SearchBrowseAboutContactDonate
Page Preview
Page 619
Loading...
Download File
Download File
Page Text
________________ २९२ प्रज्ञापनाउपाङ्गसूत्रम् - २-३६ // /६०९ नास्ति नैरयिकत्वभाविन एकोऽपि पुरस्कृतः क्रोधसमुद्घातः, शेषस्य तु सन्ति, यस्यापि सन्ति तस्यापि जघन्यत एको द्वौ त्रयो वा एतच्च क्षीणशेषायुषां तद्भावस्थानां भूयो नरकेषु उत्पद्यमानानां वेदितव्यं भूयो नपरकेषूत्पत्ती हि जघन्यपदेऽपि सङ्ख्येयाः प्राप्यन्ते, नैरयिकाणां क्रोधसमुद्घा - तप्रचुरत्वात्, उत्कर्षतः सङ्घयेया वा असङ्ख्येया वा अनन्ता वा, तत्र सकृन्नरकेषु जघन्यस्थितिकेषूत्पत्स्यमानस्य सङ्घयेया अनेकशो यदिवा दीर्घस्थितिकेषु सकृदपि उत्पत्स्यमानस्यासङ्ख्त्येयाः अनन्तश उत्पत्स्यमानस्यानन्ताः, 'एव' मित्यादि, एवं-नैरयिकोक्तप्रकारेणासुरकुमारत्वे तदनन्तरं चतुर्विंशतिदण्डकक्रमेण तावद् वक्तव्यं यावद्वैमानिकत्वविषयं सूत्रं तच्चैवं- 'एगमेगस्स णं भंते! नेरइयस्स वेमाणियत्ते केवइया कोहसमुग्धाया अईया ?, गो० ! अनंता, केवइया पुरे० १, गो० ! कस्सइ अस्थि क० नत्थि, जस्सत्थि जह० एक्को वा दो वा तिन्नि वा उक्को० संखेज्जा वा असं० अनंता वा,' अत्राप्ययं भावार्थः - अतीतचिन्तायामनन्ताः, अनन्तशो वैमानिकत्वस्य प्राप्तत्त्वात्, पुरस्कृतचिन्तायां योऽनन्तरभवे नरकादुद्वृ त्तो मानुषत्वमवाप्य सेत्स्यति प्राप्तो वा परम्परया सकृद्वैमानिकभवं न क्रोधसमुद्घातं गन्ता तस्यैकोऽपि पुरस्कृतः क्रोधसमुद्घातो वैमानिकत्वे न विद्यते, यस्त्वसकृद्वैमानिकत्वं प्राप्तः सन् सकृदेव क्रोधसमुद्घातं याता तस्य जघन्यत एको द्वौ वा त्रयो वा, शेषस्य सङ्ख्यातान् वारान् वैमानिकत्वं प्राप्स्यतः सङ्घयेयाः असङ्घयेयान् वारान् असङ्घयेयाः अनन्तान् वारान् अनन्ताः, 'गमेगस ण' मित्यादि प्रश्नसूत्रं सुगमं, 'गो० ! अनंता' इति, अनन्तशो नैरयिकत्वं प्राप्तस्य, एककैस्मिंश्च नैरयिकभवे जघन्यपदेऽपि सङ्घयेयानां क्रोधसमुद्घातानां भावात्, पुरस्कृताः कस्यचित्सन्ति कस्यचिन्न सन्ति, किमुक्तं भवति ? - योऽ सुरकुमारभवादुट्ट तो न नरकं यास्यति किन्त्वनन्तरं परम्परया वा मनुष्यभनवमवाप्य सेत्स्सयति तस्य नैरयिकावस्थाभाविनः पुरस्कृताः क्रोधसमुद्घातान सन्ति, नैरयिकत्वावस्थायाएवासम्भवात्, यस्तु तद्भवादूर्ध्वं पारम्पर्येण नरकगामी तस्य सन्ति, तस्यापि कस्यचित् सङ्घयेयाः कस्यचिदसङ्ख्येयाः कस्यचिदनन्ताः, तत्र यः सकृजधन्यस्थितिकेषु नरकमध्येषु समुत्पत्स्यते तस्य जघन्यपदेऽपि सङ्कयेयाः दशवर्षसहस्रप्रमाणायामपि स्थितौ सङ्घयेयानां क्रोधसमुद्घातानां भावात्, क्रोधबहुलत्वान्नारकाणां असकृत् दीर्घस्थितिषु सकृद्वा गमनेऽसङ्घयेयाः अनन्तशो नरकगमनेऽननताः, तथा एकैकस्य भदन् ! असुरकुमारस्य असुरकुमारत्वे स्थितस्य सतः सकलमतीतकालमधिकृत्य कियन्तः क्रोधसमुद्घाता अतीताः ?, भगवानाह - अनन्ताः अनन्तशोऽ ऽ सुरकुमार भावस्य प्राप्तत्वात् प्रतिभवं च क्रोधसमुद्घातस्य प्रायो भावात्, पुरस्कृतचिन्तायां कस्यापि सन्ति, यस्य प्रश्नकालादूध्व असुरकुमारत्वेऽपि वर्तमानस्य न भावी क्रोधसमुद्घातो नापि तत उद्वृ तो भूयोऽप्यसुरकुमारत्वं याता तस्य न सन्ति यस्तु सकृदसुरकुमारत्वमागामी तस्य जघन्यपदे एको वा द्वौ वा त्रयो वा उत्कर्षतः सङ्घयेया असङ्ख्येया अनन्ता वा, सङ्घयेयान् वारान् आगामिनः सङ्घयेया असङ्ख्येयान् वारान् असङ्घयेयाः अनन्तान् वारान् अनन्ताः, एवं चतुर्विंशतिदण्डकक्रमेण नागकुमारत्वादिषु स्थानेषु असुरकुमारस्य निरन्तरं तावद्वक्तव्यं यावद्वैमानिकत्वे, तथा चाह' एवं नागकुमारत्तेऽवी' त्यादि, तदेवमसुरकुमारेषु क्रोधसमुद्घातश्चिन्तितः, सम्प्रति नागकुमारादिष्वतिदेशमाह- 'एव' मित्यादि, एवमुक्तेनाभिलापगतेन प्रकारेण यथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy