतस्तिथिराशिर्वर्त्तते स चतुर्भिर्गुण्यते, गुणयित्वा च पर्वपादेनयुगमध्ये यानि सर्वसङ्ख्या पर्वाणि चतुर्विंशत्यधिकशतसङ्ख्यानि तेषां पादेन-चतुर्थेनांशेन एकत्रिंशता इत्यर्थः, तया भागे हृते यल्लब्धं तान्यकुलानि चकारादङ्गुलांशाश्च पौरुप्याः क्षयवृद्धया ज्ञातव्यानि, दक्षिणायने पदध्रुवराशेरुपरिवृद्धौज्ञातव्यानि, उत्तरायणे पदध्रुवराशेः क्षयेज्ञातव्यानीत्यर्थ, अथैवंभूतस्य गुणकारस्य भागहारस्य वा कथमुत्पत्ति?, उच्यते, यदि षडशीत्यधिकेन तिथिशतेन चतुर्विंशतिरङ्गुलानिक्षये वृद्धौ वा प्राप्यन्ते, तत एकस्यां तिथौका वृद्धि क्षयो वा?, अत्रान्त्येन राशिनाएकलक्षणेन मध्यमो राशिश्चतुर्विंशतिरूपो गुण्यते, जातः स तादानेव, 'एकेन गुणितं तदेव भवतीति वचनात्, तत आद्येन राशिना षडशीत्य Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003350
Book TitleAgam Sutra Satik 16 Suryapragnapati UpangSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy