SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ १२६ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/६/४८ नक्षत्रे युङ्गः, तद्यथा-अश्लेषा मघा च, चशब्दात्काञ्चिन्माघी पौर्णमासी पूर्वफाल्गुनीनक्षत्रं काञ्चित्पुष्यनक्षत्रं च, तद्यथा-प्रथमां माघी पौर्णमांसी मघानक्षत्रमेकादशसु मुहूर्तेषु एकस्य च मुहूत्तस्य एकपञ्चाशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य एकोनषष्टौ सप्तषष्टिभागेषुशेषेषु, द्वितीयांमाघी पौर्णमासीमश्लेषानक्षत्रमष्टसुमुहूर्तेषुएकस्य च मुहूर्तस्यषोडशसुद्वाषष्टिभागेष्वेकस्य घद्वाषष्टिभागस्य षट्चत्वारिंशति सप्तषष्टिभागेषु शेषेषु, तृतीयां माघी पौर्णमासी पूर्वफाल्गुनीनक्षत्रमष्टाविंशतौ मुहूर्तेषु एकस्य च मुहूर्तस्य अष्टाविंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य द्वात्रिंशति सप्तषष्टिभागेषुशेषेषु, चतुर्थी माघी पौर्णमासीं मघानक्षत्रं पञ्चविंशतौ मुहूर्तेषु एकस्य च मुहूर्तस्य त्रिषु द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्यैकोनविंशतौ सप्तषष्टिभागेषु शेषेषु, पञ्चमी माघी पौर्णमासींपुष्यनक्षत्रंषट्सु मुहूर्तेषुएक्सय च मुहूर्तस्य त्रिंशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य षट्सु सप्तषष्टिभागेषु शेषेषु परिसमापयति । ता फग्गुणीन्न'मित्यादि, ता इतिपूर्ववत्फाल्गुनी णमिति वाक्यालङ्कारे पौर्णमासी कति नक्षत्रामियुञ्जन्ति?, भगवानाह-'ता दोन्नी'त्यादि,ता इतिप्राग्वत्, द्वेनक्षत्रे, तद्यथा-पूर्वाफाल्गुनी उत्तरफाल्गुनी च, तत्र प्रथमांफाल्गुनी पौर्णमासीमुत्तराफाल्गुनीनक्षत्रं विंशतौ मुहूर्तेषु एकस्य च मुहूर्तस्य षट्चत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्याप्टापञ्चाशति सप्तषष्टि-भागेषु शेषेषु, द्वितीयांफाल्गुनी पौर्णमासी पूर्वफाल्गुनीनक्षत्रं द्वयोर्मुहूर्तयोरेकस्य चमुहूर्तस्य एकादशसु द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य पञ्चचत्वारिंशति सप्तपष्टिभागेषु शेषेषु, तृतीयां फाल्गुनी पौर्णमासीमुत्तराफाल्गुनीनक्षत्रंसप्तसुमुहूर्तेष्वेकस्य च मुहूर्तस्य त्रयस्त्रशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य एकत्रिंशतिसप्तषष्टिभागेषुशेषेषु, चतुर्थी फाल्गुनी पौर्णमासीमुत्तर-फाल्गुनीनक्षत्रं त्रयस्त्रिंशति मुहूर्तेषु एकस्य च द्वाषष्टिभागस्य एकत्रिंशतिसप्तषष्टिभागेषु शेषेषु, चतुर्थी फाल्गुनी पौर्णमासीमुत्तरफाल्गुनीनक्षत्रं त्रयस्त्रिंशति मुहूर्तेषु एकस्य च मुहूर्तस्य षष्टो द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्याप्टादशसु सप्तषष्टिभागेषु शेषेषु, पञ्चमी फाल्गुनी पौर्णमासी पूर्वफाल्गुनीनक्षत्रं पञ्चदशसु मुहूर्तेष्वेकस्य च मुहूर्तस्य पञ्चविंशतौ द्वाषष्टिसङ्घयेषु भागेष्वेकस्य च द्वाषष्टिभागस्य पञ्चसु सप्तषष्टिभागेषु शेषेषु परिसमापयति। 'ता चित्तिण्णं०' चैत्री पौर्णमासी कति नक्षत्राणि युञ्जन्ति?, भगवानाह, द्वे नक्षत्रेयुङ्काः, तद्यथा--हस्तः चित्रा च, तत्र प्रथमांचैत्रीं पौर्णमासी चित्रानक्षत्रंचतुर्दशसु मुहूर्तेष्वेकस्य च मुहूर्ततस्य एकचत्वारिंशति द्वापष्टिभागेष्वेकस्यचद्वाषष्टिभागस्य सप्तपञ्चाशति सप्तषष्टिभागेषुशेषेषु, द्वितीयां चैत्री पौर्णमासी हस्तनक्षत्रमेकादशसु मुहूर्तेप्वेकस्य च मुहूर्तस्य पट्सु द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य चतुश्चत्वारिंशति सप्तप-ष्टिभागेपुशेषेषु, तृतीयां चैत्री पौर्णमासींचित्रानक्षत्रमेकस्मिन् मुहूर्ते एकस्य च मुहूर्तस्य अष्टाविंशती द्वापष्टिभागेष्वेकस्य च द्वापष्टिभागस्य चत्वारिंशति सप्तपष्टिभागेषु शेपेषु, चतुर्थी चैत्री पौर्णमासी चित्रानक्षत्रं सप्तविंशतौ मुहूर्तेषु एकस्य च मुहूर्तस्य पञ्चपञ्चाशति द्वापष्टिभागेपु एकस्य च द्वापष्टिभागस्य सप्तदशसु सप्तपटिभागेषु शेषेषु, पञ्चमी चैत्री पौर्णमासी हस्तनक्षत्रं चतुर्विंशति मुहूतेष्वेकस्य च मुहूर्तस्य विंशतो द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्व चतुर्यु सप्तषष्टिभागेषु शेषेषु परिणमयति । 'ता वइसाहिन्न' -मित्यादि, ता इति पूर्ववत्, वैशाखीं णमिति वाक्यालङ्कारे पौर्णमासों Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003350
Book TitleAgam Sutra Satik 16 Suryapragnapati UpangSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy