SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनाउपाङ्गसूत्रम् - २ - २८/१//५५६ मू. (५५६) नेरइयाणं भंते! किं एगिंदियसरीराई आहारेति जाव पअिंदियसरीराई आहारेति गो० ! पुव्वभावपन्नवणं पडुन एगिंदियसरीराइंपि आहारेति जाव पंचंदिय०, पडुप्पन्न - भावपन्नवर्ण पडुच नियमा पंतिदियसरीरातिं आ०, एवं जाव यणियकुमारा, २२० पुढविकाइयाणं पुच्छा, गो० ! पुव्वभावपन्नवणं पडुच्च एवं चेव, पडुप्पण्णभावपन्नवर्ण पडुच्च नियमा एगिंदियसरीरातिं, बेइंदिया पुव्वभावपन्नवणं पडुन एवं चेव, पडुप्पन्नभावपन्नवणं प० नियमा बेइंदियाणं सरीराति आ०, एवं जाव चउरिंदिया ताव पुव्वभावपन्नवणं पडुच, एवं पडुप्पन्नभावपन्नवणं पडुच नियमा जस्स जति इंदियाइं तइंदियाई सरीरइं आहारेति सेसं जहा नेरइया, जाव वैमाणिता, नेरइया णं भंते! किं लोमाहार पक्खेवाहारा !, गो० ! लोमाहारा नो पक्खोवाहारा, एवं एगिंदिया सव्वदेवा य भाणितव्वा, बेइंदि० जाव मणूसा लोभाहारावि पक्खेवाहारावि । वृ. 'नेरइया णं भंते !' इत्यादि प्रश्नसूत्रं सुगमं निर्वचनसूत्रामाह - 'गोयमे' इत्यादि, पूर्वः - अतीतो भावः पूर्वभावः तस्य प्रत्रापना - प्ररूपणा तां प्रतीत्य एकेन्द्रियशरीराण्यपि यावत्करणात् द्वित्रिचतुरिन्द्रियशरीरपरिग्रहः, पञ्चेन्द्रियशरीराण्यप्याहारयन्ति, इयमत्र भावना - यदा तेषामाहार्यमाणानां पुद्गलानामतीतो भावः परिभाव्यते तदा ते केचित कदाचित् एकेन्द्रियशरीरतया परिणता आसीरन् कदाचित् द्वीन्द्रियशरीरतया कदाचित् त्रीन्द्रियशरीरतया कदाचिच्चतुरिन्द्रियशरीरतया कदाचित् पञ्चेन्द्रियशरीरतया, ततो यदि पूर्वभावं इदानीमध्यारोप्य विवक्ष्यते तदा नैरयिका एकेन्द्रियशरीराण्यपि यावत्पढ्वेन्द्रियशरीराण्यप्याहारयन्तीति भवति, 'पडुप्पन्नभावपन्नवणं पडुच्चे' त्यादि, प्रत्युत्पन्नो- वार्त्तमानिकः स चासौ भावश्च प्रत्युत्पन्नभावस्तस्य प्रज्ञापना तां प्रतीत्य नियमाद्-अवश्यतया पश्चेन्द्रियशरीराण्याहरयन्ति, कथमिति चेत्, उच्यते, इह प्रत्युपन्नभावप्रज्ञापनां करोति नयः ऋजुसूत्रो न शेषा नैगमादयः, ऋजुसूत्रश्च क्रियमाणंकृतं अभ्यवह्रियमाणमभ्यावहतं परिणम्यमाणं परिणतमभ्युपगच्छति, अभ्यवहियमाणाश्च पुद्गलास्ते उच्यन्ते ये स्वशरीरतया परिणम्यमाना वर्तन्ते, अभ्यवहियमाणं चाभ्यवहतं परिणम्यमानं च परिणतमिति तन्मतेन स्वशरीरमेवाभ्यवह्यिते स्वशरीरं च तेषां पञ्चेन्द्रियशरीरं पञ्चैन्द्रियशरीरत्वात् तेषामत उक्तं नियमात् पञ्चेन्द्रियशरीराण्याहारयन्तीति, एवमसुरकुमारादयः स्तनितकुमारापर्यवसाना भवनपतयो वक्तव्याः, पृथिवीकायिकसूत्रे प्रत्युत्पन्नभावप्ररूपणाचिन्तायां नियमादेकेन्द्रियशरीराण्याहारयन्तीति वक्तव्यं, तेषामेकेन्द्रियतया तत्शरीराणामेकेन्द्रियशरीरत्वात् एवं द्वीन्द्रियसूत्रे नियमात् द्वीन्द्रियशरीराण्याहारयन्तीति वक्तव्यं, त्रीन्द्रियसूत्रे नियमात्स त्रीन्द्रियशरीराणि चतुरिन्द्रिसूत्रे नियमात् चतुरिन्द्रियशरीराणि, तिर्यक्पञ्चेन्द्रिया मनुष्या व्यन्तरज्योतिष्कवैमानिकाश्च नैरयिकवद् वक्तव्या, तथा चाह - 'पुढविकाइयाणं पुच्छा' इत्यादि । अधुना लोमाहाराधिकारं विभावयिषुरिदमाह 'नेरइया ण' मित्यादि सुगमं, नवरं नैरयिकाणां प्रक्षेपाहारो न भवति, वैक्रियशरीराणां तथा स्वभावत्वात्, लोमाहारोऽपि पर्याप्तानामवसेयो नापर्याप्तानामिति, 'एवं एगिंदिया' इत्यादि, एवं-नैरयिकोक्तप्रकारेण एकेन्द्रियाः- पृथिव्यप्तेजोवायुवनस्पतयः सर्वे देवाश्च - असुरकुमारदयो यावद्वैमानिका भणितव्याः, तत्रैकैन्द्रियाणां प्रक्षेपाहाराभावो मुखाभावात्, असुरकुमारादीनां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy