________________
२४३
पदं-३०, उद्देशकः-, द्वारं -
वृ. 'केवलीणंभंते!' इत्यादि, केवलं ज्ञानदर्शनंचास्यास्तीति केवली णमिति वाक्यालङ्कृती भदन्त!-परमकल्याणयोगिन् ! 'इमा प्रत्यकक्षत उपलभ्यमानारलप्रभाभिधांपृथिवीं आगारेहिति आकारभेदायथा इयंरत्नप्रभापृथिवी त्रिकाण्डाखरकाण्डपङ्ककाण्डअप्काण्डभेदात् खरकाण्डमपि षोडशभेदं, तद्यथा-प्रथमं योजनसहसमानरलकाण्ड तदनन्तरंयोजनसहनप्रमाणमेव वडकाण्डं तस्याप्यधो योजनसहनमानं वैडूर्यकाण्डमित्यादि, 'हेऊहिंति हेतवः-उपपत्तयः, ताश्चेमाः
केन कारणेनरत्नप्रभेत्यभिधीयते?,उच्यते, यस्मादस्याः रत्नमयंकाण्ड तस्मातरत्नप्रभा, रत्नानि प्रभा-स्वरूपं यस्याःसा रत्नप्रभेति व्युत्पत्तेरिति, ‘उवमाहि' इति उपमाभिः, 'माङ्माने' अस्मादुपूर्वात् उपमितं उपमा 'उपसर्गादात'; इत्यङ्प्रत्ययः, ताश्चैव-रलप्रभायां रत्प्रभादीनि काण्डानि वर्णविभागेन कीशानि?, पद्मपागेन्दुसहशानि इत्यादि, 'दिलुतेहिंति दष्टः अन्तःपरिच्छेदो विवक्षितसाध्यसाधनयोःसम्बन्धस्याविनाभावरूपस्य प्रमाणेन यत्र ते दृष्टान्तास्यैर्यथा घटः स्वगतैर्धर्मेः पृथुबुध्नोदराद्याकारादिरूपैरनुगतः परधर्मेभ्यश्चपटादिगतेभ्यो व्यतिरिक्त उपलभ्यते इति पटादिभ्यः पृथक् वस्त्वन्तरं तथैवैषाऽपि रत्नप्रभा स्वगतभेदैरनुषक्ता शर्कराप्रभादिभेदेभ्यश्चत व्यतिरिक्तेति ताभ्यः पृथक् वस्त्वन्तरमित्यादि,
_ 'वण्णेहिं तिशुक्लादिवर्णविभागेन तेषामेव उत्कर्षापपकर्षसङ्घयेयासंख्येनन्तगुणविभागेन च, वर्णग्रहणमुपलक्षणंतेन गन्धसस्पर्शविभागेनचेतिद्रष्टचव्यं, संठाणेहिं' तियानितस्यारलप्रभायां भवननारकादीनां संस्थानानि, तद्यथा-'ते णं भवणा बाहिं वट्टा अंतो चउरसा अहे पुक्खरकण्णियासंठाणसंठिया' तथा 'ते णं नरया अंतो वट्टा बाहिं चउरंसा अहे खुरप्पसंठाणसंठिया' इत्यादि, तथा पमाणेहिं तिप्रमाणानि, 'अहे त्यादिपरिमाणानि, यथा असीउत्तपरजोयणसयसहस्सबाहल्ला रज्जुप्पमाणमेत्ताआयमविक्खंभेण'मित्यादि, पडोयारेहिति प्रति-सर्वतः सामास्त्येन अवतीर्यते-व्याप्यते यैस्ते प्रत्यवताराः ते चात्र धनोदध्यादिवलया वदितव्याः, तेहि सर्वासुदिक्षु विदिक्षुचेमारत्नप्रभापरिक्षिप्यव्यवस्थितास्तैः, 'जंसमय'मिति कालध्वनोव्याप्ता' वित्यधिकरणभावेऽपि द्वितीया, ततोऽयमर्थः-यस्मिन् समये जानाति आकारादिविशिष्ट परिच्छिनत्ति 'तं समय'ति तस्मिन् समये पश्यति-केवलदर्शनविषयीकरोति?, भगवानाह--
___ गौतम! नायमर्थः समर्थो, नायमर्थोयुक्तयुपपन्न इति भावः, तत्त्वमजानानः पृच्छति-'से केणटेणं भंते!' इत्यादि, 'से' इति अथशब्दार्थे अथ केनार्थेन-कारणेन भदन्त ! एवं पूर्वोक्तेन प्रकारेणोच्यते, तमेवप्रकारंदर्शयति- केवलीण'मित्यादि, भगवानाह-'गौतमे त्यादि, अस्यायं भावार्थः-इह ज्ञानेन परिच्छिदन् जानातीत्युच्यते, दर्शनेन परिच्छन्दन् पश्यतीति, ज्ञानं च से' तस्य भगवत;साकारमन्यथा ज्ञानत्वायोगात्, विशेषानभिगृण्हानो हि बोधो ज्ञानं, 'सविशेष पुनर्ज्ञान'मिति वचनात्,
दर्शनमनाकारं 'निर्विशेष विशेषाणां, ग्रहो दर्शनमुच्यते' इति वचनात्, तत्पर ज्ञात्रानंच दर्शनं च जीवस्य खण्डशो नोपजायते, यथा कतिपयेषु प्रदेशेषु ज्ञानं कतिपयेषु प्रदेशेषु दर्शनं, तथास्वाभाव्यात्, किन्तु यदा ज्ञानं तदा सामस्त्येन ज्ञानमेव यदा दर्शनं तदा सामस्त्येन दर्शनमेव, ज्ञानदर्शने च साकारानाकारतया परस्परं विरुद्धे, छथायातपयोरिवेतरेतराभावनान्तरीयकत्वात्, ततो यस्मिन् समये जानाति तस्मिन् समये न पश्यति, यस्मिन् समये पश्यति तस्मिन् समये न जानाति, एतदेवाह
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org