SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ पदं-१, उद्देशक:-, द्वार ____५७ आहासिया वेसाणिया नंगोला हयकन्ना गयकन्नागोकना सक्कुलिकन्नाआयंसमुहा मेंढमुहा अयोमुहा गोमुहाआसमुहाहत्थिमुहा सीहमुहावग्धमुहाआसकन्ना हरिकन्नाअकन्ना कण्णपाउरणा रक्कामुहा मेहमुहा वि मुहा विजुदंता घणदंता लट्ठदंता गूढदंता सुद्धदंता । सेत्तं अंतरदीवगा। से किंतं अकम्मभूमगा?, तीसविहा पं०, पंचहिं हेमवएहिं पंचहिं हिरण्णवएहिं पंचहिं हरिवासेहिं पंचहिं रम्मगवासेहिं पंचहिं देवकुरूहिं पंचहिं उत्तरकुरूहि । सेत्तं अकम्मभूमगा। वृ. अत्रापि संमूर्छिममनुष्यविषये प्रवचनबहुमानतः शिष्याणामपि च साक्षाद् भगवतेदमुक्तमितिवहुमानोत्पादनार्थमङ्गान्तर्गतमालापकं पठति-'कहिणं भन्ते' इत्यादि, सुगम, नवरं 'सब्वेसु चेव असुइठाणेसुत्ति' अन्यान्यपि यानि कानिचिद् मनुष्यसंसर्गवशादशुचिभूतनि स्थानानि तेषु सर्वेष्विति । उक्ताः संमूर्छिममनुष्याः, अघुना गर्भव्युत्क्रान्तिकमनुष्यप्रतिपादनार्थमाह-'कम्मभूमगा' इतिकर्म-कृषिवाणियादिमोक्षानुष्ठानंवा कर्मप्रधानाभूमिर्येषांतेकर्मभूमाः आर्षत्वात्समासान्तोऽप्रत्ययः कर्मभूमाएव कर्मभूमकाः, एवमकर्मा-यथोक्तकर्मविकलाभूमिर्येषां ते अकर्मभूमाः तेएवअकर्मभूमकाः, अन्तरशब्दो मध्यवाची, अन्तरे-लवणसमुद्रस्य मध्ये द्वीपा अन्तरद्वीपाः तद्गता अन्तरद्वीपगाः, “अस्तिपश्चानुपूर्वी' इति न्यायख्यापनार्थं प्रथमतोऽन्तरद्वीपगान्प्रतिपादयति-‘से किंतं इत्यादि सुगम, नवरमष्टाविंशतिविधा इतियाशा एवयावप्रमाणा यावदपान्तराला यन्नामानोहिमवत्पर्वतपूर्वापरदिग्व्यवस्तिताः अष्टाविंशतिविधा अन्तरद्वीपास्तादशा एव तावठयमाणा तावदपान्तरालास्तन्नामान एव शिखरिपर्वतपूर्वापरदिग्व्यवस्थिता अपि, ततोऽत्यन्तसहशतया व्यक्तिभेदमनपेक्ष्यान्तरद्वीपा अष्टाविंशतिविधा एव विवक्षिता इति तज्जातमनुष्या अप्यष्टाविंश-तिविधा उक्ताः। तानेव नामग्राहमुपदर्शयति-तंजहा एगोरुया' इत्यादि, एते सप्त चतुष्काः, अष्टाविंशतिसंख्यत्वात्, एतेच प्रत्येकं हिमवति शिखरिणि च, तत्र हिमवद्गतास्तावद्भाव्यन्ते-इह जम्बूद्वीपे भरतस्य हैमवतस्य च क्षेत्रस्य सीमाकारी भूमिनिमग्नपञ्चविंशतियोजनोयोजनशतोच्छ्रयपरिमाणो भरतक्षेत्रापेक्षया द्विगुणविष्कम्भो हेममयश्चीनपट्टवर्णो नानावर्णविशिष्टद्युतिमणिनिकरपरिमण्डितोभयपार्श्वः सर्वत्र तुल्यविस्तारो गगनमण्डलोल्लेखिरत्नमयैकादशकूटोपशोभितो वज्रमयतलविविधमणिकनकमण्डिततटभागदशयोजनावगाढपूर्वपश्चिमयोजनसहनायामदक्षिणोत्तरपञ्चयोजनशतविस्तारः पद्मद्दशोभितशिरोमध्यभागः सर्वतः कल्पपादपश्रेणिरमणीयः पूर्वापरपर्यन्ताभ्यां लवणोदार्णवजलसंस्पर्शी हिमवन्नामा पर्वतः, तस्य लवणोदार्णवजलसंस्पर्शादारभ्य पूर्वस्यां पश्चिमायाश्च दिशिप्रत्येकं द्वेद्वेगजदन्ताकारे दंष्ट्रेविनिर्गते, तत्र ऐशान्यां दिशियाविनिर्गतादंष्ट्रातस्यांहिमवतः पर्यन्तादारभ्य त्रीणियोजनशतानि लवणसमुद्रमवगाह्यात्रान्तरे योजनशतत्रयायामविष्मकम्भः किञ्चिन्यूनैकोनपञ्चाशदधिकनवयोजनशतपरिरय एकोरुकनामाद्वीपो वर्तते, अयंच पञ्चधनुःशतप्रमाणविष्कम्भया द्विगव्यतोच्छ्रितया पद्मवरदेदिकया सर्वतः परिमण्डितः, तस्याश्च पद्मवरवेदिकाया वर्णकोजीवाभिगमटीकायामिव वेदितव्यः,साऽपिच पद्मवरवेदिका सर्वतः सामस्त्येन वनखण्डपरिक्षिप्ता, वनाच्च वनखण्डस्यायं विशेषः-प्रायो बहूनां समानजातीयानामुत्तमानां महीरुहाणां समुदायोवनं, यथाअसोकवनंचम्पकवनमिति, अनेकजाती For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy