SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ १२४ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/६/४८ द्वाषष्टिभागाः एकस्य च द्वाषष्टिभाग-स्याष्टाविंशति सप्तषष्टिभागाः, आगतं श्रवणनक्षत्रंषड्विंशतौ मुहूर्तेष्वेकस्य च मुहूर्तस्य एकादशसु द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्यैकोनचत्वारिंशति सप्तषष्टिभागेषुशेषेषु तृतीयांश्राविष्टी पौर्णमासी परिसमापयति, एवं चतुर्थी श्राविष्ठी पौर्णमासी धनिष्ठानक्षत्रंषोडशसुमुहूर्तेषुएकस्य च समुहुरूत्तस्य त्रयस्त्रशति द्वाषष्टिभागेष्वेकस्य द्वाषष्टिभागस्य पञ्चविंशतौ सप्तषष्टिभागेपुशेषेषुपरिसमापयति, पञ्चमी श्राविष्ठी पौर्णमासी श्रवणनक्षत्रंद्वादशसु मुहूर्तेषुएकस्य च सुमुहूर्तस्य षष्टिसङ्ख्येषुद्वाषष्टिभागेष्वेकस्य द्वाषटिभागस्यद्वाविंशतौसप्तषटिभागेषु शेषेषु परिसमाप्ति नवतीति। तदेवं यानि नक्षत्राणि थाविष्ठी पौर्णमासींपरिसमापयन्ति तान्युक्तानि, सम्प्रति यानि प्रोष्ठपदी समापयन्तितान्याह-'ता पोट्ठवइन्न'इत्यादि, ता इति पूर्ववत्, प्रोष्ठपदी भाद्रपदीं णमिति वाक्यालङ्कारे पौर्ममासी कति नक्षत्राणि युञ्जन्ति-कति नक्षत्राणि यथायोगं चन्द्रेण सह संयुज्य परिसमापयन्तीत्यर्थः, एवं सर्वत्रापि युञ्जन्तीत्यस्य पदस्य भावना कर्तव्या, भगवानाह 'ता' इत्यादि, 'ता' इति पूर्ववत्, त्रीणि नक्षत्राणियुअन्ति, तद्यथा-शतभिषापूर्वप्रोष्ठपदा उत्तरप्रोष्ठपदाच, तत्र प्रथमांप्रोष्ठपदी पौर्णमासीमुत्तरभद्रपदानक्षत्रं सप्तविंशतौ मुहूर्तेषु एकस्य च मुहूर्तस्य चतुर्दशसुद्वाषष्टिभागेषु चतुःषष्टौ सप्तषष्टिभागेषु शेषेषुपरिसमाप्ति नयति, द्वितीयां प्रौष्ठपदी पौर्णमासी पूर्वभद्रपदानक्षत्रमष्टसु मुहूर्तेषु शेषेष्वेकस्य च मुहूर्तस्यैकचत्वारिंशति द्वाषटिभागेष्वेकस्य च द्वाषष्टिभागस्पैकपञ्चाशति सप्तषष्टिभागेषु शेषेषु परिणमयति, तृतीयां प्रौष्ठपदी पौर्णमासीं शतभिषक् पञ्चसुमुहूर्तेषु एकस्य च मुहूर्तस्य षटसु द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्याष्टाविंशती सप्तषष्टिभागेषु शेषेषु । चतुर्थी प्रौष्ठपदी पौर्णमासी उत्तरभद्रपदानक्षत्रं चत्वारिंशति मुहूर्तेष्वेकस्य च मुहूर्तस्यैकचत्वारिंशति द्वाषष्टिभागेषुएकस्य च द्वाषष्टिभागस्य चतुर्विंशतौ सप्तषष्टिभागेषु शेषेषु, पञ्चमी प्रौष्ठपदी पौर्णमासी पूर्वभद्रपदानक्षत्रमेकविंशतौ मुहूर्त्तष्वेकस्य च मुहूर्तस्य पञ्चपञ्चाशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्यैकादशसु सप्तषष्टिभागेषु शेषेषु परिणमयति, आश्वयुजी पौर्णमासी कति नक्षत्राणियुञ्जन्ति?, भगवानाह- ताइति पूर्ववत्वेनक्षत्रेयुङ्कतः, तद्यथा-रेवती अश्विनी च, इहोत्तरभद्रपदानक्षत्रमपि कांचिदाश्वयुजी पौर्णमासी परिसमापयति, परं तल्यौष्ठपदीमपि पौर्णमासी परिसमापयति, तत्रैवच लोके तस्य प्राधान्यं, तन्नाम्ना तस्याः पौर्णमास्याः अभिधानादतस्तदिह न विवक्षितमित्यदोषः। तथाहि-प्रथमामाश्वयुजी पौर्णमासीमश्विनी नक्षत्रमेकविंशतौ मुहूर्तेष्वेकस्य च द्वापष्टिभागस्य निषष्टौ सप्तपष्टिभागेषु शेषेषु परिसमापयति, द्वितीयामाश्वयुजी पौर्णमासी रेवतीनक्षत्रं सप्तदशमुमुहूर्तेष्वेकस्य च मुहूर्तस्य षटत्रिंशति द्वापष्टिभागेज्वेकस्य च द्वापष्टिभागस्य पञ्चाशति सप्तपष्टिभागेपुशेपेपु, तृतीयामाश्वयुजी पौर्णमासीमुत्तरभद्रपदानक्षत्रं चर्तुदशसु मुहूर्तेषु एकस्य च मुहूर्तस्य एकस्मिन् द्वापष्टिभागे एकस्य च द्वापष्टिभागस्य सप्तत्रिंशति सप्तपटिभागेषु शेपेषु, चतुर्थीमाश्वयुजी पौर्णमासी रेवतीनक्षत्रं चतुर्षु मुहूर्तेष्वेकस्य च मुहूर्तस्व त्रयस्त्रशति द्वापष्टिभागेष्वेकस्य द्वाषष्टिभागस्य त्रयोविंशतौ सप्तषष्टिभागेषु शेषेषु, पञ्चमीमाश्वयुजी पौर्णमासीमुत्तरभद्रपदानक्षत्रमेकस्य च मुहूर्तस्य पञ्चाशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003350
Book TitleAgam Sutra Satik 16 Suryapragnapati UpangSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy