________________
पदं - २८, उद्देशकः - १, द्वारं -
२१९
सव्वगसिद्धदेवाणं पुच्छा, गो० ! अजहन्नमणुक्कोसेणं तेत्तीसाए वाससहरसाणं आहारट्ठे समुष्पजति
वृ. 'बेइंदिया णं भंते!' इत्यादि सुगमं, नवरं 'लोमाहारे पक्खेवाहारे' इति लोमभिराहारी लोमाहारः प्रक्षिप्यतेऽर्थात् मुखे इति प्रक्षेपः स चासावाहारश्च प्रक्षेपाहारः, तत्र यः स्वल्पोघतो वर्षादिषु पुद्गलप्रवेशो मूत्रादिगम्यः स लोमाहारः, कावलिकस्तु प्रक्षेपाहारः, तत्र यान् पुद्गलान् लोमाहारतया गृहणाति तान् सर्वान्- अपरिशेषानाहारयन्ति तेषां तथा २ स्वभावत्वात्, यान् पुद्गलान् प्रक्षेपाहारतया गृह्णन्ति तेषामसङ्घयेयतमं भागमाहारयन्ति, अनेकानि पुनर्भागसहप्रणिबहवोऽसङ्घत्येया भागा इति अस्पृश्यमानानामनास्वाद्यमानानां विध्वंसमागच्छन्ति, किमुक्तं भवति बहूनि द्रव्याण्यन्तर्बहिश्च अस्पृष्टान्येवानास्वादितान्येव च विध्वंसमायान्ति, नवरं यथायोगं केचिदतिस्थौल्यतः केचिदतिसौक्ष्म्यत इति, सम्प्रत्यस्पृश्यमाननानामनास्वाद्यमानानां च परस्परमल्पबहुत्वमभिधित्सुराह
'एएसि णं भंते! पुग्गलाणं अनासाइजमाणाणमित्यादि, इह एकैकस्मिन् स्पर्शयोग्ये भागेऽनन्ततमो भाग आस्वाद्यो भवति, ततो येऽनास्वाद्यमानः पुद्गलास्ते स्तोका एव, अस्पृश्यमानपुद्गलापेक्षया तेषामनंतभागवर्त्तित्वात्, अस्पृश्यमानास्तु पुद्गला अनन्तगुणाः, 'जिब्मिदियफासिंदियवेमायत्ताए' इति विमात्राऽत्रापि प्राग्वद् भावनीया,
'एवं जाव चउरिंदिया' एवं द्वीन्द्रियोक्तप्रकारेण सूत्रं तावद् वक्तव्यं यावच्चतुरिन्द्रियाःचतुरिन्द्रियगतं सूत्रं, प्रायः समानवक्तव्यत्वात्, यस्तु विशेषः स उपदर्श्यते - 'नवर' मित्यादि, यान् पुद्गलान प्रक्षेपाहारतया गृह्णन्ति तेषां पुद्गलानामे कमसङ्घत्येयतमं भागमाहारयन्ति अनेकानि पुनर्भागसहस्राणि सङ्घयातीता असङ्घयेयभागा इत्यर्थः अनाघ्रायमाणानि अस्पृश्यमाणानि अनास्वाद्यमानानि विध्वंसमागच्छन्ति, तानि च यथायोगमतिस्थौल्यतोऽतिसौक्ष्म्यतश्च वेदितव्यानि,
अत्रैवाल्पबहुत्वामाह - 'एएसि णं भंते!' इत्यादि, इह एकैकस्मिन् भागे स्पर्शयोग्येऽनन्तमो भागः आस्वादयोग्यो भवति, तस्याप्यनन्तमो भाग आघ्राणयोग्यः, ततो यथोक्तमल्पबहुत्वं भवति, शेषं सर्वं सुगमं, पञ्चेन्द्रियसूत्रे - 'जहन्नेणं अंतोमुहुत्तस्से' ति षष्ठयाः सप्तम्यर्थत्वादन्तर्मुहूर्ते गते सति भूय आहारार्थः समुत्पद्यते, उत्कर्षतः षष्ठभक्तेऽतिक्रान्ते, एतच्च देवकुरूत्तरकुरुतिर्यक्पश्वेन्द्रियापेक्षया द्रष्टव्यं मनुष्यसूत्रे 'उक्कोसेणं अट्ठमभत्तस्से' ति उत्कर्षतोऽष्टमभक्तेऽतिक्रान्ते, एतच तास्वेव देवकुरुत्तर- कुरुषु द्रष्टव्यं व्यन्तरसूत्रे नागकुमारसूत्रवत्, ज्योतिष्कतसूत्रमपि तथैव, यस्तु विशेषस्तमुपदर्शयति'- नवलरं जहन्नेणवि दिवसपुहुत्तस्स उक्कोसेणवि दिवसपुहुत्तस्स'त्ति, ज्योतिष्का हि जघन्यतोऽपि पल्योपमाष्टभागप्रमाणायुषस्ततस्तेषां जघन्यपदेऽप्युत्कृष्टपदेऽपि दिवसपृथक्तवेऽतिक्रान्ते भूय आहारार्थः समुत्पद्यते, पल्योपमाष्टभागायुं च स्वरूपत एव दिवस पृथकत्वातिक्रमे भूय आहारार्थः समुत्पद्यते,
7
वैमानिकसूत्रे 'नवरमाभोगनिव्वत्तिए जहन्नेणं दिवसपुहुत्तस्स' इति, एतत्पल्योपमाद्यायुषामवसेयं, 'उक्कोसेणं तेत्तीसाए वाससहस्साणं ति एतदनुत्तरसुराणामवसेयं, इह यस्य यावन्ति सागरोपमाणि स्थितिस्तस्य तावत्सु वर्षसहस्रष्वतिक्रान्तेषु भूय आहारार्थः समुत्पद्यते, ततोऽमुं न्यायमाश्रित्य सौधर्मेशानादिदेवलोकेषु जघन्यत उत्कर्षतश्च स्थितिपरिमाणं परिभाव्य वैमानिकसूत्रं सकलमपि स्वयं विज्ञेयमिति । सम्प्रत्येकेन्द्रियशरीरादीनामधिकारमभिधित्सुराह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org