________________
२२२
प्रज्ञापनाउपाङ्गसूत्रम्-२- २८/१/-५५७
भावना-यथा शीतपुद्गलाः शीतयोनिकस्य प्राणिनः सुखित्वायोपकलप्यन्ते उष्णपुद्गला वा उष्णयोनिकस्य तथा देवैरपि मनसाऽभ्यवह्यिमाणाः पुद्गलास्तेषां तृप्तये परमसन्तोषाय चोपकल्पन्ते, ततआहारविषयाभिलाषनिवृत्तिर्भवतीति,अत्रचओजहारादिविभागप्रतिपादिका इमाः सूत्रकृताङ्गनियुक्तिगायाः-- ॥१॥ “सरीरेणोयाहारो तयाय फासेण लोमआहारो।
पक्खेवाहारो पुन कावलिओ होइ नायव्वो॥ ओयाहारा जीवा सब्वे अपञ्जत्तया मुनेयव्वा।
पज्जत्तगाय लोमे पक्खेवे होति भइयव्वा ।। ॥२॥ एगिदियदेवाणं नेरइयाणं च नत्थि पक्खेवो ।
सेसाणं जीवाणं संसारत्याण पक्खेवो॥ ॥३॥
लोमाहारा एगिदिया उनेरइयसुरगणा चेव ।
सेसां आहारो लोमे पक्खेवओ चेव ।। ॥४॥ ओयाहारा मनमक्खिणो यसब्वेवि सुरगणा होति।
सेसा हवंति जीवा लोमे पक्खेवो चेव ॥" अथ क आहार आभोगनिवर्तितः को वाऽनाभोगनिवर्तित इति चेत्, उच्यते, देवानामाभोगनिवर्तितःओजआहारः सचापर्याप्तावस्थायां, लोमाहारोऽप्यनाभोगनिवतिः, सच पर्याप्तवस्थायांआभोगनिवर्तितोमनोभक्षणलक्षणः,सचपर्याप्तावस्थायांदेवानामेवनशेषाणां, सर्वेषामप्यानाभोगनिवर्तित आहारोऽपर्याप्तावस्थायांलोमाहारःपर्याप्तावस्थायां, नैरयिकवर्णानांलोमाहारो, नैरयिकाणांतुलोमाहार आभोगनिवर्तितोऽपि, द्वीन्द्रियादीनांमनुष्यपर्यवसानानां यः प्रक्षेपाहारः सआभोगनिवर्तित एवेति ॥
पदं-२८, उद्देशकः-१ समाप्तः
-पद-२८-उद्देशकः-२:वृ. व्याख्यात आहारपदस्य प्रथमोद्देशकः, सम्प्रति द्वितीयो व्याख्येयः, तत्र चादावियमधिकारसग्रहगाथा-- मू. (५५८) आहार १ भविय २ सण्णी ३ लेसा ४ दिट्ठी ५ य संजत ६ कसाए७।
नाण ८ जोगु ९ वओगे १० वेदे ११ यसरीर १२ पञ्जत्ती १३॥ वृ. 'आहारे'त्यादि, प्रथमं सामान्यत आहाराधिकारः, द्वितीयो भव्याधिकारोभव्यविशेषिताहाराधिकारः, एवंतृतीयःसंइयधिकारः,चतुर्थो लेश्याधिकारः पञ्चमोदृष्टयधिकारः षष्ठःसंयताधिकारः सप्तम; कषायाधिकारः अष्टमो ज्ञानाधिकारः नवमो योगाधिकारःदशम उपयोगाधिकारः एकादशो वेदाधिकारः द्वादशःशरीराधिकारः त्रयोदशः पर्याप्तयधिकारः, इह भव्यादिग्रहणेन तत्प्रतिपक्षभूता अभव्यादयोऽपि सूचिता द्रष्टव्याः, तथैवाग्रे वक्ष्यमाणत्वाद्, तत्र प्रथमं सामान्यत आहाराधिकारं विभावयिषुरिदमाह
पदं-२८, उद्देशकः-२-दार-१"आहार" मू. (५५९) जीवे गंभंते! किं आहारए अनाहारए?, गो० सिय आहारएसिय अना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org