SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ५८ प्रज्ञापनाउपाङ्गसूत्र- १-१/-/-/१६६ यानामुत्तमानां महीरुहाणां समूहो वनखण्डः, उक्तं च जीवाभिगममूलटीकायाम् "एगजाइएहिं खंडेहिं वणं, अनेगजाइएहिं उत्तमेहिं वनसंडे" इति, तस्य च वनखण्डस्य चक्रवालतया विष्कम्भो देशोने द्वे योजने, परिक्षेपः पद्मवरवेदिकाप्रमाणः, अस्य च वनखण्डस्य वर्णकः प्रतिपादितोऽस्ति, सचातीव गरीयानिति नोपदर्शितः, केवलं जीवाभिगमटीकातोऽवसेयः, तस्यैव हिमवतः पर्यन्तादारभ्य दक्षिणपूर्वस्यां दिशि त्रीणि योजनशतानि लसवणसमुद्रमवगाह्य द्वितीयदंष्ट्राया उपरि एकोरुकद्वीपप्रमाण आभासिकनामा द्वीपो वर्तते, तथा तस्यैव हिमवतः पश्चिमायां दिशि पर्यन्तादारभ्य दक्षिणपश्चिमायां - नैऋतकोण इत्यर्थः, त्रीणि योजनशतानि लवणसमुद्रमवगाह्य दंष्ट्राया उपरि यथोक्तप्रमाणो वैषाणिकनामा द्वीपः, तथा तस्यैव हिमवतः पश्चिमायां दिशि पर्यन्तादारभ्य पश्चिमोत्तरस्यां दिशि-वायव्यकोणे इत्यर्थः, त्रीणि योजनशतानि लवणसमुद्रमध्ये दंष्ट्रामतिक्रम्यात्रान्तरे पूर्वोक्तप्रमाणो नाङ्गोलिकनामा द्वीपः, 119 11 एवमेते चत्वारो द्वीपा हिमवतश्चतसृष्वपि विदिक्षु तुल्यप्रमाणा अवतिष्ठन्ते, उक्तं च“चुल्लहिमवंतपुव्वावरेण विदिसासु सागरं तिसए । गंतूनंतरदीवा तिन्नि सए हुंति विच्छिन्ना ।। ॥२॥ अउणापन्ननवसए किंचूणं परिहि तेसिमे नामा । एगोरुयगाभासिय वेसाणिय चेव नंगूली ।" तत एषामेको रुकादीनां चतुर्णां द्वीपानां परतो यथाक्रमं पूर्वोत्तरादिवदिक्षु प्रत्येकं चत्वारि चत्वारि योजनशतान्यतिक्रम्य चतुर्योजनशतायामविष्कम्भाः किञ्चिन्यूनपञ्चषष्टिसहितद्वादशयोजनशतपरिक्षेपाः यथोक्तपद्मवरवेदिकानवखण्डमण्डितपरिसराः जम्बूद्वीपवेदिकातचतुर्योजनशतप्रमाणान्तरा हयकर्णगजकर्णगोकर्णशष्कुलीकर्णनामानञ्चत्वारो द्वीपाः, तद्यथाएकोरुकस्य परतो हयकर्णः आभासिकस्य परतो गजकर्णः वैषाणिकस्य परतो गोकर्णः नाङ्गोलिकस्य परतो शष्कुलीकर्ण इति । तत एतेषामपि हयकर्णादीनां चतुर्णां द्वीपानां परतः पुनरपि यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकं पञ्च पञ्च योजनशतानि व्यतिक्रम्य पञ्चयोजनशतायामविष्कम्भा एकाशीत्यधिक पञ्चदशयोजनशतपरिक्षेपाः पूर्वोक्तप्रमाणपद्मव रवेदिकावनखण्डमण्डितबाह्यप्रदेशा जम्बूद्वीपवेदिकातः पञ्चयोजनशतप्रमाणान्तरा आदर्शमुख १ मेण्ढमुख २ अयोमुख ३ गोमुख ४ नामानाश्चत्वारो द्वीपाः, तद्यथा - हयकर्णस्य परत आदर्शमुखः गजकर्णस्य परतो मेण्ढमुखः गोकर्णस्य परतोऽयोमुखः शष्कुलीकर्णस्य परतो गोमुख इति । एवमग्रेऽपि भावना कार्या, एतेषामप्यादर्शमुखादीनां चतुर्णां द्वीपानां परतो भूयोऽपि यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकं षट् षट् योजनशतान्यतिक्रम्य षड्योजनशतायामविष्कम्भाः सप्तनवत्यधिकाष्टादशयोजनशतपरिक्षेपा यथोक्तप्रमाणपद्मवरवेदिकावनखण्डमण्डितपरिसरा जम्बूद्वीपवेदिकातः पड्योजनशतप्रमाणान्तरा अश्वमुखहस्तिमुखसिंहमुखव्याघ्रमुखनामानश्चत्वारो द्वीपाः । एतेषामप्यश्वमुखादीनां चतुर्णां द्वीपानां परतो यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकं सप्त २ योजनशतान्यतिक्रम्य सप्तयोजनशतायामविष्कम्भावनयोदशाधिकद्वाविंशतियोजनशतपरिरयाः पूर्वोक्तप्रमाणपद्मवरवेदिकावनखण्डसमवगूढा जम्बूद्वीपवेदिकातः सप्तयोजनशतप्रमाणान्तरा अश्वकर्णहरिकर्णाकर्णकर्णप्रावरणनामानश्चत्वारो द्वीपाः । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy