SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ २२६ प्रज्ञापनाउपाङ्गसूत्रम्-२- २८/२/३/५६१ प्रथमो भङ्ग आहारका इति, अयं च भङ्गो यदाऽन्योऽसंज्ञिनारकः उत्पद्यमानो विग्रहगत्यापन्नोन लभ्यते पूर्वोत्पन्नास्त्वसंज्ञिनः सर्वेऽप्याहारका जातास्तदा लभ्यते, द्वितीयोऽनाहारका इति, एष यदा पूर्वोत्पन्नोऽसंज्ञी नारक एकोऽपि न विद्यते उत्पद्यमानास्तु विग्रहत्यापन्ना बहवो लभ्यन्ते तदा विज्ञेयः, तृतीय आहारकश्च अनाहारकश्च, द्वित्वेऽपि प्राकृते बहुवनचमिति बहुवचनचिन्तायामेषोऽपि भगः समीचीन इत्युपन्यस्तः, तत्र यदा चिरकालोत्पन्न एकोऽसंज्ञी नारको विद्यते अधुनोत्पद्यमानोऽपि विग्रहगत्यापन्न एकस्तदाऽयं भङ्गः, चतुर्थः आहारकश्च अनाहारकाश्च एष चिरकालोत्पन्ने एकस्मित्रसंज्ञिनि नारके विद्यमाने अधुनोत्पद्यमानेषुअसंज्ञिषु विग्रहत्यापन्नेषुद्रष्टव्य, पञ्चमः-आहारकाचअनाहारकश्च,अयंचिरकालोत्पन्नेषु बहुषुअसंज्ञिषु नारकेषु सत्सु अधुनोत्पद्यमाने विग्रहगत्यापने एकस्मिन्नसंज्ञिनि विज्ञेयः, षष्ठ आहारकाच अनाहारकाच, एष बहुषु चिरकालोत्पन्नेषूत्पद्यमानेषु चासंज्ञिषु वेदितव्यः, “एवमेतेछब्मंगा' एवमुपदर्शितप्रकारेण एतेषभंगाः, तद्यथा-आहारकपदस्य केवलस्य बहुवचनेनैकः१,अनाहारकपदस्य केवलस्य बहुवचनेन द्वितीयः२,आहारकपदस्यानाहारकपदस्य च युगपत प्रत्येकमेकवचनेन तृतीयः३,आहारकपदस्यैकवचनेन अनाहारकपदस्य बहुवचनेन चतुर्थः४,आहारकपदस्यबहुवचनेनअनाहारकपदस्यैकवचनेन पञ्चमः ५, उभयत्रापि बहुवचनेन षष्ठः६,शेषास्तु भङ्गानसम्भवन्ति,बहुवचनचिन्तायाः प्रक्रान्तत्वात्, एतेचषट्भङ्गाअसुरकुमारादिष्वपि स्तनितकुमारपर्यवसानेषु वेदितव्याः, तथा चाह-'एवं जाव थणियकुमारा' ‘एगिदिएसु अभंगय'मिति एकेन्द्रियेषु पृथिव्यपतेजोवायुवनस्पतिरूपेष्वमङ्गकंभङ्गकाभाव एक एव भङ्ग इत्यर्थः, सचायं आहारका अपि अनाहारका अपि, तत्राहारका बहवः सुप्रसिद्धा;, अनाहारका अपि प्रतिसमयं पृथिव्यप्तेजोवायवः प्रत्येकमसङ्ख्येयाः प्रतिसमयं वनस्पतयोऽनन्ताः सर्वकालं लभ्यन्ते इति तेऽपि बहवः सिद्धाः, _ 'द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियतिर्यक्पञ्चेन्द्रियेषु प्रत्येकंभङ्गत्रिकं, तद्यथा-आहारकाअथवा आहारकाश्च अनाहारकश्च अथवा आहारकाश्च अनाहारकाच, तत्र द्वीन्द्रियान् प्रति भावनायदा द्वीन्द्रिय एकोऽपि विग्रहगत्यापन्नो न लभ्यते तदा पूर्वोत्पन्नाः सर्वेऽप्याहारका इति प्रथमो मङ्गः, यदा पुनरेको विग्रहगत्यापन्नस्तदा पूर्वेसर्वेऽप्याहारका उत्पद्यमानस्त्वेकोऽनाहारक इति, यदा तूत्पद्यमाना अपि बहवो लभ्यन्ते तदा तृतीयः, एवं त्रीन्द्रियचतुरिन्द्रियतिर्यक्पञ्चेन्द्रियेष्वपि भावना कर्तव्या, मनुष्यव्यन्तरेषुषट्भङ्गाः तेच नैरयिकेष्विव भावनीयाः, तथा चाह-'बेइंदिय जावपंचिंदियतिरिक्खजोणिएसुतियभंगो, मणूसवाणमंतरेसु छब्मंगा' इति, नोसंज्ञीनोअसंज्ञी चकेवली सिद्धश्च ततो नोसंज्ञिनोअसंज्ञित्वचिन्ताणां त्रीणि पदानि, तद्यथा-जीवपदं मनुष्यपदं सिद्धपदं च, तत्र जीवपदे सूत्रमाह 'नोसण्णीनोअसण्णीणंभंते! जीवे इत्यादि,स्यात्-कदाचिदाहारकः केवलिनःसमुद्घाताघवस्थाविरहेआहारकः (कत्वात), स्यात् कदाचिदनाहारकः, समुद्घातावस्थायां अयो गित्वावस्थायां सिद्धावस्थायां वा भावनीयं, सिद्धे अनाहारए' इति सिद्धे-सिद्धविषये सूत्रे अनाहारए' इति वक्तव्यं, पुहुत्तेणं तिपृथक्त्वेन बहुत्वेन चिन्तायामिति प्रक्रमः, 'आहारगाविअनाहारगावि तत्राहारकाअपिबहूनां केवललिनांसमुद्घातद्यवस्थारहितानां सदैवलभ्यमानत्वात्, अनाहारका अपि सिद्धानां सदैव भावात्तेषां चानाहारकत्वादिति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy