SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ १० सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १-२ साक्षादितिकृत्वा शिष्याचारत्वाच्च श्रमणस्य भगवतो महावीरस्य अदूरसामन्ते विहरतीतित योगः, तत्र दूरं-विप्रकृष्टं सामन्तं--सन्निकृष्टं तत्प्रतिषेधाददूरसमान्तं, तत्र नातिदूरे नातिनिकटे इत्यर्थः, किंविशिष्टः सन् तत्र विहरतीत्यत आह ___-'उदजाणु'त्ति ऊर्ध्वंजानुनीयस्यासौऊर्ध्वजानुः,शुद्धपृथिव्यासनवर्जनादौपग्रहिकनि षद्यायास्तदानीमभावाच उत्कटुकासन इत्यर्थः, अधःशिरा नोर्ध्वं तिर्यग्वा विक्षिप्तष्टि किन्तु नियतभूभागनियमितष्टिरितिभावः, 'झाणकोट्टोवगए'त्तिध्यान-धर्म्य शुक्लं वातदेव कोष्ठःकुशूलो धानकोष्ठस्तमुपगतो ध्यानकोष्ठोपगतो, यथा हि कोष्ठके धान्यं प्रक्षिप्तमविप्रसृतं भवति, एवं भगवानपिध्यानतोऽविप्रकीर्णेन्द्रियान्तःकरणवृत्तिरित्यर्थः । ____ -'संयमेन' पञ्चाश्रवनिरोधादिलक्षणेन तपसा' अनशनादिना, चशब्दोऽत्र समुच्चयार्थो लुप्तोद्रष्टव्यः, संयमतपोग्रहणं चानयोः प्रधानमोक्षाङ्गत्वख्यापनार्थं, प्राधान्यंचसंयमस्य नवकानुपादानहेतुत्वेन तपसश्चपुराणकर्मनिर्जराहेतुत्वेन, तथाहि-अभिनवकर्मानुपादानात् पुराणकर्मक्षपणाच्च जायते सकलकर्मक्षयलक्षणो मोक्षः, ततो भवति संयमतपसोर्मोक्षं प्रति प्राधान्यमिति, 'अप्पाणं भावमाणे विहरइ' इति आत्मानं भावयन्-वासयन् तिष्ठतीत्यर्थः । "ततो णं से' इति ततो-ध्यानकोष्ठोपगतविहरणादनन्तरं, णमिति वाक्यालङ्करार्थ, 'स' भगवान् गौतमो ‘जायसड्डे' इत्यादिजातश्रद्धादिविशेषणःसन् उत्तिष्ठतीतियोगः, तत्र जाताप्रवृत्ता श्रद्धाःइच्छा वक्ष्यमाणार्थतत्वज्ञानंप्रयस्यासौ जातश्रद्धः, तथा जातःसंशयो यस्य सजातसंशयः, संशयो नामानवधारितार्थं ज्ञानं, स चवं भगवतः-इह सूर्यादिवक्तव्यता अन्यथा, अन्यथा च तीर्थान्तरीयैरूपदिश्यते, ततः किं तत्त्वमिति संशयः, तथा 'जायकोऊहल्लेत्ति जातं कुतूहलं यस्यसजातकुतूहलः जातौत्सुक्य इत्यर्थः, यथा कथमेनां सूर्यवक्तव्यतां भगवान् प्रज्ञापष्यितीति, तथा 'उप्पन्नसडे'त्ति उत्पन्ना-प्रागभूता सती भूता श्रद्धा यस्यासौ उत्पन्नश्रद्धः, अथ जातश्रद्ध इत्येतावदेवास्तु किमर्थमुत्पन्नश्रद्ध इत्यभिधीयते?, प्रवृत्तश्रद्धत्वेनोत्पन्नश्रद्धत्वस्य लब्धत्वात्, नह्यनुत्पन्ना श्रद्धाप्रवर्तत इति, अत्रोच्यते, हेतुत्वाप्रदर्शनार्थं, तथाहि-कथं प्रवृत्तश्रद्धः?, उच्यते यत उत्पन्नश्रद्ध इति, हेतुत्वप्रदर्शनं चोपपन्नं, तस्य काव्यालङ्कारत्वात्, यथा 'प्रवृत्तदीपामप्रवृत्तभास्करां, प्रकाशचन्द्रांवुबुधे विभावरी'मित्यत्रयद्यपि प्रवृत्तदीपत्वादेवाप्रवृत्तभास्करत्वमवगतं तथाप्यप्रवृत्तभास्करत्वं प्रवृत्तदीप्तत्वादेर्हेतुतयोपन्यस्तमिति समीचीनं, 'उप्पन्नसड्डे उप्पन्नसंसए' 'उप्पन्नकोउहल्ले' इति प्राग्वत्। -तथा संजायसड्डे' इत्यादि पदषट्कंप्राग्वत्, नवरमिह समशब्दःप्रकर्षादिवचनोवेदितव्यः, तत उट्ठाए उठेइ' इति उत्थानमुत्था ऊर्ध्वं वर्तनंतयाउत्तिष्ठति,इह 'उढेइ' इत्युक्ते क्रियारम्भमात्रमपिप्रतीयते यथावक्तुमुत्तिष्ठते ततस्तदव्यवच्छेदार्थमुत्थयेत्युक्तम्, 'जेणेवे त्यादिप्राकृतशैलीवशादव्ययत्वाच्च येनेति यस्मिन्नित्यर्थे द्रष्टव्यं, यस्मिन् दिग्भागे श्रमणो भगवान् महावीरो वर्तते 'तेणेव त्ति तस्मिन् दिग्भागे उपागच्छति, इह वर्तमानकालनिर्देशस्तत्कालापेक्षया त्रिकृत्वः-त्रीन् वारान् आदक्षिणप्रदक्षिणं करोति, आदक्षिणात्-दक्षिणहस्तादारभ्य प्रदक्षिणः-परितो भ्राम्यतो दक्षिण एव आदक्षिणप्रदक्षिणः तं करोति, कृत्वा वन्दते-स्तौति नमस्यति-कायेन प्रणमति, वन्दित्वा नमस्थित्वा च 'न'नैव अत्यासन्नोऽतिनिकट: अवग्रहपरिहारात्अथवा नात्यासन्नस्थाने Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003350
Book TitleAgam Sutra Satik 16 Suryapragnapati UpangSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy