SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ पदं-३६, उद्देशकः-, द्वारं - २८१ स्यादनन्ता इति वक्तव्यं, भावना प्राग्वत्। तदेवं नैरयिकस्य स्वस्थाने परस्थाने च कषायसमुद्घाताश्चिन्तिताः सम्प्रत्यसुरकुमारेसु तान् चिचिन्तयिषुराह--‘एगमेगस्स ण'मित्यादि, एकैकस्य असुरकुमारस्य नैरयिकत्वे कषायसमुद्घाता अतीता अनन्ताः, भावनिः “कस्यचित्सन्ति कस्यचिन्न सन्ति, तत्र योऽसुरकुमारभवादुवृत्तो नरकंन यास्ततितस्य न सन्ति, यस्तु यास्यति तस्य सन्ति, तस्यापि जघन्यतः सङ्घयेयाः, जघन्यस्थितावपि सङ्खयेयानां कषायसमुद्घातानां नरकेषुभावात्, उत्कर्षतोऽसङ्खयेया अनन्ता वा, तत्र जघन्यस्थितिष्वसकृद्दीर्घस्थितिषु सकृदसकृद्वा जिगमिषोरसङ्कयेया अनन्तशो जिगमिषोरनन्ताः, असुरकुमारस्यासुरकुमारत्वे अतीताअनन्ताः, 'पुरेक्खडाएगुत्तरिया' इत्यादि, पुरस्कृतास्तुकस्यापि सन्ति कस्यापिनसन्ति, तत्रयोऽसुरकुमारभवेपर्यन्तवर्तीनच कषायसमुद्घातं याता नापि तत्र प्रभ्रष्टो भूयोऽसुरकुमारभवं लब्धा किन्त्वनन्तरं पारम्पर्येण वा सेत्स्यति तस्य सन्ति, शेषस्यतुन सन्ति, यस्यापि सन्ति तस्यापिजघन्यतएको द्वौ वा त्रयो वा उत्कर्षतःसङ्खयेया असङ्ख्येया अनन्ता वा, तत्र एकादयः क्षीणायुःशेषाणां तद्भव भाजां भूयस्तत्रैवानुत्पत्स्यमानानामवगन्तव्याः, सङ्येयादयो नैरयिकत्वे इव भावनीयाः, _ 'एव'मित्यादि, एवं-उक्तेन प्रकारेण नागकुमारत्वे ततऊर्ध्वं चतुर्विंशतिदण्डकक्रमेण निरन्तरं यावद्वैमानिकत्वे वैमानिकत्वविषयं सूत्रं, यथा नैरयिकस्य भणितं तथैव भणितव्यं, किमुक्तं भवति?-नागकुमारत्वादिषुस्तनिककुमारपर्यवसानेषुपुरस्कृतचिन्तायां 'कस्सइअस्थि कस्सइ नत्थि, जस्स अस्थि सिय संखेज्जा सिय असंखेज्जा सिय अनंता' पृथिवीकायिकत्वादिषु मनुष्यत्वपर्यवसानेषु जस्सअस्थि जहन्नेणं एको वा दोवा तिन्नि वा उक्कोसेणं संखेना वा असंखेज्जा वा अनंता वा व्यन्तरत्वे 'जस्स अस्थि सिय संखेज्जा सिय असंखेज्जा सिय अनंता' ज्योतिष्कत्वे 'जस्स अस्थि सिय असंखेज्जा सिय अनंता' वैमानिकत्वेऽप्येवमेवेति वक्तव्यमिति, ___ ‘एवंजावेत्यादि, एवं-उक्तेनप्रकारेणअसुरकुमारवन्नागकुमारस्ययावत्स्तनितकुमारस्य प्रत्येकंयावद् वैमानिकत्वे-वैमानिकत्वविषयं सूत्रंतावद्वक्तव्यं, अत्रैव विशेषमाह-नवरंसर्वेषां नागकुमारादीनांस्तनिककुमारपर्यवसानानां स्वस्थाने नियमतः पुरस्कृताएकोत्तरिकाः, परस्थाने यथैवासुरकुमारस्य तथैव वक्तव्याः, 'पुढविकाइयस्स नेरइयत्ते' इत्यादि, पृथिवीकायिकस्य नैरयिकत्वे यावत् स्तनिककुमारत्वे अतीता अनन्ताः, अत्र भावना प्रागिव, पुरस्कृताः कस्यापि सन्ति कस्यापि न सन्ति, तत्र यः पृथिवीकायभवादुवृत्तोनरकेष्वसुरकुमारेषु यावत् स्तनितकुमारेषुनगमिष्यति किन्तु मनुष्यभवं प्राप्य सिद्धिं गन्ता तस्य न सन्ति, शेषस्य तु सन्ति, यस्यापि सन्ति तस्यापि जघन्यतः सङ्ख्येयाः, जघन्यस्थितावपिनरकादिषुसयेयानां कषायसमुद्घातानांभावात्, उत्कर्षतोऽसङ्येयाअनन्ता वा, ते च प्राग्वद् भावयितव्याः, पृथिवीकायिकत्वे यावन्मनुष्यत्वेऽतीतास्ते तथैव, भाविन एकोत्तरिकया वक्तव्याः, ते चैवम्-'कस्सइ अस्थि कस्सइ नत्थि, जस्स अस्थि जहन्नेणं एक्को वा दोवा तिण्णि वा उकोसेणं संखेज्जा वा असंखेज्जा वा अनंता वा' तेच नैरयिकस्य पृथिवीकायिकत्व इव भावनीयाः, __ 'वाणमंतरत्ते जहा नेरइयत्ते' इति व्यन्तरत्वे यथा नैरयिकत्वे तथा वक्तव्यं, किमुक्त भवति?-एकोत्तरिका न वक्तव्याः, किन्तु सिय संखेज्जा सिय असंखेजा सिय अनंता' इति For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy