________________
२२४
प्रज्ञापनाउपाङ्गसूत्रम्-२- २८/२/१/५५९
विग्रहगत्योत्पद्यमानानां लभ्यमानतया अनाहारकपदेऽपि सदैव तेषु बहुवचनसम्भवात्, तथा चाह-'एवं जाव वेमाणिया नवरं एगिदिया जहा जीवा' इति,
एवं-नैरयिकोक्तभङ्गप्रकारेण शेषा अप्यसुरकुमारादयस्तावद्वक्तव्या यावद्वैमानिकाः, नवरमेकेन्द्रियाः पृथिव्यप्तेजोवायुवनस्पतिरूपाःप्रत्येकंयथाउभयत्रापिबहुवचने जीवा उक्तास्तथा वक्तव्याः, सिद्धेष्वेकएव भङ्गोऽनाहारक इति, सकलशरीरप्रहाणतस्तेषामाहारासम्भवात्, बहूनां च सदा भावात् इति, गतं प्रथमं द्वारं ॥
-पदं-२८-उद्देशकः-२ दारं-२ "भव" :मू. (५६०) भवसिद्धिएणंभंते! जीवे किं आहारते अनाहारते?, गो० सिय आहारते सिय अनाहारए, एवंजाव वेमाणिए भवसिद्धिया गंभंते! जीवा किंआहारगा अना०? गो०! जीवेगिंदियवजो तियभंगो, अभवसिद्धिएविएवं चेव,
नोभवसिद्धिएनोअभवसिद्धिए णं भंते ! जीवे किं आहारए अनाहारए?, गो० ! नो आहारए अनाहारए, एवं सिद्धेवि, नोभवसिद्धियनोअभवसिद्धियाणं भंते! जीवा किंआहारगा अनाहारगा?, गो०! नो आहारगा अनाहारगा, एवं सिद्धेवि।
वृ.द्वितीयं भव्यद्वारभिधित्सुराह–भवसिद्धिएणंभंते!' इत्यादि, मवैः सङ्ख्यातैरसङ्ख्यायतैरनन्तैर्वा सिद्धिर्यस्यासौ भवसिद्धिको भव्य;, स कदाचिदाहारकः कदाचिदनाहारकः, विग्रहगत्याद्यवस्थायां अनाहारकः शेषकालं त्वाहारकः, एवं चतुर्विंशतिदण्डकेऽपि प्रत्येकं वाच्यं, तथा चाह–“एवं जाव वेमाणिए' अत्र च सिद्धविषयं सूत्रं न वक्तव्यं, मोक्षपदप्राप्ततया तस्य भवसिद्धिकत्वायोगात्, अत्रैव बहुवचननेनाहारकानाहारकत्वचिन्तां चिकीर्षुराह
भवसिद्धियाणं भंते!' इत्यादि, अत्राप्याहारकद्वारइवजीवपदेएकेन्द्रियेषुच प्रत्येकमुभयत्र बहुवचनेनैक एव भङ्गो, यथा आहारका अपि अनाहारका अपि, शेषेषु नैरयिकादिषु स्थानेषु भङ्गत्रिकं, कदाचित्केवला आहारकाएवनत्वेकोऽप्यनाहारकः, अथवा कदाचिदाहारकाएकोऽनाहारकः, अथवाआहारकाअपिअनाहारका अपिउभयत्रापि बहुवचनं, तथा चाह-'जीवेगिंदियवज्जो तियभंगो' इति, यथा च भवसिद्धिके एकस्मिन् बहुषु चाहारकानाहारकत्वचिन्ता कृत तथा अभवसिद्धिकेऽपि कर्तव्या, उभयत्राप्येकवचने बहुवचने च भङ्गसङ्ख्यायाः सर्वत्रापि समानत्वात, तथा चाह
'अभवसिद्धिए एवं चेव' अभवसिद्धिकेऽपि भवसिद्धिक इव एकवचने बहुवचने च वक्तव्यमिति, यस्तु न भवसिद्धिको नाप्यमवसिद्धिकः स सिद्धः, स हि भवसिद्धिको न भवति, भवातीतत्वात्, अभवसिद्धिकस्तु रूढ्या यः सिद्धिगमनयोग्यो न भवति स उच्यत, ततोऽभवसिद्धिकोऽपिन भवति, सिद्धिप्राप्तत्वात्, तथाचसतिनोभवसिद्धिकनोअभवसिद्धिकत्वचिन्तायां द्वे एव पदे, तद्यथा-जीवपदं सिद्धिपदं च, उभयत्राप्येकवचने एक एव भङ्गोऽनाहारक इति, बहुवचनेऽप्येक एवानाहारका इति।
-पद-२८, उद्देशकः-२-दारं-३ “संझी":मू. (५६१) सण्णी णं भंते ! जीवे किं आहारए अनाहारए?, गो०! सिय आ० सिय अना०, एवं जाव वेमाणिए, नवरं एगिदियविगलिंदिया नो पुच्छिजंति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
www