________________
प्रज्ञापनाउपाङ्गसूत्र-१-२/-/-२०५ श्रकास्तैः स्तम्णभितौ इव स्तम्भितौ भुजी येषां ते कटकत्रुटितस्तम्भितभुजाः, तथा अङ्गदानिबाहुशीर्षाऽऽभरणविशेषरूपाणि कुण्डले कर्णाभरणविशेषरूपे तथा मृष्टी-मष्टीकृतौ गण्डौकपोलौ यस्तानि मृष्टागण्डानि, कर्णपीठानि-कर्णाभरणविशेषरूपाणि धारयन्तीत्येवंशीला अङ्गदकुण्डलमृष्टण्डकर्णपीठधारिणः, तथा विचित्राणि-नानारूपाणि हस्ताभरणानि येषां ते विचित्रहस्ताभरणाः, तथा विचित्तमालामउलिमउडा' विचित्रामाला-कुसुमनगमौलौ मस्तके मुकुटं च येषां ते विचित्रमालामौलिमुकुटाः,तथा कल्याणकं-कल्याणकारि प्रवरं वस्त्रं परिहितं यैस्ते कल्याकप्रवरवस्त्रपरिहिताः, सुखादिदर्शनाद् निष्ठन्तस्यात्र पाक्षिकः परनिपातः,
__ तथा कल्याणकं कल्याणकारि यत् प्रवरं माल्यं-पुष्पदाम यच्चानुलेपनं तद् धरन्तीति कल्याणकप्रकारमाल्यानुलेपनधराः, तथा भास्वरा-देदीप्यमाना बोन्दिः स्त्रीशरीरं येषां तेभास्वरबोन्दयः, तथा प्रलम्ब इति-प्रलम्बा या वनमाला ता धरन्तीति प्रलम्बवनमालाधराः 'दिव्वेणं संघयणेणं ति शक्तिविशेषमपेक्ष्यं संहननेनेव संहननेन न तु साक्षात् संहननेन, देवानां संहननासंभवात्, संहननं हि अस्थिरचनात्मकं, न च देवानां अस्थीनि सन्ति, तथा चोक्तं जीवाभिगमे
"देवा असंघयणी, जम्हा तेर्सिनेवट्ठी नेवसिरा" इत्यादि, दिव्वाएइडीए दिव्यया-प्रधानयाऋध्या--परिवारादिकया दिव्ययाद्युत्या-इष्टार्थसंप्रयोगलक्षणया 'धुअभिगमने इति वचनात्, दिव्ययप्रभया-भवनावासगतया, दिव्यय छायया-समुदाय शोभया, दिव्येनार्चिषा-शरीरस्थरत्लादितेजोज्वालया, दिव्येन तेजसा शरीरप्रभवेन, दिव्यया लेश्यया-देहवर्णसुन्दर तया दश दिश उद्योतयन्तः-प्रकाशयन्तः पभासेमाणा' शोभमानास्तेभवनवासिनो देवा ‘णं' इति वाक्यालङ्कारे, तत्र स्वस्थाने 'साणं साणं' इति स्वेषां स्वेषामात्मीयात्मीयानामित्यर्थः,
___ 'आहेवचं पोरेवचं' इत्यादि अधिपतेः कर्म आधिपत्यं रक्षा इत्यर्थः, सा च रक्षा सामान्येनाप्यारक्षकेणेव क्रियतेततआह-पुरस्यपतिः पुरपतिः तस्य कर्म पौरपत्यं सर्वेषामात्मीयनामग्रेसरत्वमिति भावः,तच्चाग्रेसरत्वं नायकत्वमन्तरेणापिस्वनायकनियुक्ततथाविधगृहचिन्तकसामान्यपुरुषस्येव भवति ततो नायकत्वप्रतिपत्त्यर्थमाह-स्वामित्वं-स्वमस्यास्तीति स्वामी तद्भावः स्वामित्वं नायकत्वमित्यर्थः, तदपि च नायकत्वं कस्यचित् पोषकत्वमन्तरेणापि भवति यथा हरिणाधिपतेर्हरिणस्यतत आह-भर्त-वं पोषकत्वं, अतएवमहत्तरकत्वं, तदपि महत्तरकत्वं कस्यचिदात्राविकलस्यापि भवति यथा कस्यचिद् वणिजः स्वदासवर्ग प्रति तत आह
'आणाईसरसेणावचं आज्ञायाईश्वरआज्ञेश्वरः सेनायाः पतिः सेनापतिः आज्ञेश्वरश्वासी सेनापतिश्चआज्ञेश्वरसेनापतिस्तस्य कर्म आज्ञेश्वरसेनापत्यं स्वस्वसैन्यं प्रत्यद्भुतमाशाप्राधान्यमिति भावः, कारयन्तोऽन्यैर्नियुक्तकैः पुरुषैः पालयन्तः स्वयमेव महता रवेणेति योग;, 'अहयत्ति' आख्यानकप्रतिबद्धानि यदिवाअहतानि अव्याहतानि नित्यानुबन्धीनीति भावः ये नाट्यगीतेनाट्यं-नृत्यं गीतं-गानं यानि च वादितानि-तन्त्रीतलतालत्रुटितानि तत्र तन्त्री-वीणा तलौहस्ततलौ तालः-कंसिका त्रुटुतानि-वादित्राणि तथा यश्ट धनमृदङ्गः पटुना पुरुषेणप्रवादितः, तत्र घनमृदङ्दगो नाम घनसमानध्वनिर्यो मृदङ्गः,
तत एतेषां द्वन्द्वः, तेषां रवेण दिव्यान्-दिवि भवान् प्रधानिति भाव;, भोगार्हाः भोगाःशब्दादयो भोगभोगास्तान भुञ्जमाना 'विहरन्ति' आसते ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org