________________
प्राभृतं १०, प्राभृतप्राभृतं -१०
१४१
तंसि च णं मासंसि वट्टाए समचउरंससंठिताए नग्गोधपरिमंडलाए सकायमणुरंगिणीए छायाए सूरिए अणुपरियकृति, तस्स णं मासस्स चरिमे दिवसे लेहट्ठाइं दो पदाई पोरिसीए भवति ।
वृ. 'ता कहं ते नेता आहियत्तिवएज्जा' 'ता' इति पूर्ववत्, कथं ? - केन प्रकारेण भगवंस्तेत्वया स्वयमस्तंगमनेनाहोरात्रपरिसमापको नक्षत्ररूपो नेता आख्यात इति वदेत् ?, एतदेव प्रतिमासं पिपृच्छिषुराह - 'ता वासाण' मित्यादि, ता इति पूर्ववत् वर्षाणां वर्षाकालस्य चतुर्मासप्रमाणस्य प्रथमं मासं श्रावणलक्षणं कति नक्षत्राणि स्वयमस्तंगमनेनाहोरात्रपरिसमापकतया नयन्ति - गमयन्ति ?, भगवानाह -
'ता चत्तारी' त्यादि, ता इति पूर्ववत्, चत्वारि नक्षत्राणि स्वयमस्तंगमनेनाहोरात्रपरिसमापकतया क्रमेण नयन्ति तद्यथा-उत्तरासाढा अभिजित् श्रवणो धनिष्ठा च तत्रोत्तराषाढा प्रथमान् चतुर्दश अहोरात्रान् स्वयमस्तंगमनेनाहोर्तारपरिसमापकतया नयति, तदनन्तरमभिजिन्नक्षत्रं सप्ताहोरात्रान्नयति, ततः परं श्रवणनक्षत्रमष्टौ अहोरात्रान्नयति एवं च सर्वसङ्कलनया श्रावणमासस्यैकोनत्रिंशदहोरात्रा गताः, ततः परं श्रावणमासस्य सम्बन्धिनं चरममेकमहोरात्रं धनिष्ठानक्षत्रं स्वयमस्तंगमनेनाहोरात्रपरिसमापकतया नयति, एवं चत्वारि नक्षत्राणि श्रावणं मासं नयन्ति ।
‘तरिंस च न’मित्यादि, तस्मिंश्च श्रावणे मासे चतुरङ्गुलपौरुष्या-चतुरङ्गुलाधिकपौरुष्या छायया सूर्योऽनु-प्रतिदिवसं परावर्त्तते, किमुक्तं भवति ? -श्रावणमासे प्रथमादहोरात्रादारभ्य प्रतिदिनमन्यान्यमण्डलसङ्क्रान्त्या तथा कथञ्चनापि परावर्त्तते यथा तस्य श्रावणमासस्य पर्यन्ते चतुरङ्गुलाधिका द्विपदा पौरुषी भवति, तदेवाह - 'तस्स ण' मित्यादि, तस्य श्रावणमासस्य चरमे दिवसे द्वे पदे चत्वारि चाङ्गुलानि पौरुषी भवति । 'ता वासाण' मित्यादि, ता इति पूर्ववत् वर्षाणां वर्षाकालस्य चतुर्मासप्रमाणस्य द्वितीयं भाद्रपदलक्षणं मासं कति नक्षत्राणि नयन्ति ?, अस्य वाक्यस्य भावार्थ प्रागवद्भावनीयः, भगवानाह - 'ता' इत्यादि, ता इति पूर्ववत्, चत्वारि नक्षत्राणि नयन्ति, तद्यथा - धनिष्ठा शतभिषक् पूर्वप्रोष्ठपदा उत्तरप्रोष्ठपदा च, तत्र धनिष्ठा तस्मिन् भाद्रपदे मासे प्रथमान् चतुर्द्दश अहोरात्रान् स्वयमस्तंगमनेनाहोरात्रपरिसमापकतया नयति, तदनन्तरं शतभिषकनक्षत्रं सप्ताहोरात्रान् ततः परमष्टावहोरात्रान् पूर्वप्रोष्ठापदा तदनन्तरमेकमहोरात्रमुत्तरप्रोष्ठपदा, एवमेनं भाद्रपदं मासं चत्वारि नक्षत्राणि नयन्ति ।
'तस्सि चण' मित्यादि, तस्मिंश्च णमिति वाक्यालङ्कारे, मासे भाद्रपदे अष्टाङ्गुलपीरुष्याअष्टाङ्गुलाधिकपौरुष्या छायया सूर्योऽनु-प्रतिदिवसं परावर्तते, अत्राप्ययं भावार्थ-भाद्रपदे मासे प्रथमादहोरात्रादारभ्य प्रतिदिवसमन्यान्यमण्डलसङ्कान्त्या तथा कथमपि परावर्तते यथा तस्य भाद्रपदस्य मासस्यान्ते अष्टाङ्गुलिका पौरुपी भवति, एतदेवाह - 'तस्स णं सुगमं, एवं शेषमासगतान्यपि सूत्राणि भावनीयानि, नवरं 'लेहत्थाई तिन्नि पयाइ न्ति रेखा - पादपर्यन्तवार्त्तिनी सीमा तत्स्थानि त्रीणि पदानि पौरुपी भवति, किमुक्तं भवति ? - परिपूर्णानि त्रीणि पदानि पौरुषी भवति, एषा चतुरङ्गुला प्रतिमासं वृद्धिस्तावदवसेया यावत्पौषो मासः, तदनन्तरं प्रतिमासं चतुरङ्गुला हानिर्वक्तव्या, सा च तावत् यावदाषाढो मासः, तेनाषाढपर्यन्ते द्विपदा पौरुपी भवति, इदं च पौरुषीपरिमाणं व्यवहारत उक्तं निश्चयतः सार्द्धस्त्रिंशता अहोरात्रैश्चतुरङ्गुला वृद्धिर्हानिर्वा वेदितव्या, तथा च निश्चयतः पौरुषीपरिमाणप्रतिपादनार्थमिमाः करणगाथाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org