SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ पदं- ३६, उद्देशक:-, द्वारं २८९ समुद्घातसमुद्धताः, तेभ्योऽपि वैक्रियसमुद्घातेन समुद्घाता असङ्ख्येयगुणाः, सप्तस्वपि पृथिवीषु प्रत्येकं बहूनां परस्परवेदनो दीरणाय निरन्तरमुत्तरवैक्रियसमारम्भसम्भवात्, तेभ्योऽपि कषायसमुद्घातेन समुद्धताः सङ्घयेयगुणाः कृतोत्तरवैक्रियाणामकृतोत्तरवैक्रियाणां तच सर्वसङ्घयेयोतत्र वै क्रियारम्भकेभ्योऽसङ्घत्येयगुणानां कषायसमुद्घातसमुद्धतत्वेन प्राप्यमाणत्वात्, तेभ्योऽपि वेदनासमुद्घातेन समुद्धताः सङ्घयेयगुणाः यथायोगं क्षेत्रजपरमाधार्मिकोदीरितपरस्परोदीरितवेदनाभिः प्रायो बहूनां सदा समुद्धतत्वेन प्राप्यमाणत्वात्, तेभ्योऽप्येकेनापि समुद्घातेनासमवहताः सङ्घयेयगुणाः, वेदमनासमुद्घातमन्तरेणाप्यतिबहूनां सामान्यतो वेदनामनुभवतां सम्भवात् । सम्प्रत्यसुरकुमाराणामल्पबहुत्वमाह - 'एएसि ण' मित्यादिप्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! सर्वस्तोकाः असुरकुमारास्तैजससमुद्घातेन समुद्धताः, तैजसो हि समुद्घातो महति कोपावेशे क्वचित् कदाचित्केषाञ्चिद्भवति, ततस्तेन समुद्घातेन समुद्धताः सर्वस्तोकाः, तेभ्यो मारणान्तिकसमुद्घातेन समुद्धताः असङ्घयेयगुणाः, तेभ्यो वेदनासमुद्घातेन समुद्धताः असङ्घयेयगुणाः परस्परं युद्धादी बहूनांवेदनासमुद्घातेन समुद्धतानां प्राप्यमाणत्वात्, तेभ्योऽपि कषायसमुद्घातेन समुद्घाताः सङ्घयेयगुणाः, येन तेन वा कारणेन बहूनां कषायसमुद्घातगमनसम्भवात्, तेभ्योऽपि वैक्रियसमुद्घातेन समुद्धताः सङ्खयेयगुणाः, परिचारणाद्यनेकनिमित्तमतिबहूनामुत्तरवैक्रियकरणारम्भसम्भवात्, तेभ्योऽप्यसमवहता असङ्घयेयगुणाः, बहूनामुत्तमजातीनां सुखसागरावगाढानां पूर्वोक्तेभ्योऽसङ्घयेयगुणानां केनापि समुद्घातेनासमवहतानां सदा लभ्यमानत्वात्, 'एवमित्यादि, यथा असुरकुमाराणामल्पबहुत्वमुक्तमेवं सर्वेषां भवनपतीनां द्रष्टव्यं यावत् स्तनितकुमाराणामिति । सम्प्रति पृथिवीकायिकगतमल्पबहुत्वमाह - 'एएसि ण' मित्यादि, अत्र कषायसमुद्घातसमुद्धतानां वेदनासमुद्घातसमुद्धतानां च सङ्ख्त्येयगुणत्वे असमवहतानां चासङ्कयेयगुणत्वे भावना स्वयं भावनीया, सुगमत्वात्, 'एवमित्यादि, पृथिवीकायिकगतेन प्रकारेणाल्पबहुत्वं तावद्वक्तव्यं वयावद्वनस्पतिकायिकाः, वायुकायिकान् प्रति विशेषमभिधित्सुराह - 'नवर 'मित्यादि, नवरं वातकायिकानामल्पबहुत्वचिन्तायामेवं वक्तव्यं सर्वस्तोका वातकायिका वैक्रियसमुद्घातेन समुद्धताः, बादरपर्याप्तसत्येयभागस्य वैक्रियलब्धेः सम्भवात्, तेभ्योऽपि मारणान्तिकसमुद्घातेन समुद्धता असङ्ख्येयगुणाः, पर्याप्तपर्याप्तसूक्ष्मबादरभेदभिन्नानां सर्वेषामपि वातकायिकानां मरणसमुद्घातसम्भवात्, तेभ्योऽपि कषायसमुद्घातेन समुद्धताः सङ्ख्त्येयगुणाः, तेभ्योऽपि वेदनासमुद्घातेन समुद्धता विशेषाधिकाः, तेभ्योऽ समवहता असङ्घयेयगुणाः, सकलसमुद्घातगतवातकायिकापक्षया स्वभावस्थानां वातकायिकानां स्वभावत एवासङ्घयेयगुणतया प्राप्यमाणत्वात् द्वीन्द्रियसूत्रे सर्वस्तोकाः द्वीन्द्रिया मारणान्तिकसमुद्घातेन समुद्धताः, प्रतिनियतानामेव प्रश्नसमये मरणसद्भावात्, तेभ्यो वेदनासमद्घातेन समुद्धता असङ्ख्त्येयगुणाः, शीतातपादिसम्पकतोऽतिप्रभूतानां वेदनासमुद्घातभावात्, तेभ्यः कषायसमुद्घातेन समुद्धता असङ्घयेयगुणाः, अतिप्रभूततारणां लोभादिकषायसमुद्घातभावात्, तेभ्योऽप्यसमवहताः सङ्घयेयगुणाः, 'एव' मित्यादि, एवं द्वीन्द्रियगतेन प्रकारेण तावद् वक्तव्यं यावच्चतुरिन्द्रियाः । तिर्यक्पञ्चेन्द्रियसूत्रे सर्वस्तोकास्तैजससमुद्घातेन समुद्धताः, कतिपयानामेव तेजोलब्धि 11 19 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy