SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ पदं - ३६, उद्देशकः-, द्वारं - २९३ चतुर्विंशतिदण्डकक्रमेण असुरकुमारो नैरयिकादिषु वैमानिकपर्यवसानेषु भणित; तथा नागकुमारादयः समस्तेषु स्वस्थानपरस्थानेषु भणितव्याः यावद्वैमानिकस्य वैमानिकत्वे आलापकः, एवमेतानि नैरयिकचतुर्विंशतिदण्डकादिसूत्राणि वैमानिकचतुर्विंशतिदण्डकपर्यवसानानि चतुर्विंशतिः सूत्राणि वेदितव्यानि । , तदेवं चतुर्विंशतिदण्डसूत्रैः क्रोधसमुद्घातश्चिन्तितः सम्प्रति चतुर्विंशत्यैव चतुर्विंशतिदण्डकसूत्रैर्मानसमुद्घातं मायासमुद्घातं चाभिधित्सुरतिदेशमाह - 'मानसमुग्धाए मायासमुग्धाए निरवसेसं जहा मारणंतियसमुग्धाए' इति, यथा- प्राक् मारणान्तिकसमुद्घातेऽभिहितं सूत्रं तथा मानसमुद्घाते मायासमुद्घाते च निरवशेषमभिधातव्यं, तच्चैवं 'एगमेगस्स णं भंते! नेरइयस्स नेरइयत्त केवइया मानसमुग्धाया अईया ? गोयमा ! अनंता, केवइया पुरेक्खडा ?, गो० ! कस्सइ अस्थि कस्सइ नत्थि, जस्स अत्थि जहन्त्रेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं संखेज्जा वा असंखेज्जा वा अनंता वा, एवमसुरकुमारत्ते जाव वेमाणियत्ते, एगमेगस्स णं भंते! असुरकुमारस्स नेरइयत्ते केवइया मानसमुग्धाया अतीता ? गोयमा अनंता, केवइया पुरेक्खडा ?, गो० ! कस्सइ अत्थि कस्सइ नत्थि, जस्सत्थि जहन्त्रेणं एक्को वा दो वा तिन्नि वा उक्को० संखेज्जा वा असंखेज्जा वा अनंता वा, एवं नागकुमारत्ते जाव वेमाणियत्ते, एवं जहा असुरकुमार नेरइया वेमाणियपजवसाणेसु भणिया तहा नागकुमाराइया सद्वाणपरट्ठाणेसु भाणियव्वा जाव वेमाणियस्स वेमाणियत्ते' अस्यायमर्थः - अतीतेषु सूत्रेषु सर्वत्राप्यनन्तत्वं सुप्रतीतं, नैरयिककत्वादिस्थानानि प्रत्येकमनन्तशः, प्राप्तत्वात्, पुरस्कृतचिन्तायां त्वेवं नैरयिकस्य नैरयिकत्वे भावना - यो नैरयिकः प्रश्नकालादूर्ध्वं मानसमुद्गातमन्तरेण कालं कृत्वा नरकादुद्वृ त्तोऽनन्तरं पारम्पर्येण वा मनुष्यभवमवाप्य सेत्स्यति न भूयो नरकमागन्ता तस्य न सन्ति पुरस्कृता मानसमुद्धाताः, यः पुनस्तद्यवे वर्त्तमानो भूयो वा नरकमागत्यैकं वारं मानसमुद्घातं गत्वा कालकरणेन नरकादुद्वृत्तः सेत्स्यति तस्यैकः पुरस्कृतो मानसमुद्घातः, एवमेव कस्यापि द्वौ कस्यापि त्रयः सङ्घयेयान् वारान् नरकमागन्तुः सङ्घयेयाः असङ्ख्येयान् वारान् असङ्घयेयाः अनन्तान् वारान् अनन्ताः, नैरयिकस्यैवासुरकुमारत्वे पुरस्कृतचिन्तायामियं भावना यो नरकादुद्वृत्तो असुरकुमारत्वं न यास्यति तस्य न सन्ति पुरस्कृता मानसमुद्घाताः, यस्त्वेकं वारं गन्ता तस्य एको द्वौ त्र्यादयो वा सङ्घयेयान् वारान् गन्तुः सङ्घयेयाः असङ्खयेयान् वारान् असङ्घयेयाः अनन्तान् वारान् अनन्ता एवं तावद् भणनीयं यावत् तिर्यक्पञ्चेन्द्रियत्वे पुरस्कृतचिन्ता, मनुष्यचिन्तायां चैवं भावना - यो नरकादुवृ त्तो मनुष्यभवं प्राप्य मानसमुद्घातगत्वा सेत्स्यति तस्य नास्त्येकोऽपि पुरस्कृतो मानसमुद्घातो, यस्तु मनुष्यत्वं गतः सन्नेकं वारं मानसमुद्घातं गन्ता तस्यैकोऽपरस्य द्वावन्यस्य त्र्यादयः सङ्घयेयान् वारान् गन्तुः सङ्घयेयाः असङ्ख्येयान् वारान् असङ्घयेयाः अनन्तान् वारान् अनन्ता, व्यन्तरज्योतिष्कवैमानिकत्वेषु भावना यथा असुरकुमारत्वे यथा च नैरयिकस्य नैरयिकत्वादिषु चतुर्विंशतिस्थानेषु भावना कृता तथा असरुकुमारादीनामपि वैमानिकपर्यवसानानां चतुर्विंशतिदण्डकक्रमेण कर्त्वया, यथा च मानसमुद्घातस्य चतुर्विंशतिः सूत्राणि चतुर्विंशतिदण्डकक्रमेणोक्तानि तथा मायासमुद्घातस्यापि चतुर्विंशतिसूत्राणि चतुर्विंशतिदण्डकक्रमेण वक्तव्यानि, तुल्यगमकत्वात्, For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy