________________
प्रज्ञापनाउपाङ्गसूत्रम् -२- ३४/-/-/५९०
२६०
अच्छराहिं सद्धिं कायपरियारणं कते समाणे से इच्छमणे खिप्पामेव अवेति ।
वृ. 'से जहानामए' इत्यादि 'से' इति अथशब्दार्थः, स चात्र वाक्योपन्यासे, यथा नाम 'ते' विवक्षिताः शीताः पुद्गलाः शीतं - शीतयोनिकं प्राणिनं प्राप्य 'शीतमेव' शीतत्वमेवातिव्रज्य - अतिशयेन गत्वा तिष्ठन्ति, किमुक्तं भवति ? - विशेषतः शीतीभूतस्य शीतयोनिकस्य प्राणिनः सुखित्वायोपकल्पन्ते, उष्णा वा पुद्गला उष्णयोनिकं प्राणिनं प्राप्य 'उष्णमेव' उष्णत्वमेवातिव्रज्य - अतिशयेन गत्वा तिष्ठन्ति, विशेषतः स्वरूपलाभसम्पत्त्या तस्य सुखित्वायोपतिष्ठन्ते इति भावः,
'एवमेव' अनेनैव प्रकारेण तैर्देवैस्ताभिरप्सरोभिः सार्द्धयथोक्तरूपे कायपरिचारणे कृतेसति इच्छामनः--कामविषयेच्छाप्रधानं मनः क्षिप्रमेवातितृप्तिभावात् शीतीभवति, इयमत्र भावना - यथा शीत्पुद्गलाः शीतयोनिकस्य प्राणिनः संस्पर्शे शीतत्वं विशेषतः आसादयन्तस्तस्य सुखित्वायोपकल्पन्ते उष्णपुद्गला वा उष्णयोनिकस्य प्राणिनः संस्पर्श उष्णत्वमतिप्रभूतमासादयन्तः सुखाय घटन्ते तथा देवीशरीरपुद्गला देवशरीरमवाप्यदेवशरीरपुद्गला अपि देवीशरीरमवाप्य परस्परं तद्गुणतां भजमानाः परस्परं सुखित्वायोपकल्पन्ते ततस्तृप्तिरुपजायते तृप्तिभावाच्चाभिलाषनिवृत्तिर्भवतीति ।
इह मनुष्यस्त्रीणां मनुष्यपुरुषोपभोगे शुक्रपुद्गलसङ्क्रमतः सुखमुपजायमानं लब्धं तत्किं देवीनामप्युपभोग्यदेवसत्कशुक्रपुद्गलसङ्क्रमतः सुखमुपजायते आहोश्चिदन्यथेति संशयानो देवानां शुक्रपुद्गलास्तित्वं पृच्छति
मू. (५९१) अत्थि णं भंते! तेसिं देवाणं सुक्कपोग्गला ?, हंता ! अत्थि, ते णं भंते ! तासिं उच्छरकाणं कीसत्ताते भुजो २ परिणमंति ?, गो० ! सोतिंदियत्ताते चक्खुइंदि० घाणिंदिय० रसिंदिय० फासिंदियत्ताते इट्ठत्ताते कंतत्ताते मणुन्नत्ताते मणामत्ताते सुभगत्ताते सोहग्गरूवजोव्वणगुणलावन्नत्ताए ते तासिं भुजो २ परिणमति ।
वृ. 'अत्थि 'मित्यादि, अस्तीतिनिपातोऽत्र बह्वर्थे, णमिति पूर्ववत्, भदन्त ! तेषां देवानां शुक्रपुद्गलाः यत्सम्पर्कती देवीनां सुखमुपजायते ?, 'हंता ! अस्थि' भगवानाह - गौतम ! सन्ति, केवलं ते वैक्रियशरीरान्तर्गता इति न गर्भाधानहेतवः,
'तेण भंते!' इत्यादि, ते शुक्रपुद्गलाः, णमिति पूर्ववत् भदन्त ! तासामप्सरसां की क्स्वरूपतया 'भूयो २' यदा २ क्षरन्ति तदा २ इत्यर्थः परिणमन्ति ?, भगवानाह - 'गोयमे' त्यादि, श्रोत्रेन्द्रियरूपतया यावत्सप्रशनेन्द्रियतया, तेऽपि कदाचिदनिष्टतया परिणमन्तः सम्भाव्येरन् तत आह - इष्टतया, इष्टमपि किञ्चित्स्वरूपतोऽकान्तं भवति, यथा शूकरादीनामिष्टमपि विष्ठादि, तत आह- 'कान्ततया' कमनीयतया, कान्मतपि किञ्चिन्मनः स्पृहणीयं न भवति तत आह
'मनोज्ञतया' अतिस्पृहणीयतया, तदप्यतिस्पृहणीयत्वं कदाचिदापातकालमात्रभावि सम्भाव्यते तत आह- 'मन आपतया' मन आप्नुवन्ति - मनसि सदा रमन्ते इति मन आपास्तभावस्तत्ता तया मनसा सदा स्पृहणीयतयेति भावः, कस्मादिति चेत्, अत आह- 'सुभगतया' 'नमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शन' मिति न्यायात् अत्र हेतौ तृतीया, ततोऽयमर्थः - यतः सुभगतया - सर्वजनप्रियतया परिणमन्ति तत उच्यते इष्टतया कान्ततयेत्यादि, सुभगतया परिणमनमपि कथमिति चेत्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org