SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ प्राभृतं १, प्राभृतप्राभृतं - वर्तमान् इति गम्यं, तथा 'न' नैवातिदूरऽतिविप्रकृटोऽनौचित्यपरिहारात्, अथवा नातिदूरे स्थाने ___ -'सुस्सूसमाणे'त्तिभगवद्वचनानि श्रोतुमिच्छन्, 'अभिमुहे'त्तिअभि-भगवन्तंप्रतिमुख्यमस्येत्यभिमुखः 'विनयेणत्ति विनयेन हेतुना पंजलियडे'त्तिप्रकृष्टः-प्रधानोललाटतघटितत्वेन अञ्जलि-हस्तन्यासविशेषः कृतो-विहितोयेन स प्राञ्जलिकृत, भार्योढादेराकृतिगणतया कृतशभ्दस्य परनिपातः, ‘पञ्जुवासेमाणे' इति पर्युपासीनः-सेवमनः, अनेन विशेषणकदम्बकेन श्रवणविधिरुपदर्शितः, उक्तं च॥१॥ “निद्दाविगहापरिवञ्जिएहिं गुत्तेहिं पंजलिउडेहिं । भत्तिबहुमानपुव्वं उवउत्तेहिं सुणेयव्वं ।।" इति, ‘एवं वदाप्ति'त्ति एवं-वक्ष्यमाणेन प्रकारेण सूर्यादिवक्तव्यताविषयं प्रश्नमवादीत्उक्तवान्, कथमुक्तवानिति शिष्यस्य प्रश्नावकाशमाशङ्कय प्रथमतो विंशतौ प्राभृतेषु यद्वक्तव्यं तदुपक्षिपन् गाथापञ्चकमाहमू. (३) कइ मंडलाइ वच्चइ १ तिरिच्छा किं च गच्छइ२। __ओभासइ केवइयं ३ सेयाइ किं ते संठिई ४॥ वृ, प्रथमे प्राभृते सूर्यो वर्षमध्ये कति मण्डलान्येकवारं कति वा मण्डलानि द्विकृत्वो व्रजतीत्येतन्निरूपणीयं, किमुक्तं भवति?-एवं गौतमने प्रश्ने कृतेतदनन्तरं सर्वंतद्विषयंनिर्वचनं प्रथमेप्राभृते वक्तव्यमिति।एवंसर्वत्रापि भावनीयं । द्वितीयेप्राभृते किं कथंवाशब्दः सर्वप्राभृतवक्तव्यतापेक्षया समुच्चये तिर्यग्व्रजतीति २, तृतीये चन्द्रः सूर्यो वा कियत्क्षेत्रमवभासयतिप्रकाशयतीति ३, चतुर्थे श्वेततायाः-प्रकाशस्य 'किं' कथं 'ते' तव मते संस्थिति-व्यवस्थेति ४ मू. (४) कहिं पडिहया लेसा ५, कहिं ते ओयसंठिई ६। के सूरियं वरयते ७, कहं ते उदयसंठिई ८॥ वृ.पञ्चमेकस्मिन् सूर्यस्य प्रतिहता लेश्येति ५, षष्ठे कथं केनप्रकारेण किं सर्वकालमेकरूपावस्थायितया उतान्यथा ओजसः-प्रकाश्य संस्थिति-अवस्थानमिति ६, सप्तमे के पुद्गलाः सूर्यं वरयन्ति-सूर्यलेश्यासंसृष्टा भवन्तीति ७, अष्टमे 'कथं केन प्रकारेण भगवन् ! 'ते' तव मतेन सूर्यस्योदयसंस्थिति ८। मू. (५) कह कहा पोरिसीच्छाया ९, जोगे किंते व आहिए १०॥ किं ते संवच्छरेणादी ११, कइ संवच्छराइ य १२ ॥ वृ. नवमे कतिकाष्ठा-किंप्रमाणापौरुषीच्छाया ९, दशमे योग इति वस्तु किं 'ते' तवया भगवताऽऽख्यातमिति १०, एकादशे कस्ते-तव मतेन संवत्सराणामदारिति ११, द्वादशे कति संवतसरा इति १२। मू. (६) कहं चंदमसो वुड्डी १३, कया ते दोसिणा बहू १४/ के सिग्घगई वुत्ते १५, कहं दोसिणलक्खणं १६ ॥ वृत्रयोदशे कथं केन प्रकारेणचन्द्रमसोवृद्धि-वृद्धिप्रतिभासः, उपलक्षणमेतत्तेन वृद्धयवृद्धिप्रतिभास इत्यर्थ १३, चतुर्दशे 'कदा कस्मिन् काले 'ते' तव मतेन चन्द्रमसो ज्योत्स्ना बहुःप्रभूतेति, १४, पञ्चदशे कश्चन्द्रादीनां मध्ये शीघ्रगतिरुक्त इति १५, षोडशे किज्योत्स्नालक्षणमिति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003350
Book TitleAgam Sutra Satik 16 Suryapragnapati UpangSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy